सनातन स्तोत्र एवं ग्रन्थ संग्रह
लक्ष्मी स्तोत्रम्
लक्ष्मीनारायण संहिता • प्रथम खण्ड • अध्याय 1
सनातन देव

लक्ष्मीनारायणसंहिता

.. Lakshmeenaaraayanasam'hitaa ..
रचयिता: पारंपरिक पाठ संख्या: 16
23px

लक्ष्मीनारायणसंहिता
खण्डः १
 (कृतयुगसन्तानः)
अध्यायः - १

परंब्रह्मांडपरंब्रह्म श्रियं नारायणं हरिम् ।
सर्वाऽन्तर्यामिणं वन्दे देवं सर्वाऽवतारिणम् ॥ १ ॥

श्रीश्च लक्ष्मीश्च यत्पत्न्यौ विप्राग्नी यन्मुखं मतम् ।
सन्तो यद्धृदयं शश्वत् तस्मै चाऽन्वयिने नमः ॥ २ ॥

दिविषद्बर्हिषत् त्रिषत् पितृसद्भूतसच्च यः ।
ध्यानलभ्यस्वरूपाय तस्मै शंवर्षिंणे नमः ॥ ३ ॥

हिमवच्छिखरे रम्ये स्वाश्रमे पर्वतोत्तमे ।
नारायणेन वै लक्ष्म्यै या प्रोक्ता निजसंहिता ॥ ४ ॥

बद्रिकाश्रमतीर्थे तां ततो लब्ध्वाऽऽदिरूपधृक् ।
श्वेतव्यासो दिव्यदृष्टिश्चतुःशिष्यानुवाच ह ॥ ५ ॥

श्वैतिं च सुशिखं चापि श्वेताश्वं श्वेतलोहितम् ।
चत्वारस्ते महात्मानो ब्रह्मिष्ठा ब्रह्मपारगाः ॥ ६ ॥

भूत्वा धाम हरेः प्रापुः पुनरावृत्तिवर्जितम् ।
अनादिश्रीकृष्णनारायणपत्न्यस्तु ताः कथाः ॥ ७ ॥

पतिं नारायणं प्रेम्णा पप्रच्छुर्लोमशाऽऽश्रमे ।
सौराष्ट्रे कुंकुमवापीक्षेत्रेऽश्वपट्टसारसे ॥ ८ ॥

नारायणश्च ताभ्यो वै जगादेमां हि संहिताम् ।
लक्ष्मीनारायणसंहिताख्यां सर्वार्थसंभृताम् ॥ ९ ॥

पञ्चविंशतिसाहस्राऽधिकलक्षं हि वर्तते ।
श्लोकानां यत्र संख्यानं मोक्षदं पाठमात्रतः ॥ 1.1.१० ॥

एकदा नारदः प्रायात् कर्तुं वैकुण्ठिदर्शनम् ।
सभा तेन समासीना दृष्टा श्रीविष्ण्वधिष्ठिता ॥ १ १॥

दिव्या मुक्तास्त्वक्षराख्या गोलोकस्थास्तथाऽपरे ।
वैकुण्ठवासिनो मुक्ताः श्वेतद्वीपनिवासिनः ॥ १ २॥

अव्याकृताऽमृतवासाः श्रीलक्ष्मीधामवासिनः ।
बद्रीक्षीराऽब्धिमाश्चापि तदन्यद्धामवर्तिनः ॥ १३॥

ऋषयः पितरो देवाः सिद्धा गान्धर्वचारणाः ।
लोकपालाश्च मनवस्तापसाः साधवश्च ये ॥ १४॥

मुनयो दिव्यगतयो दिव्याऽहतसुविग्रहाः ।
आसन् सर्वे तत्र योगे नारायणपरायणाः ॥ १५॥

लक्षयोजनविस्तीर्णाऽऽप्रान्तसंकुलिता सभा ।
नारदेन तु संदृष्टा ह्यर्धा पुंभिः प्रकाशिता ॥ १६॥

वामभागे यत्र लक्ष्मीस्तत्र देव्यस्तु संस्थिताः ।
मुक्तान्यो वासुदेवान्यो गोप्यः सख्यस्तथा पराः ॥ १७॥

ईश्वरिण्यो भगवत्यः पार्षदाण्यश्च सेविकाः ।
ब्रह्माण्यो मातरो देव्यो मानव्यः सिद्धविग्रहाः ॥ १८॥

नारदेन सभा दृष्टा ह्यर्धा नारीप्रकाशिता ।
कृष्णनारायणं देवं हरिं विष्णुं सनातनम् ॥ १९ ॥

श्रियं लक्ष्मीं महामायां नारदः प्राणमन् मुदा ।
सर्वां सभां प्रणम्याऽथ विष्णुदत्ते सुविष्टरे ॥ २० ॥

न्यषीदन्नारटस्तत्र तैः सर्वेः सत्कृतः ऋषिः ।
व्यासोऽहं श्वेतसंज्ञो वै सूतः सुशिखनामकः ॥ २१ ॥

व्याख्यातारस्तथा चान्ये बृहस्पतिपुरोगमाः ।
दिव्यरूपास्तु ते सर्वै नारायणसमीहया ॥ २२॥

कथास्तु विविधास्तत्र चक्रुर्भक्तिविवर्धनाः ।
तत्र नारायणेनोक्तं नारदोऽयं महामुनिः ॥२ ३ ॥

बहुश्रुतो बहुज्ञाता समाख्याननिधिर्महान् ।
लोकवृत्तान्तकुशलः प्रष्टव्यो वृत्तवित्तये ॥ २४॥

लक्ष्मीरुवाच-
भो तपस्विन् महायोगिन् विष्णोरंश महामुने ।
कुतस्तादागम्यते किं वर्तते विष्णुसृष्टिषु ॥ २५ ॥

कथंव्रता जना भूमौ समयश्चापि कीदृशः ।
तीर्थानां सुसतां पृथ्व्यां भूसुराणां गवां तथा ॥ २६ ॥

दीनानां सुकृतस्यापि साध्वीनां न्यासिनां स्थितिः ।
कीदृशी साम्प्रतं चास्ति मोक्षाध्वा कच्चिदक्षतः ॥ २७ ॥

ज्ञानं विज्ञानसहकृत् कच्चिद्विप्रेषु राजते ।
नारायणस्य सद्भक्तिर्लोकषु वर्तते न्विति? ॥ २८ ॥

श्रीनारद उवाच-
पितरौ सर्वदा वन्दे कृपालू मुक्तिदायकौ ।
स्वल्पं नाऽविदितं चापि पित्रोः सर्वज्ञयोः किल ॥ २९ ॥

तथापि शिष्यधर्मत्वात् कथयामि यथाक्रमम् ।
पर्यटन् सुबहून् लोकान् दृष्ट्वा कृतयुगस्थितिम् ॥ ३ ० ॥

विलोक्य विष्णुसृष्टौ वै विष्णुभक्तियुतान् जनान् ।
हृष्यामि च मुहुर्मातः पातिव्रत्यपराः प्रजाः ॥ ३१ ॥

धन्योऽयं भगवान् विप्णुर्धन्या मा परमेश्वरी ।
यत्प्रतापाद् ध्रुवा मुक्तिर्लभ्यते मानवैः किल ॥ ३ २॥

श्रवणात्कीर्तनाद्विष्णोः स्मरणात्पादसेवनात् ।
अर्चनाद्वन्दनात् सख्याद्दास्याद्वाऽऽत्मानिवेदनात् ॥ ३३ ॥

ज्ञानाऽज्ञानकृताद्वापि संसारमलवर्जनात् ।
सद्यः संप्राप्यते मोक्षस्तस्माद्भाग्यं नु किं परम् ॥ ३४॥

सकृज्जपन्ति ये जाप्यं गृणन्ति नाम वा हरेः ।
दिव्यभावनया मातर्मुक्तिं यान्ति तु ते ध्रुवाम् ॥ ३५॥

सामान्यामथवा मुख्यां विष्णोर्दीक्षां हि ये जनाः ।
गृह्णन्त्याबालवृद्धाद्यास्ते स्युर्वैकुण्ठवासिनः ॥ ३६ ॥

आनुकूल्यं सदा विष्णोः प्रातिकूल्यविवर्जनम् ।
विष्णौ पूर्णो हि विश्वासस्तवाऽस्मीतिवरेषणा ॥ ३७॥

देहेन्द्रियमनः प्राणाऽभिमतिधीषणात्मनाम् ।
न्यासो विष्णौ तथा दीनाऽधीनता च हरेः सदा ॥ ३८ ॥

सर्वस्वं मे हरिः साक्षान्नान्यश्चेति मतिः स्थिरा ।
इत्येवं षड्विधा विष्णौ प्रपन्तिः शरणागतिः ॥ ३९ ॥

तदेकं वा समासाद्य नारायणपरायणः ।
भावैक्यं वा क्रियैक्यं वा ह्यात्मैक्यं वा प्रसाधयेत् ॥ ४० ॥

तथा तु श्रीहरेरैक्यं यथा यावत्प्रजायते ।
तावत्तथा स्वयं नारायणानन्दं समश्नुते ॥ ४१ ॥

प्रेमतत्त्वं द्रवरूपं चात्मापि द्रवतां भजेत् ।
द्रवद्वयं समासाद्य स्वयं विष्णुर्द्रवो भवेत् ॥४२ ॥

आनन्दघनचिद्घनविज्ञानघनमिष्टताः ।
नित्यतृप्तनित्यशैत्यनित्यसुखसुपुष्टताः ॥ ४३ ॥

नारायणैक्यमापन्नः सर्वान् कामान् समश्नुते ।
क्वचित्पार्श्वे क्वचिन्मूर्तौ क्वचित्तस्मिन् प्रलीयते ॥४४ ॥

क्वचिन्मुक्तः क्वचिल्लक्ष्मीः क्वचिद्दासः प्रवर्तते ।
शरीरवच्चेन्द्रियवन्मनोवत्तस्य जायते ॥४५॥

अहं तु नारदो मातर्विष्णोर्मन इतीरितः ।
त्वं तु लक्ष्मीस्तस्य चाऽर्धं शरीरात्मेति कथ्यसे ॥४६ ॥

सन्पदार्थं हरिः साक्षाच्चिदर्धस्त्वं नु सम्मता ।
तयोर्द्रवे महानन्दः सच्चिदानन्द उच्यते ॥ ४७॥

येन केनापि भावेन त्वात्मा वै द्रवतां व्रजेत् ।
तद्भावद्रवमासाद्य मुक्तिं विष्णुमयी व्रजेत् ॥।४८ ॥

श्रीश्वेतव्यास उवाच-
इत्युक्त्वा द्रवरूपेण नारदो लीनतां गतः
विष्णौ प्रेमपराकाष्ठासुखानुभववारिधौ ॥४९ ॥

पश्यतां तु सभास्थानां सर्वेषामिदमद्भुतम् ।
चमत्कृतिकरं जातम् अहो भक्तस्य भक्तता ॥ ५ ०॥

लक्ष्मीर्जिज्ञासमाना वै नारायणपरायणा ।
पप्रच्छ परमात्मानं लोकोपकारसत्तये ॥५ १ ॥

श्रीलक्ष्मीरुवाच-
अहो भक्तास्तु बहवा दृष्टास्ते परमात्मनः ।
न कश्चिदीदृशो दृष्टो योऽयं त्वयि गतो द्रवम् ॥।५२॥

मन्ये तु कारणं तत्र करुणा श्रीमतस्तव ।
यस्योपरि भवेद् देव निःसीमानुग्रहस्तव ॥५३ ॥

तस्यैव नाथ नो भिन्नो भवसीति मतिर्मम ।
एतादृशात्मलाभार्थे यथा यद् भवतो मतम् ॥५४॥

यद्वाऽनुग्रहलब्ध्यर्थं किं कर्तव्यं त्वयेष्यते? ।
श्रीश्वेतव्यास उवाच-
नारायणस्तु तच्छ्रुत्वा सर्वेषां हितकाम्यया ॥५५॥

उवाच परमप्रीत्या स्वल्पमप्यतुलार्थभृत् ।
येन साधारणा जीवा अपि यान्तीदृशीं गतिम् ॥५६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैकुण्ठे लक्ष्मीनारायणीयसभायां नारदीयद्रवीभावभक्तिचमत्कृतिनिरूपणात्मकः प्रथमोऽध्यायः ॥ १ ॥

पाठ जप: 0/108
प्रतिलिपि (Copy) भयो!