சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

விக்⁴னேஶஸ்தோத்ரம்

विघ्नेशस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 8
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

विघ्नेशस्तोत्रम्

विघ्नेशं प्रणतोऽस्म्यहं शिवसुतं सिद्धीश्वरं दन्तिनं गौरीनिर्मितभासमानवपुषं श्वेतार्कमूलस्थितम् । सर्वारम्भणपूजितं द्विपमुखं दूर्वासमिज्याप्रियं मूलाधारनिवासिनं च फणिना बद्धोदरं बुद्धिदम् ॥ १॥ श्वेताम्भोरुहवासिनीप्रियमनाः वेधाश्च वेदात्मकः श्रीकान्तस्स्थितिकारकः स्मरपिता क्षीराब्धिशय्याहितः । चन्द्रालङ्कृतमस्तको गिरिजया पृक्तात्मदेहश्शिवः ते लोकत्रयवन्दितास्त्रिपुरुषाः कुर्युर्महन्मङ्गलम् ॥ २॥ संसारार्णवतारणोद्यमरताः प्रापञ्चिकानन्दगाः ज्ञानाब्धिं विभुमाश्रयन्ति चरमे नित्यं सदानन्ददम् । आप्रत्यूषविहारिणो गगनगाः नैकाः मनोज्ञाः स्थलीः वीक्ष्यान्ते हि निशामुखे वसतरुं गच्छन्ति चन्द्रद्युतौ ॥ ३॥ इति विघ्नेशस्तोत्रं सम्पूर्णम् ।
ஜப எண்ணிக்கை: 0/108