சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீசித³ம்ப³ரஸூரிக்ருʼதம்ʼ ஶ்ரீவிக்⁴னேஶ்வரமானஸிகம்

श्रीचिदम्बरसूरिकृतं श्रीविघ्नेश्वरमानसिकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 2
23px

विघ्नेश्वरमानसिकम्

श्रीमहागणपतये नमः । विघ्नेश्वरस्य विषये हृदि मानसाख्यां पूजां विधातुमुचितं सरसं प्रबन्धम् । विद्वज्जने धुरि चिदम्बर एष नम्रः श्लोकैर्वसन्ततिलकैर्वितनोति शीघ्रम् ॥ १॥ कान्ताकृतिं गमितया कमनीयकान्त्या सत्या सदापि निजया नवरत्नपीठे । कान्तं वसन्तममरेन्द्रमुखाग्रवन्द्यं दन्तावलेनवदनं हृदि भावयामि ॥ २॥ आगच्छ दन्तिवदनाद्य जयासमेतः सत्याख्यया दयितया सह पूजनाय । अल्पां कृतामपि मया त्वयि देव पूजां स्वीकृत्य भक्तवशगेश मयि प्रसीद ॥ ३॥ रत्नैः कृतं नवभिरत्र तु चित्रचित्रं पारीन्द्रवेषममरेन्द्रकरोपनीतम् । आस्थाय चासनमिदं धृतवल्लभस्त्वं साम्राज्यमाकलय मे गजवक्त्र चित्ते ॥ ४॥ वेदान्तकाननचरं विविधाहवादि- वेशन्तकॢप्तविहृतिं विबुधेन्द्रभाव्यम् । विघ्नेश्वरं विधृतवल्लभमङ्कदेश आवाहयामि हृदये सदयान्तरङ्गम् ॥ ५॥ गङ्गायमस्वसृजलैर्हरिरत्नमुक्ता- पात्रेऽर्पितैः सुरभिभिः सुखशीतलैश्च । मृद्वङ्गुलीदलयुते पदपद्मयुग्मे पाद्यक्रमं कलय पद्ममुख प्रभो त्वम् ॥ ६॥ सह्याद्रिजाहृतमसह्यमहाघहारि दूर्वाग्रदर्भसुमगर्भमदक्षताढ्यम् । भर्माग्रपात्रपरिपूर्णमिदं महार्घ- मर्ध्यं गृहाण मदनर्धवपुर्गजास्य ॥ ७॥ मल्लीप्रसूननवचम्पककुड्मलौघ- सौरभ्यनिर्नरमुपासकचित्तशुभ्रम् । व्योमापगासलिलमद्य मया प्रदत्त- माचम्यतां गजमुख प्रणतार्तिहारिन् ॥ ८॥ मोचाफलेन नवशर्करया घृतेन गव्येन साधु मधुना त्वधुना प्रणीतम् । पञ्चामृतं गजमुखानतपञ्चतारे पञ्चाननात्मज विधेहि निमज्जनाय ॥ ९॥ सन्मानसादिशुचिभिर्धुरि मानसाख्यं सत्तीर्थ कोटिजठराहृततीर्थसार्थैः । संस्नापयामि तव मङ्गलदिव्यदेह- मुद्वर्तनेन सह वारणराजवक्त्र ॥ १०॥ चीनाम्बरेण कनकाञ्चलमञ्जुलेन दिव्यं त्वदङ्गमखिलं जलमज्जनार्द्रम् । द्राङ् मार्जयामि निखिलाघनिमार्जनाय किञ्चिद् गजास्य धुरि तिष्ठ मम प्रभो त्वम् ॥ ११॥ कार्पाससूत्रगुणितं विशदं प्रकॢप्तं यज्ञोपवीतयुगलं निगलं द्विजत्वे । हैमैरथासमगुणैः सह यज्ञसूत्रै- रामं च मुञ्जमयि कार्ष्ण्यहतं धृतं च (? ) ॥ १२॥ जाम्बूनदैर्विरचिते नवभाजनेऽग्रे दघ्ना सहैव मधुना मिलितं प्रक्लृप्तम् । तद्वच्छरावपिहितं मधुपर्कमेत हस्ते तवाद्य वितरामि च हस्तिवक्त्र ॥ १३॥ कस्तूरिकामृगमदैः परिमृद्य क्लृप्तं त्वत्कीर्तिसारमिव शोभनगन्धपूरम् । हस्तीन्द्रवक्त्र सुगुणोर्मिलमङ्गमङ्ग श्रीगन्वपङ्कमनुलिम्प निलिम्पनाय ॥ १४॥ शाल्यक्षतैरतितरामपरिक्षताग्रैः श्रीकुङ्कुमाङ्कपरिशोभिनिजाङ्गभागैः । गन्धोपरि स्फुटतरीकरणाय हस्ति- वक्त्रार्चयामि हरिचन्दनचर्चित त्वाम् ॥ १५॥ मन्दारकुन्दकरवीरकचम्पकाग्र्य- मल्लीमुखानि कुसुमानि तवार्पयामि । तान्यङ्गमङ्गमपरिक्षत भूषय त्वं सत्र्येकविंशतिदलैर्गजराजवक्त्र ॥ १६॥ छत्रध्वजाम्बुजघटाङ्कुशरेखिकाङ्कौ पाथोजमार्दवविमर्दननिर्दयाङ्गौ । हस्तीन्द्रवक्त्र तव भर्मविनिर्मिताभ्यां संयोजयामि चरणौ मणिपादुकाभ्याम् ॥ १७॥ कण्ठे करे शिरसि ते मणिनिष्कभूषां रत्नचितं च कटकं मकुटं मणीद्धम् । अङ्गेऽखिले कनकभूषणजालका नि भक्त्या सहैव घटये करटेन्द्रवक्त्र ॥ १८॥ नक्षत्रपङ्क्तिनिभमौक्तिकराजिराज- मानाञ्चलं चरसुधाकरमण्डलाभम् । श्वेतातपत्रमतिचित्रमिभेन्द्रवक्त्र मूर्धोपरि स्फुटतरं तव धारयामि ॥ १९॥ चामीकरस्फुरितरत्नविचित्रदण्डौ चारुप्रभालिरुचिरौ तव चामरौ द्वौ । स्नानक्षणावसरघर्मपयःकणार्द्रे सञ्चालयामि गजवक्त्र मुखे कराभ्याम् ॥ २०॥ नूत्नं च रत्नचरमाङ्गमुदारमग्रे रूपोद्वहं च मणिदर्पणमर्पयामि । भादर्पदर्पकवपुर्जयिनीं तवाद्य कल्याणमूर्तिमिभवक्त्र विलोकयात्र ॥ २१॥ अङ्गारसङ्गसुरभिं सुरभिप्रजात- हैयङ्गवीनघृतयुक्तदशाङ्गधूपम् । घ्राणेन्द्रियप्रियकरं परिजिघ्र शीघ्रं भक्त्यार्पितं गजमुख प्रियगन्ध देव ॥ २२॥ बाह्यान्धकारगुणबन्धनलोकबन्धु- माज्याढ्यपात्रकृतवर्तिसमुज्ज्वलं ते । त्रैलोक्यगाढतिमिरापहभासि वक्त्रे सन्दर्शयामि धुरि दीपमिभेन्द्रवक्त्र ॥ २३॥ मोचाद घित्थपनसाम्रफलादियुक्तं भक्षौघशष्कुलिसलड्डुकमोदकाढ्यं सौवर्णवर्णसमसूपघृतौघपूर्णम् । शाल्यन्नमेतदुपभुङ्क्ष्व गजास्य चारु ॥ २४॥ एलालवङ्गसुमचम्पककुड्मलाग्र- कर्पूरवासितमुदारमुशीरगन्धि । पानीयमभ्रसरितः कमनीयशुभ्र- मानीयतां गजमुखाननमेकदन्तम् ॥ २५॥ वार्ताककण्टकिरसारककारवल्लि- रम्भाशलाटुमुखचारुपदार्थजातम् । आज्याक्तसर्षपसजीरकहिङ्गुकैला- सम्भर्जितं गजमुखाद्धि पदे पदे च ॥ २६॥ हस्तीन्द्रवक्त्र सरसं तु मया प्रदत्तं रम्भाफलैर्मधुचरैः सितशर्कराभिः । एलामरीचिसमशर्करदुग्धसिद्धं गोधूमतण्डुलसुरान्नमुपाददस्व ॥ २७॥ माषैस्तिलैः सगुडशर्करनालिकेरै- र्जम्बीरसर्षपवराम्लफलैरुतान्यैः । तत्र प्रयोगकलितानि विचित्रितानि स्वन्नानि भुङ्क्ष्व गजवक्त्र रसेन साकम् ॥ २८॥ मल्लीसुमच्छविसुवर्णसवर्णशालि शाल्यन्नमेतदुपमर्द्य पयस्तथैव । एते करेण मिलिते विरचय्य शुद्धे भुङ्क्ष्वोपदंशितगुडं गजराजवक्त्र ॥ २९॥ मण्डोपयुक्तदधिखण्डकमेतदेत- च्छुद्धान्नमाशु मिलितं द्वयमद्य क्लृप्त्वा । खण्डाम्लसर्षपरसालवरोपदंशै- र्भुङ्क्ष्वेभवक्त्र सह निम्बकखण्डचूर्णैः ॥ ३०॥ जम्बीरताच्चुत सुबिल्वकरीरचूत- नारङ्गमुख्यमुपदंशकुलं सुजातम् । हिङ्ग्वग्रसर्षपरसालवरोटमुख्यैः (बहुसाधनाग्रैः) सम्मिश्रितं च परिशीलय भुक्तिकाले ॥ ३१॥ और्वारुकं धुरि रसायनमेतदेतद् गौडं तु पानकमिदं सरसेक्षुसारम् । कापित्थपानकमिदं करिवक्त्र किञ्चित् किञ्चित् पिबैषु विभवाय यथेष्टतोऽद्य ॥। ३२॥ सत्कृष्णनिम्बदलनागरहिङ्गुबाल- रम्भाग्रदण्डवरसैन्धवजम्भसारैः । आलोडितं परिमलैर्मिलितं गजास्य त्वं नीरतक्रमुपभुङ्क्ष्व च दाहशान्त्यै ॥ ३३॥ हेम्ना कृते मणिचिते रुचिरेऽत्र पात्रे हेमावतीजलमिदं गजवक्त्र शुभ्रम् । एला दिव सितगुणं हिमनीरशीत- मापोऽशन चरममाशु समाचर त्वम् ॥ ३४॥ शोणाम्बुजाधरतलं शुभमार्दवाढ्य- मुष्णाम्बुना सुरभिलेन तवाद्य पाणिम् । द्रव्येण घर्षणविधौ सितयोपमृद्य प्रक्षालयेभमुख कल्मषलेशहीन ॥ ३५॥ निर्दोषतामुपगतेन विभो सुवर्ण- स्थाल्यां स्थितेन हिमशीतगुणेन सद्यः । हस्तीन्द्रवक्त्र पयसा पुनरादरेण शुद्धं त्वमाचमनमाचर भोजनान्ते ॥ ३६॥ पूगा इमे कपिशिता परिपाकरीत्या श्वेता इमे कटुरसा मधुनागवल्यः । कर्पूरचूर्णमिदमेभिरिभास्य रागा- च्छोणीकुरु त्वदधरं सममास्यशुद्धया ॥ ३७॥ देदीप्यमानमहसि द्रुतहेमपात्रे मुक्तामणीविरचिताम्बुजरेखिकान्तः । कर्पूरखण्डपरिदीपितमेतदग्रे नीराजनं गजवरानन दर्शयामि ॥ ३८॥ गङ्गाकवेरतनयावरतुङ्गभद्रा- गोदावरीरविसुतासुसमाहृताभिः । अद्भिर्ददामि पुनरर्ध्यमिभेन्द्रवक्त्र (स) तत् त्वं गृहाण निगृहाण तमो मदीयम् ॥ ३९॥ मल्लीप्रसूननवचम्पककुन्दजाति- मन्दारमुख्यसुमनोभिरभिस्फुटाभिः । मन्त्रैः समं श्रुतिचतुष्टयसंस्तुतैस्ते पुष्पाञ्जलिं गजमुखानिशमर्पयामि ॥ ४०॥ वेदान्तमूर्धशतगूढ शतोङ्घ्रितस्त-(? ) नाथान्तभावित गणाधिप शक्तिनाथ । श्रीमन् त्वदीयपदभक्तमिमं सदा मा मामन्तकान्तकसुतामल मुञ्च मुञ्च ॥ ४१॥ भाग्याधिनोग्यकरमद्य पदे पदे च भक्त्या प्रदक्षिणमहं कलये गजास्य । रक्ष प्रतीक्षणमपास्य हृदाविलम्बं वीक्षस्व मां परिगृहीतदयावलम्बम् ॥ ४२॥ हस्तीन्द्रवक्त्र गणनाथ नमो नमस्ते स्वस्तीन्द्र मुख्यनुत देहि नमो नमस्ते । नस्तीव्रमग्रमुपयाहि नमो नमस्ते विस्तीर्णवैभवनिधेऽद्य नमो नमस्ते ॥ ४३॥ मञ्चे सुवर्णवितते मणिजालचित्रे डोलावृतेऽप्युपरिभागवितानचित्रे । मृद्वास्तरा मुपरिमञ्जुलहंसतूलि- मध्यास्य शेष्व गजवक्त्र मृदूपवानाम् ॥ ४४॥ आलिङ्गितो दयितया गणनाथ शक्त्या सर्वाङ्गशोभनगुणोज्ज्वलरूपलक्ष्म्या । आनङ्गसङ्गरमुखैर्विविधैर्विलासै- रानन्दभारमधिकं भज हस्तिवक्त्र ॥ ४५ बाह्यं विधातुमपटुस्तव पूजनं यत् पद्मेन्द्रवक्त्र तदहं हृदि मानसाख्यम् । त्वत्पूजनं रचितवांश्चतुरुत्तरैश्च पद्यैस्तथा दशचतुष्टयसंस्थितैश्च ॥ ४६॥ त्वां पूजयन् हृदि भजन् दृशि लक्षयंश्च श‍ृण्वञ्छ्रुतौ च गदितं तव रूपमेव । सम्भावयन् गजवरानन दर्शयामि त्वं देव देव मयि धेहि कृपाकटाक्षम् ॥ ४७॥ चस्वारिंशदुपर्यधिष्ठितचतुःश्लोकात्मसङ्ख्यान्वितान् प्रोक्तान् यानुपचारकांस्तव विभो हस्तीन्द्रवक्त्रानिशम् । प्रत्यूषे हृदि भावयन्ति पुरुषा ये तेषु कुर्याद् भवान् सम्पूर्णां पुरुषार्थसिद्धिमतुलां सन्तोषधाराधिकाम् ॥ ४८॥ विघ्नाधिनेतरि चिदम्बरसूरिक्लृप्ता सम्भावनादिपरमप्रमदावसानैः । पूजोपचारविधिभिर्भुवि मानसाख्या जीयाच्चिरं सुविदुषां हृदयङ्गमेयम् ॥ ४९॥ इति श्रीचिदम्बरसूरिकृतं श्रीविघ्नेश्वरमानसिकम् ।
ஜப எண்ணிக்கை: 0/108