సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

పాండవాఃకృతా కాత్యాయనీస్తుతిః

पाण्डवाःकृता कात्यायनीस्तुतिः
రచయిత: పారంపరిక వీక్షణలు: 1
23px
कात्यायनीस्तुतिः पाण्डवा ऊचुः । कात्यायनि त्रिदशवन्दितपादपद्मे विश्वोद्भवस्थितिलयैकनिदानरूपे । देवि प्रचण्डदलिनि त्रिपुरारिपत्नि दुर्गे प्रसीद जगतां परमार्तिहन्त्रि ॥ १॥ त्वं दुष्टदैत्यविनिपातकरी सदैव दुष्टप्रमोहनकरी किल दुःखहन्त्री । त्वां यो भजेदिह जगन्मयि तं कदापि नो बाधते भवसु दुःखमचिन्त्यरूपे ॥ २॥ त्वामेव विश्वजननीं प्रणिपत्य विश्वं ब्रह्मा सृजत्यवति विष्णुरहोत्ति शम्भुः । काले च तान्सृजसि पासि विहंसि मात स्त्वल्लीलयैव नहि तेऽस्ति जनैर्विनाशः ॥ ३॥ त्वं यैः स्मृता समरमूर्धनि दुःखहन्त्रि तेषां तनून्नहि विशन्ति विपक्षबाणाः । तेषां शरास्तु परगात्रनिमग्नपुङ्खाः प्राणान्ग्रसन्ति दनुजेन्द्रनिपातकत्रि ॥ ४॥ यस्त्वन्मनुं जपति घोररणे सुदुर्गे पश्यन्ति कालसदृशं किल तं विपक्षाः । त्वं यस्य वै जयकरी खलु तस्य वक्त्राद् ब्रह्माक्षरात्मकमनुस्तव निःसरेच्च ॥ ५॥ त्वामाश्रयन्ति परमेश्वरि ये भयेषु तेषां भयं नहि भवेदिह वा परत्र । तेभ्यो भयादिह सुदूरत एव दुष्टा- स्त्रस्ताः पलायनपराश्च दिशो द्रवन्ति ॥ ६॥ पूर्वे सुरासुररणे सुरनायकस्त्वां सम्प्रार्थयन्नसुरवृन्दमुपाजघान । रामोऽपि राक्षसकुलं निजघान तद्व- त्त्वत्सेवनादृत इहास्ति जयो न चैव ॥ ७॥ तत्त्वां भजामि जयदां जगदेकवन्द्यां विश्वाश्रयां हरिविरञ्चिसुसेव्यपादाम् । त्वं नो विधेहि विजयं त्वदनुग्रहेण शत्रून्निपात्य समरे विजयं लभामः ॥ ८॥ इति पाण्डवाःकृता कात्यायनीस्तुतिः
జప గణన: 0/108