સનાતન સ્તોત્ર સંગ્રહ
Ashtakam
સનાતન દેવ

.. શ્રીપદ્મપુરાણે દિવ્યજ્ઞાનપ્રદાયકં સરસ્વત્યષ્ટકમ્ ..

॥ श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 1
23px

दिव्यज्ञानप्रदायकं सरस्वत्यष्टकम् श्रीगणेशाय नमः

॥ सरस्वत्यष्टकम् ॥

शतानीक उवाच ।

महामते महाप्राज्ञ सर्वशास्त्रविशारद । अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १॥

मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् । परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २॥

शौनक उवाच । इदमेव महाराज पृष्टवांस्ते पितामहः । भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः ॥ ३॥

युधिष्ठिर उवाच । पितामह महाप्राज्ञ सर्वशास्त्रविशारद । बृहस्पतिस्तुता देवी वागीशाय महात्मने । आत्मानं दर्शयामास सूर्य कोटिसमप्रभम् ॥ ४॥

सरस्वत्युवाच । वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।

बृहस्पतिरुवाच । यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे ॥ ५॥

देव्युवाच । हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः ॥ ६॥

बृहस्पतिरुवाच ।

लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम् । प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ७॥

सरस्वत्युवाच । त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम् । तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८॥

॥ इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकस्तोत्रं सम्पूर्णम् ॥

પાઠ જપ: 0/108