सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

वक्रतुण्डगणेशकवचम्

stotra-c9f2fcea
रचयिता: पारंपरिक पाठ संख्या: 1
23px
वक्रतुण्डगणेशकवचम् श्री गणेशाय नमः । मौलिं महेशपुत्रोऽव्याद्भालं पातु विनायकः । त्रिनेत्रः पातु मे नेत्रे शूर्पकर्णोऽवतु श्रुती ॥ १॥ हेरम्बो रक्षतु घ्राणं मुखं पातु गजाननः । जिह्वां पातु गणेशो मे कण्ठं श्रीकण्ठवल्लभः ॥ २॥ स्कन्धौ महाबलः पातु विघ्नहा पातु मे भुजौ । करौ परशुभृत्पातु हृदयं स्कन्दपूर्वजः ॥ ३॥ मध्यं लम्बोदरः पातु नाभिं सिन्दूरभूषितः । जघनं पार्वतीपुत्रः सक्थिनी पातु पाशभृत् ॥ ४॥ जानुनी जगतां नाथो जङ्घे मूषकवाहनः । पादौ पद्मासनः पातु पादाधो दैत्यदर्पहा ॥ ५॥ एकदन्तोऽग्रतः पातु पृष्ठे पातु गणाधिपः । पार्श्वयोर्मोदकाहारो दिग्विदिक्षु च सिद्धिदः ॥ ६॥ व्रजतस्तिष्ठतो वापि जाग्रतः स्वपतोऽश्नतः । चतुर्थीवल्लभो देवः पातु मे भुक्तिमुक्तिदः ॥ ७॥ इदं पवित्रं स्तोत्रं च चतुर्थ्यां नियतः पठेत् । सिन्दूररक्तः कुसुमैर्दूर्वया पूज्य विघ्नपम् ॥ ८॥ राजा राजसुतो राजपत्नी मन्त्री कुलं चलम् । तस्यावश्यं भवेद्वश्यं विघ्नराजप्रसादतः ॥ ९॥ समन्त्रयन्त्रं यः स्तोत्रं करे संलिख्य धारयेत् । धनधान्यसमृद्धिः स्यात्तस्य नास्त्यत्र संशयः ॥ १०॥ अस्य मन्त्रः । ऐं क्लीं ह्रीं वक्रतुण्डाय हुं । रसलक्षं सदैकाग्र्यः षडङ्गन्यासपूर्वकम् । हुत्वा तदन्ते विधिवदष्टद्रव्यं पयो घृतम् ॥ ११॥ यं यं काममभिध्यायन् कुरुते कर्म किञ्चन । तं तं सर्वमवाप्नोति वक्रतुण्डप्रसादतः ॥ १२॥ भृगुप्रणीतं यः स्तोत्रं पठते भुवि मानवः । भवेदव्याहतैश्वर्यः स गणेशप्रसादतः ॥ १३॥ ॥ इति वक्रतुण्डगणेशकवचम् ॥
पाठ जप: 0/108