सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

देवर्षिभिर्प्रोक्ता वक्रतुण्डस्तुतिः

stotra-99307fb6
रचयिता: पारंपरिक पाठ संख्या: 2
23px

वक्रतुण्डस्तुतिः

श्रीगणेशाय नमः । देवर्षय ऊचुः सदा ब्रह्मभूतं विकारादिहीनं विकारादिभूतं महेशादिवन्द्यम् । अपारस्वरूपं स्वसंवेद्यमेकं नमामः सदा वक्रतुण्डं भजामः ॥ २॥ अजं निर्विकल्पं कलाकालहीनं हृदिस्थं सदा साक्षिरूपं परेशम् । जनज्ञानकारं प्रकाशैर्विहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ३॥ अनन्तस्वरूपं सदानन्दकन्दं प्रकाशस्वरूपं सदा सर्वगं तम् । अनादिं गुणादिं गुणाधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ४॥ धरावायुतेजोमयं तोयभावं सदाकाशरूपं महाभूतसंस्थम् । अहङ्कारधारं तमोमात्रसंस्थं नमामः सदा वक्रतुण्डं भजामः ॥ ५॥ रविप्राणविष्णुप्रचेतोयमेशविधात्रश्विवैश्वानरेन्द्रप्रकाशम् । दिशां बोधकं सर्वदेवाधिरूपं नमामः सदा वक्रतुण्डं भजामः ॥ ६॥ उपस्थत्वगुक्तीक्षणस्थप्रकाशं कराङ्घ्रिस्वरूपं कृतघ्राणजिह्वम् । गुदस्थं श्रुतिस्थं महाखप्रकाशं नमामः सदा वक्रतुण्डं भजामः ॥ ७॥ रजोरूपसृष्टिप्रकाशं विधिं तं सदा पालने केशवं सत्त्वसंस्थम् । तमोरूपधारं हरं संहरं तं नमामः सदा वक्रतुण्डं भजामः ॥ ८॥ दिशाधीशरूपं सदाशास्वरूपं ग्रहादिप्रकाशं ध्रुवादिं खगस्थम् । अनन्तोडुरूपं तदाकारहीनं नमामः सदा वक्रतुण्डं भजामः ॥ ९॥ महत्तत्त्वरूपं प्रधानस्वरूपं अहङ्कारधारं त्रयीबोधकारम् । अनाद्यन्तमायं तदाधारपुच्छं नमामः सदा वक्रतुण्डं भजामः ॥ १०॥ सदा कर्मधारं फलैः स्वर्गदं तं अकर्मप्रकाशेन मुक्तिप्रदं तम् । विकर्मादिना यातनाऽऽधारभूतं नमामः सदा वक्रतुण्डं भजामः ॥ ११॥ अलोभस्वरूपं सदा लोभधारं जनज्ञानकारं जनाधीशपालम् । नृणां सिद्धिदं मानवं मानवस्थं नमामः सदा वक्रतुण्डं भजामः । १२ लतावृक्षरूपं सदा पक्षिरूपं धनादिप्रकाशं सदा धान्यरूपम् । प्रसूपुत्रपौत्रादिनानास्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १३॥ खगेशस्वरूपं वृषादिप्रसंस्थं मृगेन्द्रादिबोधं मृगेन्द्रस्वरूपम् । धराधारहेमाद्रिमेरुस्वरूपं नमामः सदा वक्रतुण्डं भजामः ॥ १४॥ सुवर्णादिधातुस्थसद्रङ्गसंस्थं समुद्रादिमेघस्वरूपं जलस्थम् । जले जन्तुमत्स्यादिनानाविभेदं नमामः सदा वक्रतुण्डं भजामः ॥ १५॥ सदा शेषनागादिनागस्वरूपं सदा नागभूषं च लीलाकरं तैः । सुरारिस्वरूपं च दैत्यादिभूतं नमामः सदा वक्रतुण्डं भजामः ॥ १६॥ वरं पाशधारं सदा भक्तपोषं महापौरुषं मायिनं सिंहसंस्थम् । चतुर्बाहुधारं सदा विघ्ननाशं नमामः सदा वक्रतुण्डं भजामः ॥ १७॥ गणेशं गणेशादिवन्द्यं सुरेशं परं सर्वपूज्यं सुबोधादिगम्यम् । महावाक्यवेदान्तवेद्यं परेशं नमामः सदा वक्रतुण्डं भजामः ॥ १८॥ अनन्तावतारैः सदा पालयन्तं स्वधर्मादिसंस्थं जनं कारयन्तम् । सुरैर्दैत्यपैर्वन्द्यमेकं समं त्वां नमामः सदा वक्रतुण्डं भजामः ॥ १९॥ त्वया नाशितोऽयं महादैत्यभूपः सुशान्तेर्धरोऽयं कृतस्तेन विश्वम् । अखण्डप्रहर्षेण युक्तं च तं वै नमामः सदा वक्रतुण्डं भजामः ॥ २०॥ न विन्दन्ति यं वेदवेदज्ञमर्त्या न विन्दन्ति यं शास्त्रशास्त्रज्ञभूपाः । न विन्दन्ति यं योगयोगीशकाद्या नमामः सदा वक्रतुण्डं भजामः ॥ २१॥ न वेदा विदुर्यं च देवेन्द्रमुख्या न योगैर्मुनीन्द्रा वयं किं स्तुमश्च । तथाऽपि स्वबुध्या स्तुतं वक्रतुण्डं नमामः सदा वक्रतुण्डं भजामः ॥ २२॥ मुद्गल उवाच । एवं स्तुत्वा वक्रतुण्डं स्थिता देवर्षयः प्रभो । बद्धाञ्जलिपुटाः सर्वे तूष्णींभावेन मानद ॥ २३॥ देवानां च मुनीनां स स्तुतिं श्रुत्वा गजाननः । उवाच तान् प्रसन्नात्मा हर्षयन् वचनं महत् ॥ २४॥ वक्रतुण्ड उवाच । श‍ृणुध्वं मुनयः सर्वे देवा मे वचनं महत् । भवत्कृतमिदं स्तोत्रं मत्प्रीतेर्वर्धनं भवेत् ॥ २५॥ अनेन स्तौति यो नित्यं मां तस्य परिपूरये । भोगान्नानाविधांश्चैव पुत्रपौत्रादिसम्पदः ॥ २६॥ यं यमिच्छति तं तं च दास्येऽहं नात्र संशयः । भुक्तिमुक्तिप्रदं चैतद्ब्रह्मभूयकरं भवेत् ॥ २७॥ नानासिद्धिप्रदं चैव हृदि बुद्धिप्रकाशकम् । सुरेन्द्रैवद्यतां याति यो मां स्तौति त्वनेन सः ॥ २८॥ सहस्रावर्तनान् मर्त्यः कारागृहगतं नरम् । मोचयेन्नात्र सन्देहो मत्प्रियः सर्वदा भवेत् ॥ २९॥ अपराधशतयुक्तो यो वैभवति मानवः । तस्यापराधसहनं करोमि स्तोत्रपाठतः ॥ ३०॥ एकविंशतिवारं य एकविंशद्दिनानि वै । पठिष्यति सदा तस्मै चिन्तितं प्रददाम्यहम् ॥ ३१॥ एकविंशतिकाः श्लोका भवद्भिर्मत्प्रियात्मकैः । कृतास्तैर्मां स देवास्तु स्तुता वै मुनयोऽखिलाः ॥ ३२॥ तेन विघ्नविहीनाश्च स्वधर्मरुचयस्तथा । भविष्यथ महाभागा भुक्तिमुक्तिपदास्तथा ॥ ३३॥ वरं ब्रूत महाभागा येषां यन्मनसि स्थितम् । तद्दास्यामि न सन्देहः स्तोत्रसन्तोषितो ह्यहम् ॥ ३४॥ इति देवर्षिभिर्प्रोक्ता वक्रतुण्डस्तुतिः
पाठ जप: 0/108