सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीमहागणपतिनवार्णवेदपादस्तवः

stotra-504e16f5
रचयिता: पारंपरिक पाठ संख्या: 1
23px

श्रीमहागणपति नवार्ण वेदपादस्तवः

श्रीगणेशनवरत्नमाला च श्रीकण्ठतनय श्रीश श्रीकर श्रीदलार्चित । श्रीविनायक सर्वेश श्रियं वासय मे कुले ॥ १॥ गजानन गणाधीश द्विजराज-विभूषित । भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणास्पते ॥ २॥ णषाष्ठ-वाच्य-नाशाय रोगाट-विकुठारिणे । घृणा-पालित-लोकाय वनानां पतये नमः ॥ ३॥ धियं प्रयच्छते तुभ्यमीप्सितार्थ-प्रदायिने । दीप्त-भूषण-भूषाय दिशां च पतये नमः ॥ ४॥ पञ्च-ब्रह्म-स्वरूपाय पञ्च-पातक-हारिणे । पञ्च-तत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥ ५॥ तटित्कोटि-प्रतीकाश-तनवे विश्व-साक्षिणे । तपस्वि-ध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः ॥ ६॥ ये भजन्त्यक्षरं त्वां ते प्राप्नुवन्त्यक्षरात्मताम्। नैकरूपाय महते मुष्णतां पतये नमः ॥ ७॥ नगजा-वर-पुत्राय सुर-राजार्चिताय च । सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥ ८॥ महा-पातक-सङ्घात-तम-हारण-भयापह । त्वदीय-कृपया देव सर्वानव यजामहे ॥ ९॥ नवार्ण-रत्न-निगम-पाद-संपुटितां स्तुतिम् । भक्त्या पठन्ति ये तेषां तुष्टो भव गणाधिप ॥ १०॥ ॥ इति श्रीमहागणपतिनवार्णवेदपादस्तवः ॥
पाठ जप: 0/108