Back to Articles
सङ्कटहर चतुर्थी
॥ श्री सङ्कटहर चतुर्थी सम्पूर्ण पूजाविधिः ॥
दीप • गौरी-गणेश • कलश पूजन • षोडशोपचार • २१ दूर्वा • स्तोत्र • आरती • चन्द्रार्घ्य
१. आरम्भिक पूर्वाङ्ग विधि
आचमनम् (तीन बार जल पिएँ व चौथी बार हाथ धोएँ):
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः ।
ॐ हृषीकेशाय नमः (हस्तं प्रक्षालयेत्) ।
पवित्रीकरणम् (जल छिड़कें):
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
२. दीप-पूजनम्
दीपक प्रज्वलित कर हाथ में अक्षत-पुष्प लेकर छोड़ें:
शुभं करोति कल्याणमारोग्यं धनसम्पदाम् । शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तु ते ॥
भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः । आरोग्यं देहि पुत्रांश्च मतिं शान्तिं प्रयच्छ मे ॥
ॐ दीपज्योतिषे नमः, गन्धं, अक्षतान्, पुष्पं च समर्पयामि ।
३. प्रारम्भिक श्री गणेश-गौरी पूजनम्
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥
• आवाहनम्: ॐ श्रीगणेशाम्बिकाभ्यां नमः, आवाहयामि ।
• आसनम्: ॐ श्रीगणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।
• स्नानम्: ॐ श्रीगणेशाम्बिकाभ्यां नमः, जलं समर्पयामि ।
• चन्दन-कुङ्कुम: ॐ श्रीगणेशाम्बिकाभ्यां नमः, गन्धं समर्पयामि ।
• अक्षतान्: ॐ श्रीगणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।
• पुष्प-दूर्वा: ॐ श्रीगणेशाम्बिकाभ्यां नमः, पुष्पं समर्पयामि ।
• धूप-दीप: ॐ श्रीगणेशाम्बिकाभ्यां नमः, धूप-दीपं दर्शयामि ।
• नैवेद्य: ॐ श्रीगणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि ।
४. कलश स्थापना एवं वरुण पूजनम्
कलश के मुख पर हाथ रखकर वरुण देव व तीर्थों का ध्यान करें:
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः । मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥
गङ्गे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥
ॐ अपांपतये वरुणाय नमः, गन्ध-अक्षत-पुष्प-धूप-दीप-नैवेद्यं समर्पयामि ।
५. प्रधान सङ्कल्पः
हाथ में जल, अक्षत, पुष्प और सिक्का लेकर बोलें:
ॐ विष्णुर्विष्णुर्विष्णुः, श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भारतवर्षे ...क्षेत्रे ...संवत्सरे ...ऋतौ ...मासे कृष्णपक्षे चतुर्थ्यां तिथौ ...वासरे ...गोत्रोत्पन्नः ...(नाम)... अहं मम सर्वसङ्कटनिवृत्तिद्वारा सकलकार्यसिद्ध्यर्थं श्रीगणेशप्रीत्यर्थं यथाशक्ति सङ्कटहरचतुर्थीपूजनं करिष्ये ।
६. मुख्य सङ्कटहर चतुर्थी षोडशोपचार पूजा
• ध्यानम्
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् । लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
आखुपृष्ठसमासीनं चामरैर्वीजितं गणैः । शेषयज्ञोपवीतं च चिन्तयामि गजाननम् ॥
ॐ श्रीविनायकाय नमः ध्यायामि ।
• आवाहनम् एवं आसनम्
आगच्छ देव देवेश सङ्कटं मे निवारय । यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥ ॐ गजास्याय नमः आवाहयामि ।
गणाधीश नमस्तेऽस्तु सर्वसिद्धिप्रदायक । आसनं गृह्यतां देव सङ्कटं मे निवारय ॥ ॐ विघ्नराजाय नमः आसनं समर्पयामि ।
• पाद्यम्, अर्घ्यम् एवं आचमनीयम्
उमापुत्र नमस्तेऽस्तु नमस्ते मोदकप्रिय । पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥ ॐ लम्बोदराय नमः पाद्यं समर्पयामि ।
लम्बोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् । अर्घ्यं गृहाण देवेश सङ्कटं मे निवारय ॥ ॐ शङ्करसूनवे नमः अर्घ्यं समर्पयामि ।
गङ्गादिसर्वतीर्थेभ्यः आहृतं जलमुत्तमम् । गृहाणाचमनीयार्थं सङ्कटं मे निवारय ॥ ॐ उमासुताय नमः आचमनीयं समर्पयामि ।
• पञ्चामृत एवं शुद्धोदक स्नानम्
पयोदधिघृतं चैव शर्करामधुसम्युतम् । पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥ ॐ वक्रतुण्डाय नमः पञ्चामृतस्नानं समर्पयामि ।
कवेरजासिन्धुगङ्गा कृष्णागोदोद्भवैर्जलैः । स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥ ॐ उमापुत्राय नमः शुद्धोदकस्नानं समर्पयामि ।
• वस्त्र, उपवीत, गन्ध, अक्षत एवं पुष्प
इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर । वस्त्रयुग्मं गणाध्यक्ष सङ्कटं मे निवारय ॥ ॐ शूर्पकर्णाय नमः वस्त्राणि समर्पयामि ।
विनायक नमस्तुभ्यं नमः परशुधारिणे । उपवीतं गृहाणेदं सङ्कटं मे निवारय ॥ ॐ कुब्जाय नमः यज्ञोपवीतं समर्पयामि ।
ईशपुत्र नमस्तुभ्यं नमो मूषिकवाहन । चन्दनं गृह्यतां देव सङ्कटं मे निवारय ॥ ॐ गणेश्वराय नमः गन्धान् धारयामि ।
घृतकुङ्कुम सम्युक्ताः तण्डुलाः सुमनोहराः । अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥ ॐ विघ्नराजाय नमः अक्षतान् समर्पयामि ।
चम्पकं मल्लिकां दूर्वाः पुष्पजातीरनेकशः । गृहाण त्वं गणाध्यक्ष सङ्कटं मे निवारय ॥ ॐ विघ्नविनाशिने नमः पुष्पैः पूजयामि ।
७. षोडश नाम पूजा एवं २१ दूर्वायुग्म अर्पण
षोडश नाम पुष्प पूजा: ॐ सुमुखाय नमः, ॐ एकदन्ताय नमः, ॐ कपिलाय नमः, ॐ गजकर्णकाय नमः, ॐ लम्बोदराय नमः, ॐ विकटाय नमः, ॐ विघ्नराजाय नमः, ॐ विनायकाय नमः, ॐ धूमकेतवे नमः, ॐ गणाध्यक्षाय नमः, ॐ फालचन्द्राय नमः, ॐ गजाननाय नमः, ॐ वक्रतुण्डाय नमः, ॐ शूर्पकर्णाय नमः, ॐ हेरम्बाय नमः, ॐ स्कन्दपूर्वजाय नमः ।
एकविंशति (२१) दूर्वायुग्म पूजा: (प्रत्येक नाम पर २-२ दूर्वा दल अर्पित करें)
१. गणाधिपाय नमः
२. उमापुत्राय नमः
३. अघनाशनाय नमः
४. एकदन्ताय नमः
५. इभवक्त्राय नमः
६. मूषिकवाहनाय नमः
७. विनायकाय नमः
८. ईशपुत्राय नमः
९. सर्वसिद्धिप्रदाय नमः
१०. लम्बोदराय नमः
११. वक्रतुण्डाय नमः
१२. मोदकप्रियाय नमः
१३. विघ्नविध्वंसकर्त्रे नमः
१४. विश्ववन्द्याय नमः
१५. अमरेशाय नमः
१६. गजकर्णकाय नमः
१७. नागयज्ञोपवीतिने नमः
१८. फालचन्द्राय नमः
१९. परशुधारिणे नमः
२०. विघ्नाधिपाय नमः
२१. विद्याप्रदाय नमः — दूर्वायुग्मं समर्पयामि ।
८. धूप, दीप, नैवेद्य, ताम्बूल, आरती एवं प्रदक्षिणा
लम्बोदर महाकाय धूम्रकेतो सुवासितम् । धूपं गृहाण देवेश सङ्कटं मे निवारय ॥ ॐ विकटाय नमः धूपं आघ्रापयामि ।
विघ्नान्धकार संहार कारक त्रिदशाधिप । दीपं गृहाण देवेश सङ्कटं मे निवारय ॥ ॐ वामनाय नमः दीपं दर्शयामि ।
मोदकापूपलड्डुक पायसं शर्करान्वितम् । पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम् ॥ ॐ सर्वदेवाय नमः अमृतोपहारं समर्पयामि ।
नारिकेल फलं द्राक्षा रसालं दाडिमं शुभम् । फलं गृहाण देवेश सङ्कटं मे निवारय ॥ ॐ सर्वार्तिनाशिने नमः फलं समर्पयामि ।
क्रमुकैलालवङ्गानि नागवल्लीदलानि च । ताम्बूलं गृह्यतां देव सङ्कटं मे निवारय ॥ ॐ विघ्नहर्त्रे नमः ताम्बूलं समर्पयामि ।
कर्पूरानलसम्युक्तं अशेषाघौघनाशनम् । नीराजनं गृहाणेश सङ्कटान्मां विमोचय ॥ ॐ श्रीविनायकाय नमः कर्पूरनीराजनं समर्पयामि ।
चम्पकाशोकवकुल पारिजात भवैः सुमैः । पुष्पाञ्जलिं गृहाणेमं सङ्कटान्मां विमोचय ॥ ॐ देवोत्तमाय नमः पुष्पाञ्जलिं समर्पयामि ।
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥ प्रदक्षिणां समर्पयामि ।
९. श्री सङ्कटनाशन गणेश स्तोत्रम्
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३ ॥
नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥ ६ ॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७ ॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८ ॥
१०. श्री गणेश जी की आरती
जय गणेश जय गणेश जय गणेश देवा । माता जाकी पार्वती पिता महादेवा ॥
एक दन्त दयावन्त चार भुजाधारी । माथे सिन्दूर सोहे मूसे की सवारी ॥
पान चढ़े फल चढ़े और चढ़े मेवा । लड्डुअन का भोग लगे सन्त करें सेवा ॥
अन्धे को आँख देत कोढ़िन को काया । बाँझन को पुत्र देत निर्धन को माया ॥
'सूर' श्याम शरण आए सफल कीजे सेवा । माता जाकी पार्वती पिता महादेवा ॥
११. चन्द्रोदय पूजन एवं विशेष अर्घ्य (सप्तवार)
रात्रि में चन्द्रोदय के समय जल, दूध, रोली, अक्षत लेकर सात-सात बार अर्घ्य दें:
१. चतुर्थी तिथि अर्घ्य: तिथीनामुत्तमे देवि गणेशप्रियवल्लभे । सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥ चतुर्थीतिथिदेवतायै नमः इदमर्घ्यम् ।
२. गणेश जी अर्घ्य: लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय । सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥ सङ्कटहर विघ्नेशाय नमः इदमर्घ्यम् ।
३. चन्द्रमा अर्घ्य: क्षीरोदार्णव सम्भूत अत्रिगोत्रसमुद्भव । गृहाणार्घ्यं मया दत्तं रोहिणीसहितः शशिन् ॥ चन्द्राय नमः इदमर्घ्यम् ।
१२. क्षमा-प्रार्थना, समर्पण एवं विसर्जन
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया पूजया भगवान् श्रीगणेशः सुप्रीतो वरदो भवतु । श्रीगणेशार्पणमस्तु ॥
विसर्जन (उद्वासन): गच्छ सत्त्वमुमापुत्र ममानुग्रहकारणात् । पूजितोऽसि मया भक्त्या गच्छ स्वस्थानकं प्रभो ॥
गणपतये नमः यथास्थानं उद्वासयामि । शोभनार्थे क्षेमाय पुनरागमनाय च ।
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
Comments (0)
No comments yet. Be the first to share your thoughts!