சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

.. ஶ்ரீவிக்⁴னேஶ்வரகீ³தம் ..

॥ श्रीविघ्नेश्वरगीतम् ॥
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

श्रीविघ्नेश्वरगीतम्

विशदवाससं विस्तृतोरसं विमलतेजसं विद्धराक्षसम् । विगततामसं विष्टरौकसं विभुमुपास्महे विघ्ननायकम् ॥ १॥ विधिहरिस्तुतं विष्टरस्थितं विपुललोचनं वीर्यशालिनम् । विकटविक्रमं विद्ययावृतं विभुमुपास्महे विघ्ननायकम् ॥ २॥ विबुधसत्तमं विप्रपूजितं विधुकुलोज्ज्वलं विघ्ननाशनम् । विधृतभूषणं वीतरागिणं विभुमुपास्महे विघ्ननायकम् ॥ ३॥ विभवसंयुतं विभ्रमान्वितं विषधरेट्तनूवेष्टितोदरम् । विनुतपौरुषं (विस्तरा)विस्तृतालिकं विभुमुपास्महे विघ्ननायकम् ॥ ४॥ विमतमर्दनं विश्वनायकं वितरणोत्सुकं वारणाननम् । विचलितश्रुतिं वीतकल्मषं विभुमुपास्महे विघ्ननायकम् ॥ ५॥ ॥ इति श्रीविघ्नेश्वरगीतम् ॥
ஜப எண்ணிக்கை: 0/108