सनातन स्तोत्र संग्रह
लक्ष्मी स्तोत्रम्
सनातन देव

॥ श्रीवरदवल्लभसतोत्रम् ॥

stotra-6f37fbde
रचयिता: पारंपरिक पाठ संख्या: 1
23px

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजस्सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १॥

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु- र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयान्ते विदन् ॥ २॥

ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम् । श्रेयो नह्यरविन्दलोचनमनः कान्ताप्रसादादृते संसृत्याक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ॥ ३॥

शान्तानन्तमहाविभूतिपरमं यद्ब्रह्मरूपं हरे- र्मूर्ते ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्भुतम् । यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणिता- न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४॥

आकारत्रयसम्पन्नामार्विन्दनिवासिनीम् ॥ अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥ ५॥

॥ इति श्रीमद्यामुनमुनिविरचितं श्रीवरदवल्लभसतोत्रम् सम्पूर्णम्

पाठ जप: 0/108