सनातन देव
श्रीमहागणपतित्रयस्त्रिंशत्नामस्तोत्रम्
Shreemahaaganapatitrayastrim'shatnaamastotram
श्रीमहागणपतित्रयस्त्रिंशत्नामस्तोत्रम्
अथ स्तोत्रम् ।
पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।
मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥ १॥
अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन् दशायुधः ।
धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः ॥ २॥
विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ।
आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः ॥ ३॥
सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ।
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ ४॥
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ।
पराभिचारशमनो दुःखभञ्जनकारकः ।
सर्वदुःखहरो देवस्तं ध्यायामि गजाननम् ॥ ५॥
इति श्रीमहागणपतित्रयस्त्रिंशत्नामस्तोत्रम्