सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीगणेशस्तोत्रम्

stotra-6eda78b8
रचयिता: पारंपरिक पाठ संख्या: 8
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

महागणपतिस्तोत्रम्

ॐ कारमाद्यं प्रवदन्ति सन्तो वाचः श्रुतिनामपि ये गृणन्ति । गजाननं देवगणानतांघ्रिं भजेऽहमर्द्धेन्दुकृतावतंसम् ॥ १॥ पादारविन्दार्चनतत्पराणां संसारदावानलभङ्गदक्षम् । निरन्तरं निर्गतदानतोयैस्तं नौमि विघ्नेश्वरमम्बुजाभम् ॥ २॥ कृताङ्गरागं नवकुंकुमेन, मत्तालिमालां मदपङ्कलग्नाम् । निवारयन्तं निजकर्णतालैः, को विस्मरेत् पुत्रमनङ्गशत्रोः ॥ ३॥ शम्भोर्जटाजूटनिवासिगङ्गाजलं समानीय कराम्बुजेन । लीलाभिराराच्छिवमर्चयन्तं, गजाननं भक्तियुता भजन्ति ॥ ४॥ कुमारभुक्तौ पुनरात्महेतोः, पयोधरौ पर्वतराजपुत्र्याः । प्रक्षालयन्तं करशीकरेण, मौग्ध्येन तं नागमुखं भजामि ॥ ५॥ त्वया समुद्धृत्य गजास्यहस्तं, शीकराः पुष्कररन्ध्रमुक्ताः । व्योमाङ्गने ते विचरन्ति ताराः, कालात्मना मौक्तिकतुल्यभासः ॥ ६॥ क्रीडारते वारिनिधौ गजास्ये, वेलामतिक्रामति वारिपूरे । कल्पावसानं परिचिन्त्य देवाः, कैलासनाथं श्रुतिभिः स्तुवन्ति ॥ ७॥ नागानने नागकृतोत्तरीये, क्रीडारते देवकुमारसङ्घैः । त्वयि क्षणं कालगतिं विहाय, तौ प्रापतुः कन्दुकतामिनेन्दु ॥ ८॥ मदोल्लसत्पञ्चमुखैरजस्रमध्यापयन्तं सकलागमार्थान् । देवान् ऋषीन् भक्तजनैकमित्रं, हेरम्बमर्कारुणमाश्रयामि ॥ ९॥ पादाम्बुजाभ्यामतिकोमलाभ्यां, कृतार्थयन्तं कृपया धरित्रीम् । अकारणं कारणमाप्तवाचां, तन्नागवक्त्रं न जहाति चेतः ॥ १०॥ येनार्पितं सत्यवतीसुताय, पुराणमालिख्य विषाणकोट्या । तं चन्द्रमौलेस्तनयं तपोभिराराध्यमानन्दघनं भजामि ॥ ११॥ पदं श्रुतीनामपदं स्तुतीनां, लीलावतारं परमात्ममूर्तेः । नागात्मको वा पुरुषात्मको वेत्यभेद्यमाद्यं भज विघ्नराजम् ॥ १२॥ पाशांकुशौ भग्नरदं त्वभीष्टं, करैर्दधानं कररन्ध्रमुक्तैः । मुक्ताफलाभैः पृथुशीकरौघैः, सिञ्चन्तमङ्गं शिवयोर्भजामि ॥ १३॥ अनेकमेकं गजमेकदन्तं, चैतन्यरूपं जगदादिबीजम् । ब्रह्मेति यं ब्रह्मविदो वदन्ति, तं शम्भुसूनुं सततं भजामि ॥ १४॥ अङ्के स्थिताया निजवल्लभाया, मुखाम्बुजालोकनलोलनेत्रम् । स्मेराननाब्जं मदवैभवेन, रुद्धं भजे विश्वविमोहनं तम् ॥ १५॥ ये पूर्वमाराध्य गजानन! त्वां, सर्वाणि शास्त्राणि पठन्ति तेषाम् । त्वत्तो न चान्यत् प्रतिपाद्यमस्ति, तदस्ति चेत् सत्यमसत्यकल्पम् ॥ १६॥ हिरण्यवर्णं जगदीशितारं, कविं पुराणं रविमण्डलस्थम् । गजाननं यं प्रवदन्ति सन्तस्तत् कालयोगैस्तमहं प्रपद्ये ॥ १७॥ वेदान्त गीतं पुरुषं भजेऽहमात्मानमानन्दघनं हृदिस्थम् । गजाननं यन्महसा जनानां, विघ्नान्धकारो विलयं प्रयाति ॥ १८॥ शम्भोः समालोक्य जटाकलापे, शशाङ्कखण्डं निजपुष्करेण । स्वभग्नदन्तं प्रविचिन्त्य मौग्ध्यादाकर्ष्टुकामः श्रियमातनोतु ॥ १९॥ विघ्नार्गलानां विनिपातनार्थं, यं नारिकेलैः कदलीफलाद्यैः । प्रभावयन्तो मदवारणास्यं, प्रभुं सदाऽभीष्टमहं भजे तम् ॥ २०॥ ॥ फलश्रुति ॥ यज्ञैरनेकैर्बहुभिस्तपोभिराराध्यमाद्यं गजराजवक्त्रम् । स्तुत्याऽनया ये विधिना स्तुवन्ति, ते सर्वलक्ष्मीनिधयो भवन्ति ॥ १॥ ॥ इति श्रीगणेशस्तोत्रम् ॥
पाठ जप: 0/108