सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

सर्वेष्टप्रदं गजाननस्तोत्रम्

stotra-98407710
रचयिता: पारंपरिक पाठ संख्या: 1
23px
गजाननस्तोत्रम् श्रीगणेशाय नमः । कपिल उवाच । नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥ देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् । तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥ साङ्ख्याय वै विदेहानां संयोगानां निजात्मने । चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४॥ नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५॥ आनन्दानां महाविष्णुरूपाय नेति धारिणाम् । शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ६॥ कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्। समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७॥ स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८॥ निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥ ९॥ शान्तियोगप्रदात्रे ते शान्तियोगमयाय च । किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १०॥ ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् । हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११॥ श्रीगणेश उवाच । त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् । धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२॥ वरं वरय मत्तस्त्वं दास्यामि भक्तियन्त्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ १३॥ तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४॥ त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह । ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५॥ यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय । एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६॥ गृत्समद उवाच । तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः । उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७॥ त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति । तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८॥ इति श्रीमुद्गलपुराणे गजाननस्तोत्रम् ।
पाठ जप: 0/108