సనాతన స్తోత్ర నిధి
Devi
సనాతన దేవ

శ్రీరామకృతా కాత్యాయనీస్తుతిః

श्रीरामकृता कात्यायनीस्तुतिः
రచయిత: పారంపరిక వీక్షణలు: 1
23px

कात्यायनीस्तुतिः

श्रीराम उवाच नमस्ते त्रिजगद्वन्द्ये सङ्ग्रामे जयदायिनि । प्रसीद विजयं देहि कात्यायनि नमोऽस्तु ते ॥ १॥ सर्वशक्तिमये दुष्टरिपुनिग्रहकारिणि । दुष्टजृम्भिणि सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ २॥ त्वमेका परमाशक्तिः सर्वभूतेष्ववस्थिता । दुष्टान्संहर सङ्ग्रामे जयं देहि नमोऽस्तु ते ॥ ३॥ रणप्रिये रक्तभक्षे मांसभक्षणकारिणि । प्रपन्नार्तिहरे युद्धे जयं देहि नमोऽस्तु ते ॥ ४॥ खट्वाङ्गासिकरे मुण्डमालाद्योतितविग्रहे । ये त्वां स्मरन्ति दुर्गेषु तेषां दुःखहरा भव ॥ ५॥ त्वत्पादपङ्कजाद्दैन्यं नमस्ते शरणप्रिये । विनाशाय रणे शत्रून् जयं देहि नमोऽस्तु ते ॥ ६॥ अचिन्त्यविक्रमेऽचिन्त्यरूपसौन्दर्यशालिनि । अचिन्त्यचरितेऽचिन्त्ये जयं देहि नमोऽस्तु ते ॥ ७॥ ये त्वां स्मरन्ति दुर्गेषु देवीं दुर्गविनाशिनीम् । नावसीदन्ति दुर्गेषु जयं देहि नमोऽस्तु ते ॥ ८॥ महिषासृक्प्रिये सङ्ख्ये महिषासुरमर्दिनि । शरण्ये गिरिकन्ये मे जयं देहि नमोऽस्तु ते ॥ ९॥ प्रसन्नवदने चण्डि चण्डासुरविमर्दिनि । सङ्ग्रामे विजयं देहि शत्रून् जहि नमोऽस्तु ते ॥ १०॥ रक्ताक्षि रक्तदशने रक्तचर्चितगात्रके । रक्तबीजनिहन्त्री त्वं जयं देहि नमोऽस्तु ते ॥ ११॥ निशुम्भशुम्भसंहन्त्रि विश्वकर्त्रि सुरेश्वरि । जहि शत्रून् रणे नित्यं जयं देहि नमोऽस्तु ते ॥ १२॥ भवान्येतत्सर्वमेव त्वं पालयसि सर्वदा । रक्ष विश्वमिदं मातर्हत्वैतान् दुष्टराक्षसान् ॥ १३॥ त्वं हि सर्वगता शक्तिर्दुष्टमर्दनकारिणि । प्रसीद जगतां मातर्जयं देहि नमोऽस्तु ते ॥ १४॥ दुर्वृत्तवृन्ददमिनि सद्वृत्तपरिपालिनि । निपातय रणे शत्रूञ्जयं देहि नमोऽस्तु ते ॥ १५॥ कात्यायनि जगन्मातः प्रपन्नार्तिहरे शिवे । सङ्ग्रामे विजयं देहि भयेभ्यः पाहि सर्वदा ॥ १६॥ इति श्रीमहाभागवतेमहापुराणे श्रीरामकृता कात्यायनीस्तुतिः
జప గణన: 0/108