सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

गणनाथस्तुतिः वैराटदेवेन कृता

stotra-2d125726
रचयिता: पारंपरिक पाठ संख्या: 3
लिपि छनोट (Select Script): देवनागरी (संस्कृत)
14px
गणनाथस्तुतिः श्रीगणेशाय नमः । पार्वत्युवाच । श्रोतुमिच्छामि सर्वेश विराजश्च स्वरूपकम् । कीदृशोऽयं महाभाग तन्मे कथय शङ्कर ॥ १॥ शिव उवाच । पञ्चकोटिप्रविस्तारे योजनानां समन्ततः । तस्य देहे च भूतानि स्थावराणि चराणि च ॥ २॥ संस्थितानि च सर्वाणि भुवनानि चतुर्दश । तत्तेऽहं संप्रवक्ष्यामि समाहितमनाः श‍ृणु ॥॥ पादयोस्तस्य पातालं गुल्फे तस्य रसातलम् । पार्ष्ण्योर्महातलं तस्य जङ्घयोश्च तलातलम् ॥ ४॥ सुतलं जानुभागेऽस्य वितलं तूरुमण्डले । अतलं कटिसन्धौ च कटयां भूलोकसंस्थितिः ॥ ५॥ नाभौ तस्य भुवर्लोकः स्वर्लोकश्च हृदि स्थितः । महर्लोकश्च कण्ठे वै जनो लोको मुखे स्थितः ॥ ६॥ तपो लोको ललाटे च सत्यलोकः शिरःस्थितः । एतावद्देहरूपो वै विराट् स पुरुषो महान् ॥ ७॥ सहस्रशीर्षशोभाढ्यः सहस्राननपादवान् । सहस्रहस्तकर्णः स सहस्रोदरवान् प्रभुः ॥ ८॥ सर्वत्र व्याप्यभावेन स्थितोऽसौ परमेश्वरः । मर्त्येष्वमृतभोक्ता च स्वप्रकाशेन वर्तते ॥ ९॥ तस्यान्तरे स्थितं रूपं नाम्ना हैरण्यगर्भकम् । एतादृशं तथा स्वप्नं विश्वरूपं विराजति ॥ १०॥ बहिर्वैश्वानरश्चायं जाग्रद्वैराटसंज्ञितः । हिरण्यगर्भकोशस्थः स्वप्नवैराटधारकः ॥ ११॥ उभयोः समभावेन बाह्यान्तरसरूपतः । ईश्वरो नाम वैराटः सुषुप्तेर्धारको बभौ ॥ १२॥ त्रिविधं यद्विराड् रूपं कथितं ते तु पार्वति । तुरीयमात्मरूपं यत् त्रिविधेषु प्रवर्तते ॥ १३॥ अथ श‍ृणु विभिन्नानामुत्पत्तिं त्वल्पभावनाम् । नानाभावधरां तां वै चराचरमयीं पराम् ॥ १४॥ विराडज्ञानभावेनावृतस्तेन तपः कृतम् । एकाक्षरविधानेन गणेशं सन्दधौ हृदि ॥ १५॥ सोऽतपत्तप उग्रं च दिव्यवर्षसहस्रकम् । तपसा ध्यानभावेन प्रत्यक्षो गणपोऽभवत् ॥ १६॥ बोधयामास तं देवो वरं ब्रूहीति सोऽब्रवीत् । गणेशं सहसा दृष्ट्वा पादयोः प्रणनाम तम् ॥ १७॥ धन्यं जन्म तपो मेऽद्य धन्यं ज्ञानं वपुश्च दृक् । धन्या मे सम्पदो देव त्वदङ्घ्रियुगदर्शनात् ॥ १८॥ इत्युक्त्वा स्तोतुमारेभे गणेशं ब्रह्मनायकम् । वाचा संस्पष्टया हृष्टो भगवान् विश्वधारकः ॥ १९॥ विराडुवाच । नमस्ते गणनाथाय गणानां पतये नमः । विघ्नेशाय परेशाय विघ्नहर्त्रे नमो नमः ॥ २०॥ सिद्धिबुद्धिपते तुभ्यं नानासिद्धिप्रदायिने । नानाज्ञानप्रदात्रे च ब्रह्मणे ब्रह्मरूपिणे ॥ २१॥ मनोवागतिभूताय योगिनां हृदि वासिने । नानावतारकर्त्रे च भक्तसंरक्षकाय ते ॥ २२॥ नमो नमो महेशाय शिवाय शिवदायिने । सर्वत्र समभावाय विष्णव प्रभविष्णवे ॥ २३॥ तेजोराशिपते तुभ्यं भानवे ते नमो नमः । नानामायाप्रभेदात्मशक्तये शक्तिरूपिणे ॥ २४॥ स्रष्ट्रे पात्रे च संहर्त्रे चराचरमयाय च । सर्वेभ्यो ज्ञानदात्रे च निर्मलाय नमो नमः ॥ २५॥ सर्वेभ्यो भिन्नरूपाय मायाहीनाय ते नमः । मायिभ्यो मोहदात्रे च मायाधाराय ते नमः ॥ २६॥ गुणान्तं न ययुर्यस्य नानाब्रह्माणि ते नमः । अतो मयि गणेशान कृपयाऽनुग्रहं कुरु ॥ २७॥ इति स्तुत्वा गणेशानं मौनवानभवत्स्वयम् । वैराटः पुरुषस्तत्र कृताञ्जलिपुटःस्थितः ॥ २८॥ भगवांस्तं गणेशान ऊचिवान् भक्तिभावितः । वरं वरय दास्यामि शङ्कां मा कुरु विश्वप ॥ २९॥ इदं त्वया कृतं स्तोत्रं मम प्रीतिकरं भवेत । यः पठेद्भावपूर्वं तु सिद्धिस्तस्य भविष्यति ॥ ३०॥ यं यं चिन्तयते कामं तं तं दास्यामि वाञ्छितम् । भुक्तिमुक्तिप्रदं भावि पठनाच्छ्रवणादपि ॥ ३१॥ इति वैराटदेवेन कृता गणनाथस्तुतिः समाप्ता ।
पाठ जप: 0/108