સનાતન સ્તોત્ર સંગ્રહ
Radha Stotram
સનાતન દેવ

.. શ્રીશ્રીરાધિકાસહસ્ત્રનામસ્તોત્રમ્ ..

॥ श्रीश्रीराधिकासहस्त्रनामस्तोत्रम् ॥
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px
श्रीश्रीराधिकासहस्त्रनामस्तोत्रम् ध्यानम् हेमाभां द्विभुजां वराभयकरां नीलाम्बरेणावृतां श्यामक्रोडविलासिनीं भगवतीं सिन्दुरपुञ्जोज्ज्वलाम् । लोलाक्षीं नवयौवनां स्मितमुखीं विम्बाधरां राधिकां नित्यानन्दमयीं विलासनिलयां दिव्याङ्गभूषां भजे ॥ श्रीपार्वत्युवाच देवदेव जगन्नाथ भक्तानुग्रहकारक । यद्यस्ति मयि कारुण्यं यद्यस्ति मयि ते दया ॥ १ ॥ यद्यत् त्वया निगदितं तत्सर्वं मे श्रुतं प्रभो । गुह्याद् गुह्यतरं यत्तु यत्ते मनसि काशते ॥ २ ॥ त्वया न गदितं यत्तु यस्मै कस्मै कदाचन । तस्मात् कथय देवेश सहस्त्रं नाम चोत्तमम् ॥ ३ ॥ श्रीराधाया महादेव्या गोप्या भक्तिप्रसाधनम् । ब्रह्माण्डकर्त्री हर्त्री सा कथं गोपीत्वमागता ॥ ४ ॥ श्रीमहादेव उवाच श्रृणु देवि विचित्रार्थां कथां पापहरां शुभाम् । नास्ति जन्मानि कर्माणि तस्या नूनं महेश्वरि ॥ ५ ॥ यदा हरिश्चरित्राणि कुरुते कार्यगौरवात् । तदा विधत्ते रूपाणि हरिसांनिध्यसाधिनी ॥ ६ ॥ तस्या गोपीत्वभावस्य कारणं गदितं पुरा । इदानीं श्रृणु देवेशि नाम्नां चैव सहस्त्रकम् ॥ ७ ॥ यन्मया कथितं नैव तन्त्रेष्वपि कदाचन । तव स्नेहात्‍ प्रवक्ष्यामि भक्त्या धार्यं मुमुक्षुभिः ॥ ८ ॥ मम प्राणसमा विद्या भाव्यते मे त्वहर्निशम् । श्रृणुष्व गिरिजे नित्यं पठस्व च यथामति ॥ ९ ॥ यस्याः प्रसादात् कृष्णस्तु गोलोकेशः परः प्रभुः । अस्या नामसहस्त्रस्य ऋषिर्नारद एव च । देवी राधा परा प्रोक्ता चतुर्वर्गप्रसाधिनी ॥ १० ॥ स्तोत्रम् श्रीराधा राधिका कृष्णवल्लभा कृष्णसंयुता । वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११ ॥ श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी । यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥ १२ ॥ दामोदरप्रिया गोपी गोपानन्दकरी तथा । कृष्णाङ्गवासिनी ह्रद्या हरिकान्ता हरिप्रिया ॥ १३ ॥ प्रधानगोपिका गोपकन्या त्रैलोक्यसुन्दरी । वृन्दावनविहारिणी विकसितमुखाम्बुजा ॥ १४ ॥ गोकुलानन्दकर्त्री च गोकुलानन्ददायिनी । गतिप्रदा गीतगम्या गमनागमनप्रिया ॥ १५ ॥ विष्णुप्रिया विष्णुकान्ता विष्णोरङ्कनिवासिनी । यशोदानन्दपत्नी च यशोदानन्दगेहिनी ॥ १६ ॥ कामारिकान्ता कामेशी कामलालसविग्रहा । जयप्रदा जया जीवा जीवानन्दप्रदायिनी ॥ १७ ॥ नन्दनन्दनपत्नी च वृषभानुसुता शिवा । गणाध्यक्षा गवाध्यक्षा गवां गतिरनुत्तमा ॥ १८ ॥ काञ्चनाभा हेमगात्रा काञ्चनाङ्गदधारिणी । अशोका शोकरहिता विशोका शोकनाशिनी ॥ १९ ॥ गायत्री वेदमाता च वेदातीता विदुत्तमा । नीतिशास्त्रप्रिया नीतिर्गतिर्मतिरभीष्टदा ॥ २० ॥ वेदप्रिया वेदगर्भा वेदमार्गप्रवर्धिनी । वेदगम्या वेदपरा विचित्रकनकोज्ज्वला ॥ २१ ॥ तथोज्ज्वलप्रदा नित्या तथैवोज्ज्वलगात्रिका । नन्दप्रिया नन्दसुताराध्याऽऽनन्दप्रदा शुभा ॥ २२ ॥ शुभाङ्गी विमलाङ्गी च विलासिन्यपराजिता । जननी जन्मशून्या च जन्ममृत्युजरापहा ॥ २३ ॥ गतिर्गतिमतां धात्री धात्र्यानन्दप्रदायिनी । जगन्नाथप्रिया शैलवासिनी हेमसुन्दरी ॥ २४ ॥ किशोरी कमला पद्मा पद्महस्ता पयोददा । पयस्विनी पयोदात्री पवित्रा सर्वमङ्गला ॥ २५ ॥ महाजीवप्रदा कृष्णकान्ता कमलसुन्दरी । विचित्रवासिनी चित्रवासिनी चित्ररूपिणी ॥ २६ ॥ निर्गुणा सुकुलीना च निष्कुलीना निराकुला । गोकुलान्तरगेहा च योगानन्दकरी तथा ॥ २७ ॥ वेणुवाद्या वेणुरतिर्वेणुवाद्यपरायणा । गोपालस्य प्रिया सौम्यरूपा सौम्यकुलोद्वहा ॥ २८ ॥ मोहामोहा विमोहा च गतिनिष्ठा गतिप्रदा । गीर्वाणवन्द्या गीर्वाणा गीर्वाणगणसेविता ॥ २९ ॥ ललिता च विशोका च विशाखा चित्रमालिनी । जितेन्द्रिया शुद्धसत्त्वा कुलीना कुलदीपिका ॥ ३० ॥ दीपप्रिया दीपदात्री विमला विमलोदका । कान्तारवासिनी कृष्णा कृष्णचन्द्रप्रिया मतिः ॥ ३१ ॥ अनुत्तरा दुःखहन्त्री दुःखकर्त्री कुलोद्वहा । मतिर्लक्ष्मीर्धृतिर्लज्जा कान्तिः पुष्टिः स्मृतिः क्षमा ॥ ३२ ॥ क्षीरोदशायिनी देवी देवारिकुलमर्दिनी । वैष्णवी च महालक्ष्मीः कुलपूज्या कुलप्रिया ॥ ३३ ॥ संहर्त्री सर्वदैत्यानां सावित्री वेदगामिनी । वेदातीता निरालम्बा निरालम्बगणप्रिया ॥ ३४ ॥ निरालम्बजनैः पूज्या निरालोका निराश्रया । एकाङ्गी सर्वगा सेव्या ब्रह्मपत्नी सरस्वती ॥ ३५ ॥ रासप्रिया रासगम्या रासाधिष्ठातृदेवता । रसिका रसिकानन्दा स्वयं रासेश्वरी परा ॥ ३६ ॥ रासमण्डलमध्यस्था रासमण्डलशोभिता । रासमण्डलसेव्या च रासक्रीडामनोहरा ॥ ३७ ॥ पुण्डरीकाक्षनिलया पुण्डरीकाक्षरोहिणी । पुण्डरीकाक्षसेव्या च पुण्डरीकाक्षवल्लभा ॥ ३८ ॥ सर्वजीवेश्वरी सर्वजीववन्द्या परात्परा । प्रकृतिः शम्भुकान्ता च सदाशिवमनोहरा ॥ ३९ ॥ क्षुत् पिपासा दया निद्रा भ्रान्तिः श्रान्तिः क्षमाकुला । वधूरूपा गोपपत्नी भारती सिद्धयोगिनी ॥ ४० ॥ सत्यरूपा नित्यरूपा नित्याङ्गी नित्यगेहिनी । स्थानदात्रि तथा धात्री महालक्ष्मीः स्वयंप्रभा ॥ ४१ ॥ सिन्धुकन्याऽऽस्थानदात्री द्वारकावासिनी तथा । बुद्धिः स्थितिः स्थानरूपा सर्वकारणकारणा ॥ ४२ ॥ भक्तप्रिया भक्तगम्या भक्तानन्दप्रदायिनी । भक्तकल्पद्रुमातीता तथातीतगुणा तथा ॥ ४३ ॥ मनोऽधिष्ठातृदेवी च कृष्णप्रेमपरायणा । निरामया सौम्यदात्री तथा मदनमोहिनी ॥ ४४ ॥ एकानंशाशिवा क्षेमा दुर्गा दुर्गतिनाशिनी । ईश्वरी सर्ववन्द्या च गोपनीया शुभङ्करी ॥ ४५ ॥ पालिनी सर्वभूतानां तथा कामाङ्गहारिणी । सद्योमुक्तिप्रदा देवी वेदसारा परात्परा ॥ ४६ ॥ हिमालयसुता सर्वा पार्वति गिरिजा सती । दक्षकन्या देवमाता मन्दलज्जा हरेस्तनूः ॥ ४७ ॥ वृन्दारण्यप्रिया वृन्दा वृन्दावनविलासिनी । विलासिनी वैष्णवी च ब्रह्मलोकप्रतिष्ठिता ॥ ४८ ॥ रुक्मिणी रेवती सत्यभामा जाम्बवती तथा । सुलक्ष्मणा मित्रविन्दा कालिन्दी जह्नुकन्यका ॥ ४९ ॥ परिपूर्णा पूर्णतरा तथा हैमवती गतिः । अपूर्वा ब्रह्मरूपा च ब्रह्माण्डपरिपालिनी ॥ ५० ॥ ब्रह्माण्डभाण्डमध्यस्था ब्रह्माण्डभाण्डरूपिणी । अण्डरूपाण्डमध्यस्था तथाण्डपरिपालिनी ॥ ५१ ॥ अण्डबाह्याण्डसंहर्त्री शिवब्रह्महरिप्रिया । महाविष्णुप्रिया कल्पवृक्षरूपा निरन्तरा ॥ ५२ ॥ सारभूता स्थिरा गौरी गौराङ्गी शशिशेखरा । श्वेतचम्पकवर्णाभा शशिकोटिसमप्रभा ॥ ५३ ॥ मालतीमाल्यभूषाढ्या मालतीमाल्यधारिणी । कृष्णस्तुता कृष्णकान्ता वृन्दावनविलासिनी ॥ ५४ ॥ तुलस्यधिष्ठातृदेवी संसारार्णवपारदा । सारदाऽहारदाम्भोदा यशोदा गोपनन्दिनी ॥ ५५ ॥ अतीतगमना गौरी परानुग्रहकारिणी । करुणार्णवसम्पूर्णा करुणार्णवधारिणी ॥ ५६ ॥ माधवी माधवमनोहारिणी श्यामवल्लभा । अन्धकारभयध्वस्ता मङ्गल्या मङ्गलप्रदा ॥ ५७ ॥ श्रीगर्भा श्रीप्रदा श्रीशा श्रीनिवासाच्युतप्रभा । श्रीरूपा श्रीहरा श्रीदा श्रीकामा श्रीस्वरूपिणी ॥ ५८ ॥ श्रीदामानन्ददात्री च श्रीदामेश्वरवल्लभा । श्रीनितम्बा श्रीगणेशा श्रीस्वरूपाश्रिता श्रुतिः ॥ ५९ ॥ श्रीक्रियारूपिणी श्रीला श्रीकृष्णभजनान्विता । श्रीराधा श्रीमती श्रेष्ठा श्रेष्ठरूपा श्रुतिप्रिया ॥ ६० ॥ योगेशी योगमाता च योगातीता युगप्रिया । योगप्रिया योगगम्या योगिनीगणवन्दिता ॥ ६१ ॥ जवाकुसुमसंकाशा दाडिमीकुसुमोपमा । नीलाम्बरधरा धीरा धैर्यरूपधराधृतिः ॥ ६२ ॥ रत्नसिंहासनस्था च रत्नकुण्डलभूषिता । रत्नालङ्कारसंयुक्ता रत्नमालाधरा परा ॥ ६३ ॥ रत्नेन्द्रसारहाराढ्या रत्नमालाविभूषिता । इन्द्रनीलमणिन्यस्तपादपद्मशुभा शुचिः ॥ ६४ ॥ कार्तिकी पौर्णमासी च अमावस्या भयापहा । गोविन्दराजगृहिणी गोविन्दगणपूजिता ॥ ६५ ॥ वैकुण्ठनाथगृहिणी वैकुण्ठपरमालया । वैकुण्ठदेवदेवाढ्या तथा वैकुण्ठसुन्दरी ॥ ६६ ॥ मदालसा वेदवती सीता साध्वी पतिव्रता । अन्नपूर्णा सदानन्दरूपा कैवल्यसुन्दरी ॥ ६७ ॥ कैवल्यदायिनी श्रेष्ठा गोपीनाथमनोहरा । गोपीनाथेश्वरी चण्डी नायिकानयनान्विता ॥ ६८ ॥ नायिका नायकप्रीता नायकानन्दरूपिणी । शेषा शेषवती शेषरूपिणी जगदम्बिका ॥ ६९ ॥ गोपालपालिका माया जायाऽऽनन्दप्रदा तथा । कुमारी यौवनानन्दा युवती गोपसुन्दरी ॥ ७० ॥ गोपमाता जानकी च जनकानन्दकारिणी । कैलासवासिनी रम्भा वैराग्यकुलदीपिका ॥ ७१ ॥ कमलाकान्तग्रहिणी कमला कमलालया । त्रैलोक्यमाता जगतामधिष्ठात्री प्रियाम्बिका ॥ ७२ ॥ हरकान्ता हररता हरानन्दप्रदायिनी । हरपत्नी हरप्रीता हरतोषणतत्परा॥ ७३ ॥ हरेश्वरी रामरता रामा रामेश्वरी रमा । श्यामला चित्रलेखा च तथा भुवनमोहिनी ॥ ७४ ॥ सुगोपी गोपवनिता गोपराज्यप्रदा शुभा । अङ्गारपूर्णा माहेयी मत्स्यराजसुतासती ॥ ७५ ॥ कौमारी नारसिंही च वाराही नवदुर्गिका । चञ्चलाचञ्चलामोदा नारीभुवनसुन्दरी ॥ ७६ ॥ दक्षयज्ञहरा दाक्षी दक्षकन्या सुलोचना । रतिरूपा रतिप्रीता रतिश्रेष्ठा रतिप्रदा ॥ ७७ ॥ रतिलक्षणगेहस्था विरजा भुवनेश्वरी । शङ्कास्पदा हरेर्जाया जामातृकुलवन्दिता ॥ ७८ ॥ वकुला वकुलामोदधारिणी यमुनाजया । विजया जयपत्नी च यमलार्जुनभञ्जिनी ॥ ७९ ॥ वक्रेश्वरी वक्ररूपा वक्रवीक्षणवीक्षिता । अपराजिता जगन्नाथा जगन्नाथेश्वरी यतिः ॥ ८० ॥ खेचरी खेचरसुता खेचरत्वप्रदायिनी । विष्णुवक्षःस्थलस्था च विष्णुभावनतत्परा ॥ ८१ ॥ चन्द्रकोटिसुगात्री च चन्द्राननमनोहरा । सेवा सेव्या शिवा क्षेमा तथा क्षेमकरी वधूः ॥ ८२ ॥ यादवेन्द्रवधूः शैब्या शिवभक्ता शिवान्विता । केवला निष्कला सूक्ष्मा महाभीमाभयप्रदा ॥ ८३ ॥ जीमूतरूपा जैमूती जितामित्रप्रमोदिनी । गोपालवनिता नन्दा कुलजेन्द्रनिवासिनी ॥ ८४ ॥ जयन्ती यमुनाङ्गी च यमुनातोषकारिणी । कलिकल्मषभङ्गा च कलिकल्मषनाशिनी ॥ ८५ ॥ कलिकल्मषरूपा च नित्यानन्दकरी कृपा । कृपावती कुलवती कैलासाचलवासिनी ॥ ८६ ॥ वामदेवी वामभागा गोविन्दप्रियकारिणी । नरेन्द्रकन्या योगेशी योगिनी योगरूपिणी ॥ ८७ ॥ योगसिद्धा सिद्धरूपा सिद्धक्षेत्रनिवासिनी । क्षेत्राधिष्ठातृरूपा च क्षेत्रातीता कुलप्रदा ॥ ८८ ॥ केशवानन्ददात्री च केशवानन्ददायिनी । केशवा केशवप्रीता केशवी केशवप्रिया ॥ ८९ ॥ रासक्रीडाकरी रासवासिनी राससुन्दरी । गोकुलान्वितदेहा च गोकुलत्वप्रदायिनी ॥ ९० ॥ लवङ्गनाम्नी नारङ्गी नारङ्गकुलमण्डना । एलालवङ्गकर्पूरमुखवासमुखान्विता ॥ ९१ ॥ मुख्या मुख्यप्रदा मुख्यरूपा मुख्यनिवासिनी । नारायणी कृपातीता करुणामयकारिणी ॥ ९२ ॥ कारुण्या करुणा कर्णा गोकर्णा नागकर्णिका । सर्पिणी कौलिनी क्षेत्रवासिनी जगदन्वया ॥ ९३ ॥ जटिला कुटिला नीला नीलाम्बरधरा शुभा । नीलाम्बरविधात्री च नीलकण्ठप्रिया तथा ॥ ९४ ॥ भगिनी भागिनी भोग्या कृष्णभोग्या भगेश्वरी । बलेश्वरी बलाराध्या कान्ता कान्तनितम्बिनी ॥ ९५ ॥ नितम्बिनी रूपवती युवती कृष्णपीवरी । विभावरी वेत्रवती संकटा कुटिलालका ॥ ९६ ॥ नारायणप्रिया शैला सृक्कणीपरिमोहिता । दृक्पातमोहिता प्रातराशिनी नवनीतिका ॥ ९७ ॥ नवीना नवनारी च नारङ्गफलशोभिता । हैमी हेममुखी चन्द्रमुखी शशिसुशोभना ॥ ९८ ॥ अर्द्धचन्द्रधरा चन्द्रवल्लभा रोहिणी तमिः । तिमिंगिलकुलमोदमत्स्यरूपाङ्गहारिणी ॥ ९९ ॥ कारिणी सर्वभूतानां कार्यातीता किशोरिणी । किशोरवल्लभा केशकारिका कामकारिका ॥ १०० ॥ कामेश्वरी कामकला कालिन्दीकूलदीपिका ॥ १०१ ॥ कलिन्दतनयातीरवासिनी तीरगेहिनी ॥ १०२ ॥ कादम्बरीपानपरा कुसुमामोदधारिणी । कुमुदा कुमुदानन्दा कृष्णेशी कामवल्लभा ॥ १०३ ॥ तर्काली वैजयन्ती च निम्बदाडिम्बरूपिणी । बिल्ववृक्षप्रिया कृष्णाम्बरा बिल्वोपमस्तनी ॥ १०४ ॥ बिल्वात्मिका बिल्ववसुर्बिल्ववृक्षनिवासिनी । तुलसीतोषिका तैतिलानन्दपरितोषिका ॥ १०५ ॥ गजमुक्ता महामुक्ता महामुक्तिफलप्रदा । अनङ्गमोहिनी शक्तिरूपा शक्तिस्वरूपिणी ॥ १०६ ॥ पञ्चशक्तिस्वरूपा च शैशवानन्दकारिणी । गजेन्द्रगामिनी श्यामलतानङ्गलता तथा ॥ १०७ ॥ योषिच्छक्तिस्वरूपा च योषिदानन्दकारिणी । प्रेमप्रिया प्रेमरूपा प्रेमानन्दतरङ्गिणी ॥ १०८ ॥ प्रेमहारा प्रेमदात्री प्रेमशक्तिमयी तथा । कृष्णप्रेमवती धन्या कृष्णप्रेमतरङ्गिणी ॥ १०९ ॥ प्रेमभक्तिप्रदा प्रेमा प्रेमानन्दतरङ्गिणी । प्रेमक्रीडापरीताङ्गी प्रेमभक्तितरङ्गिणी ॥ ११० ॥ प्रेमार्थदायिनी सर्वश्वेता नित्यतरङ्गिणी । हावभावान्विता रौद्रा रुद्रानन्दप्रकाशिनी ॥ १११ ॥ कपिला श्रृङ्खला केशपाशसम्बन्धिनी धटी । कुटीरवासिनी धूम्रा धूम्रकेशा जलोदरी ॥ ११२ ॥ ब्रह्माण्डगोचरा ब्रह्मस्वरूपिणी भवभाविनी । संसारनाशिनी शैवा शैवलानन्ददायिनी ॥ ११३ ॥ शिशिरा हेमरागाढ्या मेघरूपातिसुन्दरी । मनोरमा वेगवती वेगाढ्या वेदवादिनी ॥ ११४ ॥ दयान्विता दयाधारा दयारूपा सुसेविनी । किशोरसङ्गसंसर्गा गौरचन्द्रानना कला ॥ ११५ ॥ कलाधिनाथवदना कलानाथाधिरोहिणी । विरागकुशला हेमपिङ्गला हेममण्डना ॥ ११६ ॥ भाण्डीरतालवनगा कैवर्ती पीवरी शुकी । शुकदेवगुणातीत शुकदेवप्रिया सखी ॥ ११७ ॥ विकलोत्कर्षिणी कोषा कौशेयाम्बरधारिणी । कौषावरी कोषरूपा जगदुत्पत्तिकारिका ॥ ११८ ॥ सृष्टिस्थितिकरी संहारिणी संहारकारिणी । केशशैवलधात्री च चन्द्रगात्रा सुकोमला ॥ ११९ ॥ पद्माङ्गरागसंरागा विन्ध्याद्रिपरिवासिनी । विन्ध्यालया श्यामसखी सखीसंसाररागिणी ॥ १२० ॥ भूता भविष्या भव्या च भव्यगात्रा भवातिगा । भवनाशान्तकारिण्याकाशरूपा सुवेशिनी ॥ १२१ ॥ रतिरङ्गपरित्यागा रतिवेगा रतिप्रदा । तेजस्विनी तेजोरूपा कैवल्यपथदा शुभा ॥ १२२ ॥ भक्तिहेतुर्मुक्तिहेतुर्लङ्घिनी लङ्घनक्षमा । विशालनेत्रा वैशाली विशालकुलसम्भवा ॥ १२३ ॥ विशालगृहवासा च विशालबदरीरतिः । भक्त्यतीता भक्तिगतिर्भक्तिका शिवभक्तिदा ॥ १२४ ॥ शिवभक्तिस्वरूपा च शिवार्द्धाङ्गविहारिणी । शिरीषकुसुमामोदा शिरीषकुसुमोज्ज्वला ॥ १२५ ॥ शिरीषमृद्वी शैरीषी शिरीषकुसुमाकृतिः । वामाङ्गहारिणी विष्णोः शिवभक्तिसुखान्विता ॥ १२६ ॥ विजिता विजितामोदा गणगा गणतोषिता । हयस्या हेरम्बसुता गणमाता सुखेश्वरी ॥ १२७ ॥ दुःखहन्त्री दुःखहरा सेवितेप्सितसर्वदा । सर्वज्ञत्वविधात्री च कुलक्षेत्रनिवासिनी ॥ १२८ ॥ लवङ्गा पाण्डवसखी सखीमध्यनिवासिनी । ग्राम्यगीता गया गम्या गमनातीतनिर्भरा ॥ १२९ ॥ सर्वाङ्गसुन्दरी गङ्गा गङ्गाजलमयी तथा । गङ्गेरिता पूतगात्रा पवित्रकुलदीपिका ॥ १३० ॥ पवित्रगुणशीलाढ्या पवित्रानन्ददायिनी । पवित्रगुणसीमाढ्या पवित्रकुलदीपिनी ॥ १३१ ॥ कल्पमाना कंसहरा विन्ध्याचलनिवासिनी ॥ १३२ ॥ गोवर्धनेश्वरी गोवर्धनहास्या हयाकृतिः ॥ १३३ ॥ मीनावतारा मीनेशी गगनेशी हया गजी । हरिणी हारिणी हारधारिणी कनकाकृतिः ॥ १३४ ॥ विद्युत्प्रभा विप्रमाता गोपमाता गयेश्वरी । गवेश्वरी गवेशी च गवीशी गतिवासिनी ॥ १३५ ॥ गतिज्ञा गीतकुशला दनुजेन्द्रनिवारिणी । निर्वाणधात्री नैर्वाणी हेतुयुक्ता गयोत्तरा ॥ १३६ ॥ पर्वताधिनिवासा च निवासकुशला तथा । संन्यासधर्मकुशला संन्यासेशी शरन्मुखी ॥ १३७ ॥ शरच्चन्द्रमुखी श्यामहारा क्षेत्रनिवासिनी । वसन्तरागसंरागा वसन्तवसनाकृतिः ॥ १३८ ॥ चतुर्भुजा षड्‌भुजा च द्विभुजा गौरविग्रहा । सहस्त्रास्या विहास्या च मुद्रास्या मुददायिनी ॥ १३९ ॥ प्राणप्रिया प्राणरूपा प्राणरूपिण्यपावृता । कृष्णप्रीता कृष्णरता कृष्णतोषणतत्परा ॥ १४० ॥ कृष्णप्रेमरता कृष्णभक्ता भक्तफलप्रदा । कृष्णप्रेमा प्रेमभक्ता हरिभक्तिप्रदायिनी ॥ १४१ ॥ चैतन्यरूपा चैतन्यप्रिया चैतन्यरूपिणी । उग्ररूपा शिवक्रोदा कृष्णक्रोडा जलोदरी ॥ १४२ ॥ महोदरी महादुर्गकान्तारसुस्थवासिनी । चन्द्रावली चन्द्रकेशी चन्द्रप्रेमतरङ्गिणी ॥ १४३ ॥ समुद्रमथनोद्भुता समुद्रजलवासिनी । समुद्रामृतरूपा च समुद्रजलवासिका ॥ १४४ ॥ केशपाशरत निद्रा क्षुधा प्रेमतरङ्गिका । दूर्वादलश्यामतनुर्दूवादलतनुच्छविः ॥ १४५ ॥ नागरी नागरारागा नागरानन्दकारिणी । नागरलिङ्गनपरा नागराङ्गणमङ्गला ॥ १४६ ॥ उच्चनीचा हैमवतीप्रिया कृष्णतरङ्गदा । प्रेमालिङ्गनसिद्धाङ्गी सिद्धसाध्यविलासिका ॥ १४७ ॥ मङ्गलामोदजननी मेखलामोदधारिणी । रत्नमञ्जीरभूषाङ्गी रत्नभूषणभूषणा ॥ १४८ ॥ जम्बालमालिका कृष्णप्राणा प्राणविमोचना । सत्यप्रदा सत्यवती सेवकानन्ददायिका ॥ १४९ ॥ जगद्योनिर्जगद्बीजा विचित्रमणिभूषणा । राधारमणकान्ता च राध्या राधनरूपिणी ॥ १५० ॥ कैलासवासिनी कृष्णप्राणसर्वस्वदायिनी । कृष्णावतारनिरता कृष्णभक्तफलार्थिनी ॥ १५१ ॥ याचकायाचकानन्दकारिणी याचकोज्ज्वला । हरिभूषणभूषाढ्याऽऽनन्दयुक्ताऽऽर्द्रपादगा ॥ १५२ ॥ है-है-तालधरा थै-थै-शब्दशक्तिप्रकाशिनी । हे-हे-शब्दस्वरूपा च ही-ही-वाक्यविशारदा ॥ १५३ ॥ जगदानन्दकर्त्री च सान्द्रानन्दविशारदा । पण्डिता पण्डितगुणा पण्डितानन्दकारिणी ॥ १५४ ॥ परिपालनकर्त्री च तथा स्थितिविनोदिनी । तथा संहारशब्दाढ्या विद्वज्जनमनोहरा ॥ १५५ ॥ विदुषां प्रीतिजननी विद्वत्प्रेमविवर्धिनी । नादेशी नादरूपा च नादबिन्दुविधारिणी ॥ १५६ ॥ शून्यस्थानस्थिता शून्यरूपपादपवासिनी । कार्तिकव्रतकर्त्री च वसनाहारिणी तथा ॥ १५७ ॥ जलाशया जलतला शिलातलनिवासिनी । क्षुद्रकीटाङ्गसंसर्गा सङ्गदोषविनाशिनी ॥ १५८ ॥ कोटिकन्दर्पलावण्या कोटिकन्दर्पसुन्दरी । कन्दर्पकोटिजननी कामबीजप्रदायिनी ॥ १५९ ॥ कामशास्त्रविनोदा च कामशास्त्रप्रकाशिनी । कामप्रकाशिका कामिन्यणिमाद्यष्टसिद्धिदा ॥ १६० ॥ यामिनी यामिनीनाथवदना यामिनीश्वरी । यागयोगहरा भुक्तिमुक्तिदात्री हिरण्यदा ॥ १६१ ॥ कपालमालिनी देवी धामरूपिण्यपूर्वदा । कृपान्विता गुणागौण्या गुणातीतफलप्रदा ॥ १६२ ॥ कूष्माण्डभुतवेतालनाशिनी शरदान्विता । शीतला शबला हेला लीला लावण्यमङ्गला ॥ १६३ ॥ विद्यार्थिनी विद्यमाना विद्या विद्यास्वरूपिणी । आन्वीक्षिकीशास्त्ररूपा शास्त्रसिद्धान्तकारिणी ॥ १६४ ॥ नागेन्द्रा नागमाता च क्रीडकौतुकरूपिणी हरिभावनशीला च हरितोषणतत्परा ॥ १६५ ॥ हरिप्राणा हरप्राणा शिवप्राणा शिवान्विता । नरकार्णवसंहर्त्री नरकार्णवनाशिनी ॥ १६६ ॥ नरेश्वरी नरातीता नरसेव्या नराङ्गना । यशोदानन्दनप्राणवल्लभा हरिवल्लभा ॥ १६७ ॥ यशोदानन्दनारम्या यशोदानन्दनेश्वरी । यशोदानन्दनाक्रीडा यशोदाक्रोडवासिनी ॥ १६८ ॥ यशोदानन्दनप्राणा यशोदानन्दनार्थदा । वत्सला कोशला काला करुणार्णवरूपिणी ॥ १६९ ॥ स्वर्गलक्ष्मीर्भूमिलक्ष्मीर्द्रौपदी पाण्डवप्रिया । तथार्जुनसखी भौमी भैमी भीमकुलोद्भवा ॥ १७० ॥ भुवनमोहना क्षीणा पानासक्ततरा तथा । पानार्थिनी पानपात्रा पानपानन्ददायिनी ॥ १७१ ॥ दुग्धमन्थनकर्माढ्या दधिमन्थनतत्परा । दधिभाण्डार्थिनी कृष्णक्रोधिनी नन्दनाङ्गना ॥ १७२ ॥ घृतलिप्ता तक्रयुक्ता यमुनापारकौतुका । विचित्रकथका कृष्णहास्यभाषणतत्परा ॥ १७३ ॥ गोपाङ्गनावेष्टिता च कृष्णसङ्गार्थिनी तथा । राससक्ता रासरतिरासवासक्तवासना ॥ १७४ ॥ हरिद्रा हारिता हारिण्यानन्दार्पितचेतना । निश्चैतन्या च निश्चेता तथा दारुहरिद्रिका ॥ १७५ ॥ सुबलस्य स्वसा कृष्णभार्या भाषातिवेगिनी । श्रीदामस्य सखी दामदामिनी दामधारिणी ॥ १७६ ॥ कैलासिनी केशिनी च हरिदम्बरधारिणी । हरिसांनिध्यदात्री च हरिकौतुकमङ्गला ॥ १७७ ॥ हरिप्रदा हरिद्वारा यमुनाजलवासिनी । जैत्रप्रदा जितार्थी च चतुरा चातुरी तमी ॥ १७८ ॥ तमिस्त्राऽऽतपरूपा च रौद्ररूपा यशोऽर्थिनी । कृष्णार्थिनी कृष्णकला कृष्णनन्दविधायिनी ॥ १७९ ॥ कृष्णार्थवासना कृष्णरागिणी भवभाविनी । कृष्णार्थरहिता भक्ता भक्तभक्तिशुभप्रदा ॥ १८० ॥ श्रीकृष्णरहिता दीना तथा विरहिणी हरेः । मथुरा मथुराराजगेहभावनभावना ॥ १८१ ॥ श्रीकृष्णभावना मोदा तथोन्मादविधायिनी । कृष्णार्थव्याकुला कृष्णसारचर्मधरा शुभा ॥ १८२ ॥ अलकेश्वरपूज्या च कुबेरेश्वरवल्लभा । धनधान्यविधात्री च जाया काया हया हयी ॥ १८३ ॥ प्रणवा प्रणवेशी च प्रणवार्थस्वरूपिणी । ब्रह्मविष्णुशिवार्धाङ्गहारिणी शैवशिंशपा ॥ १८४ ॥ राक्षसीनाशिनी भूतप्रेतप्राणविनाशिनी । सकलेप्सितदात्री च शची साध्वी अरुन्धती ॥ १८५ ॥ पतिव्रता पतिप्राणा पतिवाक्यविनोदिनी । अशेषासाधिनी कल्पवासिनी कल्परूपिणी ॥ १८६ ॥ फलश्रुति: इत्येतत् कथितं देवि राधानामसहस्त्रकम् । यः पठेत् पाठयेद्वापि तस्य तुष्यति माधवः ॥ १८७ ॥ किं तस्य यमुनाभिर्वा नदीभिः सर्वतः प्रिये । कुरुक्षेत्रादितीर्थैश्च यस्य तुष्टो जनार्दनः ॥ १८८ ॥ स्तोत्रस्यास्य प्रसादेन किं न सिध्यति भूतले । ब्राह्मणो ब्रह्मवर्चाः स्यात् क्षत्रियो जगतीपतिः ॥ १८९ ॥ वैश्यो निधिपतिर्भूयाच्छूद्रो मुच्येत जन्मतः । ब्रह्महत्यासुरापानस्तेयादेरतिपातकात् ॥ १९० ॥ सद्यो मुच्येत देवेशि सत्यं सत्यं न संशयः । राधानामसहस्त्रस्य समानं नास्ति भूतले ॥ १९१ ॥ स्वर्गे वाप्यथ पाताले गिरौ वा जलतोऽपि वा । नातः परं शुभं स्तोत्रं तीर्थ नातः परं परम् ॥ १९२ ॥ एकादश्यां शुचिर्भूत्वा यः पठेत् सुसमाहितः । तस्य सर्वार्थसिद्धिः स्यात् श्रृणुयाद् वा सुशोभने । द्वादश्यां पौर्णमास्यां वा तुलसीसंनिधौ शिवे । यः पठेच्छृणुयाद्वापि तस्य तत्तत् फलं श्रृणु ॥ १९३ ॥ अश्वमेधं राजसूयं बार्हस्पत्यं तथाऽऽत्रिकम् । अतिरात्रं वाजपेयमग्निष्टोमं तथा शुभम् ॥ १९४ ॥ कृत्वा यत्फलमाप्नोति श्रुत्वा तत्फलमाप्नुयात् । कार्तिके चाष्टर्मी प्राप्य पठेद्वा श्रृणुयादपि ॥ १९५ ॥ सहस्त्रयुगकल्पान्तं वैकुण्ठवसतिं लभेत् । ततश्च ब्रह्मभवने शिवस्य भवने पुनः ॥ १९६ ॥ सुराधिनाथभवने पुनर्याति सलोकताम् । गङ्गातीरं समासाद्य यः पठेच्छृणुयादपि ॥ १९७ ॥ विष्णोः सारूप्यमायाति सत्यं सत्यं सुरेश्वरि । मम वक्त्रगिरेर्जाता पार्वतीवदनाश्रिता ॥ १९८ ॥ राधानामसहस्त्राख्या नदी त्रैलोक्यपावनी । पठ्यते हि मया नित्यं भक्त्या शक्त्या यथोचितम् ॥ १९९ ॥ मम प्राणसमं ह्यन्यत्‍ तव प्रीत्या प्रकाशितम् । नाभक्ताय प्रदातव्यं पाखण्डाय कदाचन ॥ २०० ॥ नास्तिकाय विरागाय रागयुक्ताय सुन्दरि । तथा देयं महास्तोत्रं हरिभक्ताय शंकरि ॥ २०१ ॥ वैष्णवेषु यथाशक्तिदात्रे पुण्यार्थशालिने ॥ २०२ ॥ राधानामसुधावारि मम वक्त्रसुधाम्बुधेः । उद्धृतासौ त्वया यत्नाद्‌ यतस्त्वं वैष्णवाग्रणीः ॥ २०३ ॥ विशुद्धसत्त्वाय यथार्थवादिने द्विजस्य सेवानिरताय मन्त्रिणे । दात्रे यथाशक्ति सुभक्तिमानसे राधापदध्यानपराय शोभने ॥ २०४ ॥ हरिपादाङ्कमधुपमनोभूताय मानसे । राधापादसुधास्वादशालिने वैष्णवाय च ॥ २०५ ॥ दद्यात्‍ स्तोत्रं महापुण्यं हरिभक्तिप्रसाधनम् । जन्मान्तरं न पश्यन्ति राधाकृष्णपदार्थिनः ॥ २०६ ॥ मम प्राणा वैष्णवा हि तेषां रक्षार्थमेव हि । शूलं मया धार्यते हि नान्यथा मेऽत्र कारणम् ॥ २०७ ॥ हरिभक्तिद्विषामर्थे शूलं संधार्यते मया । श्रृणु देवि यथार्थं मे गदितं मयि सुव्रते ॥ २०८ ॥ भक्तासि मे प्रियासि त्वमतः स्नेहात् प्रकाशितम् । कदापि नोच्यते देवि मया नामसहस्त्रकम् ॥ २०९ ॥ ॥ इति श्रीनारदपाञ्चरात्रे ज्ञानामृतसारे श्रीराधिकासहस्त्रनामस्तोत्रं सम्पूर्णम् ॥
પાઠ જપ: 0/108