सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

देवर्षिभिः प्रोक्ता लम्बोदरस्तुतिः

stotra-73309ab4
रचयिता: पारंपरिक पाठ संख्या: 5
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

लम्बोदरस्तुतिः

ब्रह्मोवाच - एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः । हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ १॥ पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः । ततस्तं तुष्टुवुः सर्वे भक्ति नम्रात्मकन्धराः ॥ २॥ देवर्षय ऊचुः श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् । नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ ३॥ बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् । वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥ जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् । देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ ५॥ सोऽहं सदा भेदविवर्जितं वै देहात्मयोगं सकलावभासम् । नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ ६॥ बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् । नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ ७॥ नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुःश्रुतितुण्डभूतम् । सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ ८॥ संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् । आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ ९॥ सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् । विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ १०॥ स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् । अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ ११॥ अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् । देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ १२॥ नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् । तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ १३॥ ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै । तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ १४॥ आकाशरूपं सकलावभासं नादप्रपूरं सकलाभिभूतम् । भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ १५॥ वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् । देहप्रचारं दशनामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ १६॥ तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् । सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः । १७ जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् । नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ १८॥ पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् । आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ १९॥ विराट्स्वरूपस्थमनन्तपारं सर्वत्र नेत्रं च सहस्रशीर्षम् । सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ २०॥ रजोयुतं सृष्टिकरं द्विजेशं आदिस्वरूपं प्रपितामहं यम् । समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ २१॥ सत्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् । सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ २२॥ इत्यादिभेदैः सुविराजमानं सर्वैर्विहीनं तु कथं वयं स्तुमः । देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ २३॥ ब्रह्मोवाच - स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् । लम्बोदरस्तान् उवाच महाभागान् सुसिद्धिदः ॥ २४॥ भवत्कृतमिदं स्तोत्रं भवेन्मत्प्रीतिवर्धनम् । पठतां श‍ृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ २५॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् । भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ २६॥ मारणोच्चातनादीनि स्तोत्रेणैव सुरर्षयः । भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ २७॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ २८॥ कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः । हृदीप्सितं लभेत् सर्वमेकविंशतिवारत ॥ २९॥ एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति । स सद्यो हि फलं भुक्तं एकविंशद्दिनावधि ॥ ३०॥ इति देवर्षिभिर्प्रोक्ता लम्बोदरस्तुतिः
पाठ जप: 0/108