सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

गजाननस्तोत्रं शंकरादिकृतम्

stotra-7a23d7f4
रचयिता: पारंपरिक पाठ संख्या: 1
23px
गजाननस्तोत्रम् श्री गणेशाय नमः । देवा ऊचुः । गजाननाय पूर्णाय सांख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ १॥ अमेयाय च हेरम्ब परशुधारकाय ते । मूषकवाहनायैव विश्वेशाय नमो नमः ॥ २॥ अनन्तविभवायैव परेशां पररूपिणे । शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥ ३॥ पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ ४॥ स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत । विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ ५॥ योगाकाराय सर्वेषां योगशान्तिप्रदाय च । ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥ ६॥ सिद्धि-बुद्धिपते नाथ! सिद्धि-बुद्धिप्रदायिने । मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ ७॥ लम्बोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥ ८॥ गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप!। योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ९॥ तेन त्वं गजवक्त्रश्च किं स्तुमस्तवां गजानन । वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपाः ॥ १०॥ शुक्रादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति नः । तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ११॥ एवमुक्त्वा प्रणेमुस्तं गजाननं शिवादयः । स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ १२॥ गजानन उवाच । भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । पठते श‍ृण्वते चैव ब्रह्मभूतप्रदायकम् ॥ १३॥ इति मौद्गलोक्तं गजाननस्तोत्रं समाप्तम् ॥
पाठ जप: 0/108