॥ श्रीगुणरत्नकोशः ॥
श्रीपराशर भट्टार्यः श्रीरङ्गेशपुरोहितः श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
श्रियै समस्तचिदचिद्विधानव्यसनं हरेः । अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १॥
उल्लासपल्लवितपालितसप्तलोकी- निर्वाहकोरकित नेमकटाक्षलीलाम् । श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २॥
अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत् प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः । स्तननयनगुलुच्छस्फारपुष्पद्विरेफाः रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥ ३॥
यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति । भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४॥
यद्यावत्तववैभवं तदुचितस्तोत्राय दूरे स्पृहा स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्चादयः । अप्येवं तव देवि! वाङ्मनसयोर्भाषानभिज्ञं पदं का वाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥ ५॥
स्तोतारं तमुशन्ति देवि! कवयो यो विस्तृणीते गुणान् स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति । यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः क्षान्त्यौदार्यदयादयो भगवति! स्वां प्रस्नुवीरन् प्रथाम् ॥ ६॥
सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीः श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः । वैदग्ध्यवर्णगुणगुम्भनगौरवैर्यां कण्डूलकर्णकुहराः कवयो धयन्ति ॥ ७॥
अनाघ्रातावद्यं बहुगुणपरीणाहि मनसो दुहानं सौहार्दं परिचितमिवाथापि गहनम् । पदानां सौभ्रात्रादनिमिषनिषेव्यं श्रवणयोः त्वमेव श्रीर्मह्यं बहुमुखय वाणीविलसितम् ॥ ८॥
श्रियः श्रीः श्रीरङ्गेशय! तव च हृद्यां भगवतीं श्रियं त्वत्तोऽप्युच्चैर्वयमिह फणामः शृणुतराम् । दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥ ९॥
देवि! श्रुतिं भगवतीं प्रथमे पुमांसः त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति । तद्द्वारपाटनपटूनि च सेतिहास- सन्तर्कणस्मृतिपुराणपुरस्सराणि ॥ १०॥
आहुर्वेदानमानं कतिचन कतिचाराजकं विश्वमेतत् राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये । भिक्षावन्ये सुराजम्भवमिति च जडास्ते तलातल्यकार्षुः ये ते श्रीरङ्गहर्म्याङ्गणकनकलते! न क्षणं लक्ष्यमासन् ॥ ११॥
मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन श्रुतिशिरसिनिगूढं लक्ष्मि! ते वीक्षमाणाः । निधिमिव महिमानं भुञ्जते येऽपि धन्याः ननु भगवति! दैवीं सम्पदं तेऽभिजाताः ॥ १२॥
अस्येशाना जगत इतितेऽधीमहे यां समृद्धिं श्रीः! श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम् । ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः तं च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः ॥ १३॥
उद्बाहुस्त्वामुपनिषदसावाह नैका नियन्त्रीं श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे । स्मर्तारोऽस्मज्जननि यतमे सेतिहासैः पुराणैः नित्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥ १४॥
आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकात् ऐश्वर्यं यदिहोत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये । तुङ्गं मङ्गलमुज्ज्वलं गरिमवत् पुण्यं पुनः पावनं धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषाः विप्रुषः ॥ १५॥
एको मुक्तातपत्रप्रचलमणिघणत्कारिमौलिर्मनुष्यः दृप्यद्दन्तावळस्थो न गणयति नतान् यत्क्षणं क्षोणिपालान् । यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन् दन्तपङ्क्ती तत्ते श्रीरङ्गराजप्रणयिनि नयनोदञ्चितान्यञ्चिताभ्याम् ॥ १६॥
रतिर्मतिसरस्वती धृतिसमृद्धिसिद्धिश्रियः सुधासखि! यतोमुखं चिचलिषेत्तव भ्रूलता । ततोमुखमथेन्दिरे! बहुमुखीमहम्पूर्विकां विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥ १७॥
सह स्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः अनोकहबृहस्पतिप्रबलविक्लवप्रक्रियम् । इदं सदसदात्मना निखिलमेव निम्नोन्नतं कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि! तत्ताण्डवम् ॥ १८॥
काले शंसति योग्यतां चिदचितोरन्योन्यमालिङ्गतोः भूताहङ्कृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः । अण्डानावरणैस्सहस्रमकरोत्तान्भूर्भुवस्सर्वतः श्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः ॥ १९॥
शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकं वैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् । पुंसा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन् श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये ॥ २०॥
यद्दूरे मनसो यदेव तमसः पारे यदत्यद्भुतं यत्कालादपचेलिमं सुरपुरी यद्गच्छ्तो दुर्गतिः । सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहं मद्गिरां तद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः ॥ २१॥
हेलायामखिलं चराचरमिदं भोगे विभूतिः परा पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः । श्रीरङ्गेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयं शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥ २२॥
आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता । भावैरद्भुतभोगभूमगहनैस्सान्द्रा सुधास्यन्दिभिः श्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्तां राजधानीं विदुः ॥ २३॥
तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुम्भिरानन्दनिघ्नैः । स्नेहादास्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यै- रानन्दैकार्णवं श्रीर्भगवति! युवयोराहुरास्थानरत्नम् ॥ २४॥
तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेकातपत्रम् । तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हता त्वामसङ्ख्यैः अन्योन्याद्वैतनिष्ठाघनरसगहनान् देवि! बध्नासि भोगान् ॥ २५॥
भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाहताम् । देवि! त्वामनु नीलया सह महीदेव्यस्सहस्रं तथा याभिस्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥ २६॥
ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैः भोगैर्वा निर्विशेषाः सवयस इव ये नित्यनिर्दोषगन्धाः हे श्रीः! श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपि प्रेमप्रद्राणभावाविलहृदयहठात्कारकैङ्कर्यभोगाः ॥ २७॥
स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने! त्वदाश्लेषोत्कर्षात् भवति खलु निष्कर्षसमये । त्वमासीर्मातः! श्रीः! कमितुरिदमित्थं त्वविभवः तदन्तर्भावात्त्वां न पृथगभिदधत्ते श्रुतिरपि ॥ २८॥
तव स्पर्शादीशं स्पृशति कमले! मङ्गलपदं तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः । प्रसूनं पुष्यन्तीमपि परिमलर्धिं जिगदिषुः न चैवं त्वा देवं स्वदत इति कश्चित्कवयते ॥ २९॥
अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभू- दमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् । अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥ ३०॥
स्वतश्श्रीस्त्वं विष्णोस्स्वमसि तत एवैश भगवान् त्वदायत्तर्धित्वेऽप्यभवदपराधीनविभवः । स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं न कुण्ठस्वातन्त्र्यं भवति न चान्याहितगुणम् ॥ ३१॥
प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथा- प्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे! तव भगवतश्चैते साधारणाः गुणराशयः ॥ ३२॥
अन्येऽपि यौवनमुखाः युवयोस्समानाः श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति! तस्मिंस्तव त्वयि च तस्य परस्परेण संस्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥ ३३॥
युवत्वादौ तुल्येऽप्यरवशताशत्रुशमन- स्थिरत्वादीन्कृत्वा भगवति! गुणान् पुंस्त्वसुलभान् । त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपारार्थ्यकरुणा- क्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥ ३४॥
घनकनकद्युती युवदशामपि मुग्धदशां युवतरुणत्वयोरुचितमाभरणादि परम् । ध्रुवमसमानदेशविनिवेशि विभज्य हरौ त्वयि च कुशेशयोदरविहारिणि निर्विशसि ॥ ३५॥
अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्भतः क्षीराब्धेः किमृजीषतामुपगताः मन्ये महार्घास्ततः । इन्दुः कल्पलता सुधामधुमुखा इत्याविलां वर्णनां श्रीरङ्गेश्वरि! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥ ३६॥
प्रणमदनुविधित्सावासनानम्रमग्रे प्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन । कनकनिकषचञ्चच्चम्पकस्रक्समान- प्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥ ३७॥
एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादाम्बुजं मध्ये विष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् । त्वां पश्येम निषेदुषीं प्रतिकलं कारुण्यकूलङ्कष- स्फारापाङ्गतरङ्गमम्ब! मधुरं मुग्धं मुखं बिभ्रतीम् ॥ ३८॥
सुरभितनिगमान्तं वन्दिषीयेन्दिरायाः तव कमलपलाशप्रक्रियं पादयुग्मम् । वहति यदुपमर्दैर्वैजयन्ती हिमाम्भः प्लुतिरिव नवत्वं कान्तबाहान्तराले ॥ ३९॥
त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाः नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम् । दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते साक्षाल्लक्ष्मि! तवावलोकविभवः का क्वा कया वर्ण्यते ॥ ४०॥
आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागल- प्रेमार्द्रैरपि कूलमुद्वहकृपासम्प्लावितास्मादृशैः । पद्मे! ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः ऐश्वर्योद्गमगद्गदैरशरणं मां पालयाऽऽलोकितैः ॥ ४१॥
पादारुन्तुदमेवपङ्कजरजश्चेटीभृशालोकितैः अङ्गम्लानिरथाम्ब! साहसविधौ लीलारविन्दग्रहः डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं केन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा ॥ ४२॥
आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकित- भ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वाऽयशः । सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं भोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥ ४३॥
आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत् सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् । श्रीरङ्गेश्वरि! कोमलाङ्गसुमनस्सन्दर्भणं देवि ते कान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम् ॥ ४४॥
मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैः कान्तोपभोगललितैर्लुलिताङ्गयष्टिः । पुष्पावलीव रसिकभ्रमरोपभुक्ता त्वं देवि! नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५॥
कनकरशनामुक्ताताटङ्कहारललाटिका- मणिसरतुलाकोटिप्रायैर्जनार्दनजीविके! प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैः वलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥ ४६॥
सामान्यभोग्यमपि कौस्तुभवैजयन्ती- पञ्चायुधादि रमणः स्वयमेव बिभ्रत् । तद्भारखेदमिव ते परिहर्तुकामः श्रीरङ्गधाममणिमञ्जरि! गाहते त्वाम् ॥ ४७॥
यदि मनुजतिरश्चां लीलया तुल्यवृत्तेः अनुजनुरनुरूपा देवि! नावातरिष्यः । असरसमभविष्यन्नर्म नाथस्य मातः दरदलदरविन्दोदन्तकान्तायताक्षि ॥ ४८॥
स्खलितकटकमाल्यैर्दोर्भिरब्धिं मुरारेः भगवति दधिमाथं मथ्नतः श्रान्तिशान्त्यै । भ्रमदमृतरङ्गावर्ततः प्रादुरासीः स्मितनयनसुधाभिस्सिञ्चती चन्द्रिकेव ॥ ४९॥
मातर्मैथिलि राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः सा नस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥ ५०॥
मातर्लक्ष्मि यथैव मैथिलजनस्तेनाध्वना ते वयं त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च । जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिं पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥ ५१॥
पितेव त्वत्प्रेयान् जननि परिपूर्णागसि जने हितस्रोतोवृत्त्या भवति च कदाचित् कलुषधीः । किमेतन्निर्दोषः क इह जगतीतित्वमुचितैः उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ ५२॥
नेतुर्नित्यसहायिनी जननि नस्त्रातुं त्वमत्रागता लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दं बहु । क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने जातो धिक्करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥ ५३॥
अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं हरधनुरसौ वल्लीभञ्जं बभञ्ज च मैथिलि । अपि दशमुखीं लूत्वा रक्षः कबन्धमनर्तयत् किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥ ५४॥
दशशतपाणिपादवदनाक्षिमुखैरखिलैः अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः । अवतरणैरतैश्च रसयन् कमिता कमले क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥ ५५॥
जननभवनप्रीत्या दुग्धार्णवं बहुमन्यसे जननि दयितप्रेम्णा पुष्णासि तत्परमं पदम् । उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षण- क्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥ ५६॥
औदार्यकारुणिकताश्रितवत्सलत्व- पूर्वेषु सर्वमतिशायितमत्र मातः । श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति सीतावतारमुखमेतदमुष्य योग्या ॥ ५७॥
ऐश्वर्यमक्षरगतिं परमं पदं वा कस्मै चिदञ्जलिभरं वहते वितीर्य अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब! त्वं लज्जसे कथय कोऽयमुदारभावः ॥ ५८॥
ज्ञानक्रियाभजनसम्पदकिञ्चनोऽहं इच्छाधिकारशकनानुशयानभिज्ञः । आगांसि देवि युवयोरपि दुस्सहानि बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९॥
इत्युक्तिकैतवशतेन विडम्बयामि तानम्ब! सत्यवचसः पुरुषान् पुराणान् । यद्वा न मे भुजबलं तव पादपद्म- लाभे त्वमेव शरणं विधितः कृताऽसि ॥ ६०॥
श्रीरङ्गे शरदश्शतं सह सुहृद्वर्गेण निष्कण्टकं निर्दुःखं सुसुखञ्च दास्यरसिकां भुक्त्वा समृद्धिं पराम् । युष्मत्पादसरोरुहान्तररजस्स्याम त्वमम्बा पिता सर्वं च त्वमसि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥ ६१॥
॥ इति श्रीपराशरभट्टार्यैरनुगृहीतः श्रीगुणरत्नकोशः समाप्तः ॥
।। इति श्रीगुणरत्नकोश स्तोत्रं समाप्तम्।।