सनातन स्तोत्र एवं ग्रन्थ संग्रह
विष्णु स्तोत्रम्
सनातन देव

॥ श्रीहर्यष्टकम् ॥

.. Shreeharyasht'akam ..
रचयिता: पारंपरिक पाठ संख्या: 11
23px

॥ श्रीहर्यष्टकम् ॥

हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः।। १ ।।

स गंगा स गया सेतुः स काशी स च पुष्करम्।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम्।। २ ।।

वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च।
यत्कृतं तेन येनोक्तं हरिरित्यक्षरद्वयम्।।३ ।।

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च।
तानि सर्वाण्यशेषाणि हरिरित्यक्षरद्वयम्।। ४ ।।

गवां कोटिसहस्राणि हेमकन्यासहस्त्रकम्।
दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्।। ५ ।।

ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः।
अधीतस्तेन येनोक्तं हरि रित्यक्षरद्वयम्।। ६ ।।

अश्वमेधैर्महायज्ञैर्नरमेधैः स्तथैव च।
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षरद्वयम्।। ७ ।।

प्राणप्रयाण-पाथेयं संसारव्याधिनाशनम्।
दुःखात्यंतपरित्राणं हरिरित्यक्षरद्वयम्।।८ ।।

बद्धः परिकरस्तेन मोक्षाय गमनं प्रति।
सकृदुच्चारितं येन हरि रित्यक्षर द्वयम्।। ९ ।।

फलश्रुति
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
आयुष्यं बलमारोग्यं यशोवृद्धिशियावहम्।।

प्रह्लादेन कृतं स्तोत्रं दुःखसागरशोषणम्।
यः पठेत् स नरो याति तद्विष्णोः परमं पदम्।।

॥ इति श्रीहर्यष्टकम् ॥
पाठ जप: 0/108
प्रतिलिपि (Copy) भयो!