सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

क्रोधासुरेण प्रोक्ता लम्बोदरस्तुतिः

stotra-5d57cd46
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px

लम्बोदरस्तुतिः क्रोधासुरेण प्रोक्ता

क्रोधासुर उवाच - लम्बोदर! नमस्तुभ्यं शान्तियोगस्वरूपिणे । सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १॥ असंप्रज्ञातरूपेयं शुण्डा ते नात्र संशयः । संप्रज्ञातमयो देहो देहधारिन्! नमो नमः ॥ २॥ स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः । तेन स्वानन्दवासी त्वं नमः संयोगधारिणे ॥ ३॥ समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो ! । ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ ४ ॥ त्वदीयकृपया देव मया ज्ञातं महोदर ! । त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ ५ ॥ हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे । आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ ६ ॥ सिद्धिबुद्धिनिहारज्ञ! सिद्धिबुद्धिपते नमः । सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ ७ ॥ सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः । सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ ८ ॥ अतः प्रसीद विघ्नेश! दासोऽहं ते गजानन! । लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ ९ ॥ स्वत उत्थानपरत! उत्थाने ब्रह्म धारयन् । तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ १० ॥ इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् । तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ ११ ॥ लम्बोदर उवाच । वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् । दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ १२ ॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् । यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ १३ ॥ श‍ृणुयात्तस्य तद्वच्च भविष्यति न संशयः । यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ १४ ॥ इति क्रोधासुरेण प्रोक्ता लम्बोदरस्तुतिः
पाठ जप: 0/108