सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीगणेशस्तुतिमञ्जरी

stotra-f6be3743
रचयिता: पारंपरिक पाठ संख्या: 6
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px
श्रीगणेशस्तुतिमञ्जरी सद्गुरुगजास्यवाणीचरणयुगाम्भोरुहेषु मद्धृदयम् । सततं द्विरेफलीलां करुणामकरन्दलिप्सया तनुताम् ॥ १॥ कल्याणं नः क्रियासुः कटतटविगलद्दाननीरप्रवाहो- न्माद्यद्भृङ्गारवारावितनिखिलजगन्मण्डलस्येशसूनोः । प्रत्यूहध्वान्तराशिप्रमथनशुचिकालीनमध्याह्नभानोः वामाश्लिष्टप्रियस्य प्रणतदुरितहृद्दन्तिनः सत्कटाक्षाः ॥ २॥ सिन्दूरबन्धुरमुखं सिन्धुरमाद्यं नमामि शिरसाऽहम् । वृन्दारकमुनिवृन्दक सं सेव्यं विघ्नशैलदम्भोलिम् ॥ ३॥ आधोरणा अंङ्कुशमेत्य हस्ते गजं विशिक्षन्त इति प्रथाऽस्ति । पञ्चास्यसूनुर्गज एव हस्ते धृत्वाऽङ्कुशं भाति विचित्रमेतत् ॥ ४॥ लोके हस्ततले समेत्य हि सृणिं शिक्षन्त आधोरणाः स्तम्बक्रीडमिति प्रथाऽखिलजनैः संश्रूयते दृश्यते । धृत्वा स्वीयशयेऽङ्कुशं मदविहीनोऽयं निराधोरणः चित्रं पश्यत राजतीह विबुधाः पञ्चास्यसूनुर्गजः ॥ ५॥ खगपपूजितसच्चरणाम्बुजं खगपशात्रववेष्टिततुन्दकम् । कवनसिद्ध्यभिलाष्यहमाश्रये कवनदीक्षितमादिगजाननम् ॥ ६॥ गगनचारिभिरञ्चितपादुकं करधृताङ्कुशपाशसुमोदकम् । जितपतङ्गरुचिं शिवयोर्मुदं ददतमादिगजाननमाश्रये ॥ ७॥ नागाननस्य जठरे निबद्धोऽयं विराजते । विनिर्गतो यथा नागो नाभ्यधोभुवनाद्बहिः ॥ ८॥ प्रलम्बारिमुखस्तुत्यं जगदालम्बकारणम् । लम्बिमुक्तालताराजल्लम्बोदरमहं भजे ॥ ९॥ गजेन्द्रवदनं हरिप्रमुखदेवसम्पूजितं सहस्रकरतेजसं सकललोककामप्रदम् । दयारसमदोदकस्रवदुभौ कटौ बिभ्रतं नमामि शिरसा सदा सृणिविभूषितं विघ्नपम् ॥ १०॥ गण्डस्रवत्स्वच्छमदप्रवाहगङ्गाकटाक्षार्कसुतायुतश्च । जिह्वाञ्चले गुप्तवहत्सरस्वतीयुतोऽयमाभाति गजप्रयागः ॥ ११॥ दन्ती नटः स्वपुरतोऽङ्गणरिङ्खमाण- पाञ्चालिकेक्षणवतामिति सूचयन् सन् । मत्पादतामरसबम्भरमानसानां जिह्वाङ्गणेऽजगृहिणीं खलु नाटयामि ॥ १२॥ पिनाकिपार्वतीमुखारविन्दभास्करायितं वराभयाङ्कुशादिमान् प्रफुल्लकञ्जसन्निभैः । करैर्दधानमानमत्सुतीक्ष्णबुद्धिदायकं समस्तविघ्ननाशकं नमाम्यहं विनायकम् ॥ १३॥ अन्तरायगिरिकृन्तनवज्रं दन्तकान्तिसुविभासितलोकम् । चिन्तनीयमनिशं मुनिवृन्दैः चिन्तयामि सततं गणनाथम् ॥ १४॥ मुक्तिवधूवरणोत्सुकलोको रक्तिमशाश्वत आशु विहाय । भक्तियुक्तोऽमरपूजितमूर्ते शक्तिगणेश मुदाऽर्चति हि त्वाम् ॥ १५॥ यत्पादपङ्कजमतीव सुपुण्यपाकाः सम्पूजयन्ति भवसागरतारणार्थम् । तं पार्वतीशिवमुखाब्जसहस्रभानुं वन्दे समस्तविषयाञ्चितमावहन्तम् ॥ १६॥ गण्डप्रदेशविगलन्मदनीरपानमत्तद्विरेफमधुरस्वर दत्तकर्णम् । विघ्नाद्रिभेदशतकोटिमुमादिगुर्वोः वक्त्राब्जभास्करगणेशमहं नमामि ॥ १७॥ गणेशोऽयं सूचयति मद्द्रष्टॄणां ददे श्रियम् । अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ॥ १८॥ पुरेन्दुकोपयुक्तदन्तिसान्त्वनेततारकाः उत स्मितांशुसञ्चयो दिने दिने विजृम्भितः । उतोत्तमाङ्गनिस्सृता नु कुम्भसम्भवा इति गणेशकण्ठतारका भवन्ति संशयास्पदम् ॥ १९॥ मदङ्घ्र्यर्चकानां भवेज्जानुदघ्नो भवाम्भोधिरित्येतमर्थं विवक्षुः । करौ जानुयुग्मे निधायाविरास्ते पुरः श्रीगणेश कृपावारिराशिः ॥ २०॥ लोके धनाढ्यो धनिनः करोति स्वपादमूलेतजनान् दरिद्रान् । त्वं पाशयुक्तोऽपि पदाब्जनम्रान् पाशैर्विमुक्तान् किमु युक्तमेतत् ॥ २१॥ हे हेरम्ब मदीयचित्तहरिणं ह्यत्यन्तलोलं मुधा धावन्तं विषयाख्यदुःखफलदारण्येऽनुधावन्नहम् । श्रान्तो नास्ति बलं ममास्य हनने ग्राहेऽपि वा तद्भवान् कृत्वाऽस्मिन् परिपातु मां करुणया शार्दूलर्विक्रीडितम् ॥ २२॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीगणेशस्तुतिमञ्जरी
पाठ जप: 0/108