సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

కాత్యాయనీస్తుతిః

कात्यायनीस्तुतिः
రచయిత: పారంపరిక వీక్షణలు: 2
లిపిని ఎంచుకోండి: देवनागरी (संस्कृत)
14px
नमस्कार ध्यान । चन्द्रहासोज्वलकरा शार्दूलवरवाहना । कात्यायनी शुभं दद्याद् देवि दानव घातिनी ॥ कात्यायनी गायत्री ॐ कात्यायनाय विद्महे कन्यकुमारी धीमहि तन्नो दुर्गेः प्रचोदयात् । कात्यायनी ध्यानम् । चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना । कात्यायनी शुभं दद्याद् देवी दानवघातिनी ॥ देवि प्रपन्नार्तिहरे प्रसीद, प्रसीद। मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥ ॥ कात्यायनीस्तुतिः ऋषिकृता ॥ महाकाल संहितायाम् जगदम्ब जयानन्ते सर्वेकसाक्षिणि । सङ्कटोद्धारिणि शिवे भक्तानामभयङ्करे ॥ समस्त जगताधारभूते ब्रह्मस्वरूपिणि । विधीश हरि शक्रादि देवा विदित वैभवे ॥ सृष्टि स्थिति प्रलयकृत् त्रिगुणात्मक विग्रहे । परापरेशि प्रणतमनुज-प्राणदायिनि ॥ मदुपास्यतया ख्यातनाम्नि त्रिभुवनेश्वरि । कात्यायनि जगद्वन्द्ये महाकालि नमोस्तुते ॥ मत्प्राणरक्षणकृते भीनाशय दिवौकसाम् । स्वरूपं दर्शयामुष्मै विल्ववृक्षाद् विनिःसृता ॥ दशभुजा कात्यायनी ध्यानम् । जटाजूटसमायुक्तामर्धेन्दुकृत लक्षणाम् । नेत्रत्रयसमायुक्तां पद्मेन्दुसदृशाननाम् ॥ अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् । नवयौवन सम्पन्नां सर्वाभरणभूषिताम् ॥ सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् । त्रिभङ्गस्थान संस्थानां महिषासुरमर्दिनीम् ॥ त्रिशूलं दक्षिणे दद्यात् खड्गं चक्रं क्रमादधः । तीक्ष्णं बाणं तथा शक्तिं वामतोऽपि निबोधत ॥ खेटकं पूर्णचापं च पाशमङ्कुश मूर्ध्वतः । घण्टां वा परशुं चापि वामतः सन्निवेशयेत् ॥ अधस्तान्महिषं तद्वधि शिरस्कं प्रदर्शयेत् । शिरश्चेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ॥ ॥ षोडशभुजा दुर्गा ध्यानम् ॥ क्षीरोदस्योत्तरे तीरे विभ्रती विपुलां तनुम् । अतसीपुष्पवर्णाभा ज्वलत्काञ्चनकुण्डलाम् ॥ जटाजूटमखण्डेन्दुमुकुटत्रय भूषिता । नागहारेण सहिता स्वर्णहार विभूषिता ॥ शूलं खड्गं च शङ्ख च चक्रं बाणं तथैव च । शक्तिं वज्रं च दण्डं च नित्यं दक्षिणबाहुभिः ॥ विभ्रती सततं देवी विकाशिनयनोज्ज्वला । खेटकं चर्म चापं च पाशञ्चाङ्कुशमेव च ॥ घण्टां परशुं मुशलं विभ्रतो वामपाणिभिः । सिंहस्था नयनै रक्तवर्णैस्त्रिभिरभिज्ज्वला ॥ शूलेन महिषं भित्त्वा तिष्ठती परमेश्वरी । वामपादेन चाक्रम्य तत्र देवी जगन्मयी ॥ अष्टादशभुजा दुर्गा ध्यानम् । ध्यानम् । अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुःकुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् ॥। १॥ शूलं पाश सुदर्शने च दधतीं हस्तैः प्रसन्नाननां सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥ २॥ अन्यच्च । ततो ध्यायेन्महालक्ष्मी महिषासुरमर्दिनीम् । समस्तदेवता तेजोजातां पद्मासन स्थिताम् ॥ अष्टादशभुजामक्षमालां पद्मं च शायकान् । खड्गं वज्रं गदां चक्रं दक्षहस्ते कमण्डलुम् ॥ खड्गं च दधतीं वामे शक्तिं च परशुं धनुः । चर्मदण्डौ सुरापात्रं घण्टां पाशं त्रिशूलकम् ॥ अष्टादशभुजा ध्यानम् । धम्मिल्लसंयतकचा विधोश्चाधोमुखीं कलाम् । केशान्ते तिलकस्योद्धे दधती सुमनोहरा ॥ मणिकुण्डल सन्धृष्टगण्डा मुकुटमण्डिता । सज्ज्योतिः कर्णपूराभ्यां कर्णावापूर्य सङ्गता ॥ ससुवर्णमणिमाणिक्य नागहार विराजिता । सदासुधिभिः पद्मैरम्लानैरति सुन्दरी ॥ मालां विभर्ति ग्रीवायां रत्नकेयूरधारिणी । मृणालायत वृत्तैस्तु बाहुभिः कोमलै शुभैः ॥ राजन्ती कञ्जुकोपेता पीनोन्नत पयोधरा । क्षीणमध्या पीतवस्त्रा त्रिवलोमध्यभूषिता ॥ अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम् । आदर्शं तर्जनीं चाप ध्वजं डमरुकं चर्मं च ॥ पाशं वामे विभ्रती च शक्ति मुद्गर शूलकम् । वज्र खड्गाङ्कुश शरांश्चक्रं देवी शलाकया ॥ सिंहोस्योपरि तिष्ठन्ती व्याघ्रचर्मणि कौशिकी । विभ्रती रूपममतुलं ससुरासुर मोहनम् ॥ अक्षमाला च कमलं वाणोऽसि कुलिशं गदा । चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ॥ शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः । अलङ्कृतभुजामेभिरायुधैः कमलासनम् ॥   इति कात्यायनीऋषिकृता कात्यायनीस्तुतिः
జప గణన: 0/108