सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीब्रह्माकृतं श्रीगणेशस्तोत्रम्

stotra-1aa8c2e1
रचयिता: पारंपरिक पाठ संख्या: 1
23px

 श्रीगणेशस्तोत्रम्

श्री गणेशाय नमः । ब्रह्मोवाच शम्भो तवायं तनयस्त्वमेवायं न संशयः । सर्वदेवाग्रपूज्योऽयं शेषे त्वञ्च महेश्वरः ॥ १॥ आदावन्ते भवानेव पूज्यो देवो महेश्वरः । सर्वदेवगणस्यायमधिपोऽभून्महाभुजः ॥ २॥ भवतोऽपि गणा ये तु तेषामप्यधिपोऽभवत् । तस्माद्गणाधिपोऽस्त्वेष गजास्यत्वाद्गजाननः ॥ ३॥ इन्द्रं जित्वा गजं हत्वा भग्नदन्तं शिरो यतः । नन्दी चाद्भूतकर्मासौ ददौ तेनैकदन्तकः ॥ ४॥ हेरम्ब इति नामास्य बीजरूपं सदास्तु ह । लम्बोदरस्तुन्दिलत्वान्नाम्ना पुत्रोऽस्तु ते शिव ॥ ५॥ अस्य स्मरणमात्रेण सर्वे विघ्ना भयं ययुः । विघ्नेशोऽयमतो नाम्ना तव पुत्रोऽस्तु शङ्कर ॥ ६॥ यात्रायां सत्क्रियारम्भे यः स्मरेच्च गणाधिपम् । तस्य यात्राफलं सिद्ध्येदारब्धस्यान्तदर्शनम् ॥ ७॥ सर्वमङ्गलकार्येषु पूजनीयो गणाधिपः । गणेशे पूजिते देवाः पूजिताः कार्यसाधकाः ॥ ८॥ इति श्रीब्रह्माकृतं श्रीगणेशस्तोत्रम् 
पाठ जप: 0/108