सनातन स्तोत्र संग्रह
श्रीगणेश
सनातन देव

॥ श्रीमहागणपति सहस्रनामस्तोत्रम् ॥

stotra-ca1cfeb5
रचयिता: पारंपरिक पाठ संख्या: 1
23px
श्रीगणेशपुराणे उपासनाखण्डे महागणपतिप्रोक्तं श्रीमहागणपति सहस्रनामस्तोत्रम् ॥ व्यास उवाच । कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् । शिवाय तन्ममाचक्ष्व लोकानुग्रहतत्पर ॥ १ ॥ ब्रह्मोवाच । देवदेवः पुरारातिः पुरत्रयजयोद्यमे । अनर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २ ॥ मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् । महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३ ॥ विघ्नप्रशमनोपायमपृच्छदपराजितः । सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४ ॥ सर्वविघ्नैकहरणं सर्वकामफलप्रदम् । ततस्तस्मै स्वकं नाम्नां सहस्रमिदमब्रवीत् ॥ ५ ॥ अस्य श्रीमहागणपति सहस्रनाममालामन्त्रस्य महागणपति ऋषिः अनुष्टुप् छन्दः श्रीमहागणपतिर्देवता गं बीजं हुं शक्तिः स्वाहा कीलकं श्रीमहागणपति प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् । गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिनेत्रं बृहदुदरमशेषं भूतिराजं पुराणम् । अमरवरसुपूज्यं रक्तवर्णं सुरेशं पशुपतिसुतमीशं विघ्नराजं नमामि ॥ स्तोत्रम् । ओं गणेश्वरो गणक्रीडो गणनाथो गणाधिपः । एकदंष्ट्रो वक्रतुण्डो गजवक्त्रो महोदरः ॥ १ ॥ लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः । सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ २ ॥ भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः । हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ३ ॥ नन्दनोऽलम्पटोऽभीरुर्मेघनादो गणञ्जयः । विनायको विरूपाक्षो धीरशूरो वरप्रदः ॥ ४ ॥ महागणपतिर्बुद्धिप्रियः क्षिप्रप्रसादनः । रुद्रप्रियो गणाध्यक्ष उमापुत्रोऽघनाशनः ॥ ५ ॥ कुमारगुरुरीशानपुत्रो मूषकवाहनः । सिद्धिप्रियः सिद्धिपतिः सिद्धः सिद्धिविनायकः ॥ ६ ॥ अविघ्नस्तुम्बुरुः सिंहवाहनो मोहिनीप्रियः । कटङ्कटो राजपुत्रः शालकः सम्मितोऽमितः ॥ ७ ॥ कूष्माण्डसामसम्भूतिर्दुर्जयो धूर्जयो जयः । भूपतिर्भुवनपतिर्भूतानाम्पतिरव्ययः ॥ ८ ॥ [भुवनेशानो] विश्वकर्ता विश्वमुखो विश्वरूपो निधिर्घृणिः । कविः कवीनामृषभो ब्रह्मण्यो ब्रह्मणस्पतिः ॥ ९ ॥ ज्येष्ठराजो निधिपतिर्निधिप्रियपतिप्रियः । हिरण्मयपुरान्तःस्थः सूर्यमण्डलमध्यगः ॥ १० ॥ कराहतिध्वस्तसिन्धुसलिलः पूषदन्तभित् । उमाङ्ककेलिकुतुकी मुक्तिदः कुलपालनः ॥ ११ ॥ किरीटी कुण्डली हारी वनमाली मनोमयः । वैमुख्यहतदैत्यश्रीः पादाहतिजितक्षितिः ॥ १२ ॥ सद्योजातस्वर्णमुञ्जमेखली दुर्निमित्तहृत् । दुःस्वप्नहृत्प्रसहनो गुणी नादप्रतिष्ठितः ॥ १३ ॥ सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः । पीताम्बरः खण्डरदः खण्डेन्दुकृतशेखरः ॥ १४ ॥ चित्राङ्कश्यामदशनो फालचन्द्रश्चतुर्भुजः । योगाधिपस्तारकस्थः पुरुषो गजकर्णकः ॥ १५ ॥ गणाधिराजो विजयस्थिरो गजपतिध्वजी । देवदेवः स्मरप्राणदीपको वायुकीलकः ॥ १६ ॥ विपश्चिद्वरदो नादोन्नादभिन्नबलाहकः । वराहरदनो मृत्युञ्जयो व्याघ्राजिनाम्बरः ॥ १७ ॥ इच्छाशक्तिधरो देवत्राता दैत्यविमर्दनः । शम्भुवक्त्रोद्भवः शम्भुकोपहा शम्भुहास्यभूः ॥ १८ ॥ शम्भुतेजाः शिवाशोकहारी गौरीसुखावहः । उमाङ्गमलजो गौरीतेजोभूः स्वर्धुनीभवः ॥ १९ ॥ यज्ञकायो महानादो गिरिवर्ष्मा शुभाननः । सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्छ्रुतिः ॥ २० ॥ ब्रह्माण्डकुम्भश्चिद्व्योमफालः सत्यशिरोरुहः । जगज्जन्मलयोन्मेषनिमेषोऽग्न्यर्कसोमदृक् ॥ २१ ॥ गिरीन्द्रैकरदो धर्माधर्मोष्ठः सामबृंहितः । ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः ॥ २२ ॥ कुलाचलांसः सोमार्कघण्टो रुद्रशिरोधरः । नदीनदभुजः सर्पाङ्गुलीकस्तारकानखः ॥ २३ ॥ भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोत्कटः । व्योमनाभिः श्रीहृदयो मेरुपृष्ठोऽर्णवोदरः ॥ २४ ॥ कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषः । पृथ्वीकटिः सृष्टिलिङ्गः शैलोरुर्दस्रजानुकः ॥ २५ ॥ पातालजङ्घो मुनिपात्कालाङ्गुष्ठस्त्रयीतनुः । ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः ॥ २६ ॥ हृत्पद्मकर्णिकाशालिवियत्केलिसरोवरः । सद्भक्तध्याननिगडः पूजावारीनिवारितः ॥ २७ ॥ प्रतापी कश्यपसुतो गणपो विष्टपी बली । यशस्वी धार्मिकः स्वोजाः प्रथमः प्रथमेश्वरः ॥ २८ ॥ चिन्तामणिद्वीपपतिः कल्पद्रुमवनालयः । रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः ॥ २९ ॥ तीव्राशिरोधृतपदो ज्वालिनीमौलिलालितः । नन्दानन्दितपीठश्रीर्भोगदाभूषितासनः ॥ ३० ॥ सकामदायिनीपीठः स्फुरदुग्रासनाश्रयः । तेजोवतीशिरोरत्नं सत्यानित्यावतंसितः ॥ ३१ ॥ सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजाश्रयः । लिपिपद्मासनाधारो वह्निधामत्रयाश्रयः ॥ ३२ ॥ उन्नतप्रपदो गूढगुल्फः संवृत्तपार्ष्णिकः । पीनजङ्घः श्लिष्टजानुः स्थूलोरुः प्रोन्नमत्कटिः ॥ ३३ ॥ निम्ननाभिः स्थूलकुक्षिः पीनवक्षा बृहद्भुजः । पीनस्कन्धः कम्बुकण्ठो लम्बोष्ठो लम्बनासिकः ॥ ३४ ॥ भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः । ह्रस्वनेत्रत्रयः शूर्पकर्णो निबिडमस्तकः ॥ ३५ ॥ स्तबकाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः । सर्पहारकटीसूत्रः सर्पयज्ञोपवीतवान् ॥ ३६ ॥ सर्पकोटीरकटकः सर्पग्रैवेयकाङ्गदः । सर्पकक्ष्योदराबन्धः सर्पराजोत्तरीयकः ॥ ३७ ॥ रक्तो रक्ताम्बरधरो रक्तमाल्यविभूषणः । रक्तेक्षणो रक्तकरो रक्तताल्वोष्ठपल्लवः ॥ ३८ ॥ श्वेतः श्वेताम्बरधरः श्वेतमाल्यविभूषणः । श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ ३९ ॥ सर्वावयवसम्पूर्णसर्वलक्षणलक्षितः । सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः ॥ ४० ॥ सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणम् । सर्वदैककरः शार्‍ङ्गी बीजापूरी गदाधरः ॥ ४१ ॥ इक्षुचापधरः शूली चक्रपाणिः सरोजभृत् । पाशी धृतोत्पलः शालीमञ्जरीभृत् स्वदन्तभृत् ॥ ४२ ॥ कल्पवल्लीधरो विश्वाभयदैककरो वशी । अक्षमालाधरो ज्ञानमुद्रावान् मुद्गरायुधः ॥ ४३ ॥ पूर्णपात्री कम्बुधरो विधृतालिसमुद्गकः । मातुलुङ्गधरश्चूतकलिकाभृत्कुठारवान् ॥ ४४ ॥ पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकः । भारतीसुन्दरीनाथो विनायकरतिप्रियः ॥ ४५ ॥ महालक्ष्मीप्रियतमः सिद्धलक्ष्मीमनोरमः । रमारमेशपूर्वाङ्गो दक्षिणोमामहेश्वरः ॥ ४६ ॥ महीवराहवामाङ्गो रतिकन्दर्पपश्चिमः । आमोदमोदजननः सप्रमोदप्रमोदनः ॥ ४७ ॥ समेधितसमृद्धश्रीरृद्धिसिद्धिप्रवर्तकः । दत्तसौमुख्यसुमुखः कान्तिकन्दलिताश्रयः ॥ ४८ ॥ मदनावत्याश्रिताङ्घ्रिः कृत्तदौर्मुख्यदुर्मुखः । विघ्नसम्पल्लवोपघ्नसेवोन्निद्रमदद्रवः ॥ ४९ ॥ विघ्नकृन्निघ्नचरणो द्राविणीशक्तिसत्कृतः । तीव्राप्रसन्ननयनो ज्वालिनीपालितैकदृक् ॥ ५० ॥ मोहिनीमोहनो भोगदायिनीकान्तिमण्डितः । कामिनीकान्तवक्त्रश्रीरधिष्ठितवसुन्धरः ॥ ५१ ॥ वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभुः । नमद्वसुमतीमौलिमहापद्मनिधिप्रभुः ॥ ५२ ॥ सर्वसद्गुरुसंसेव्यः शोचिष्केशहृदाश्रयः । ईशानमूर्धा देवेन्द्रशिखा पवननन्दनः ॥ ५३ ॥ अग्रप्रत्यग्रनयनो दिव्यास्त्राणाम्प्रयोगवित् । ऐरावतादिसर्वाशावारणावरणप्रियः ॥ ५४ ॥ वज्राद्यस्त्रपरीवारो गणचण्डसमाश्रयः । जयाजयपरीवारो विजयाविजयावहः ॥ ५५ ॥ अजितार्चितपादाब्जो नित्यानित्यावतंसितः । विलासिनीकृतोल्लासः शौण्डीसौन्दर्यमण्डितः ॥ ५६ ॥ अनन्तानन्तसुखदः सुमङ्गलसुमङ्गलः । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेवितः ॥ ५७ ॥ सुभगासंश्रितपदो ललिताललिताश्रयः । कामिनीकामनः काममालिनीकेलिलालितः ॥ ५८ ॥ सरस्वत्याश्रयो गौरीनन्दनः श्रीनिकेतनः । गुरुगुप्तपदो वाचासिद्धो वागीश्वरीपतिः ॥ ५९ ॥ नलिनीकामुको वामारामो ज्येष्ठामनोरमः । रौद्रीमुद्रितपादाब्जो हुम्बीजस्तुङ्गशक्तिकः ॥ ६० ॥ विश्वादिजननत्राणः स्वाहाशक्तिः सकीलकः । अमृताब्धिकृतावासो मदघूर्णितलोचनः ॥ ६१ ॥ उच्छिष्टगण उच्छिष्टगणेशो गणनायकः । सार्वकालिकसंसिद्धिर्नित्यशैवो दिगम्बरः ॥ ६२ ॥ अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः । अनाविलोऽप्रतिरथो ह्यच्युतोऽमृतमक्षरम् ॥ ६३ ॥ अप्रतर्क्योऽक्षयोऽजय्योऽनाधारोऽनामयोऽमलः । अमोघसिद्धिरद्वैतमघोरोऽप्रमिताननः ॥ ६४ ॥ अनाकारोऽब्धिभूम्यग्निबलघ्नोऽव्यक्तलक्षणः । आधारपीठ आधार आधाराधेयवर्जितः ॥ ६५ ॥ आखुकेतन आशापूरक आखुमहारथः । इक्षुसागरमध्यस्थ इक्षुभक्षणलालसः ॥ ६६ ॥ इक्षुचापातिरेकश्रीरिक्षुचापनिषेवितः । इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः ॥ ६७ ॥ इन्दीवरदलश्यामः इन्दुमण्डलनिर्मलः । इध्मप्रिय इडाभाग इडाधामेन्दिराप्रियः ॥ ६८ ॥ इक्ष्वाकुविघ्नविध्वंसी इतिकर्तव्यतेप्सितः । ईशानमौलिरीशान ईशानसुत ईतिहा ॥ ६९ ॥ ईषणात्रयकल्पान्त ईहामात्रविवर्जितः । उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ ७० ॥ उन्नतानन उत्तुङ्गः उदारत्रिदशाग्रणीः । ऊर्जस्वानूष्मलमद ऊहापोहदुरासदः ॥ ७१ ॥ ऋग्यजुःसामसम्भूतिरृद्धिसिद्धिप्रवर्तकः । ऋजुचित्तैकसुलभः ऋणत्रयविमोचकः ॥ ७२ ॥ लुप्तविघ्नः स्वभक्तानां लुप्तशक्तिः सुरद्विषाम् । लुप्तश्रीर्विमुखार्चानां लूताविस्फोटनाशनः ॥ ७३ ॥ एकारपीठमध्यस्थः एकपादकृतासनः । एजिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ॥ ७४ ॥ ऐश्वर्यनिधिरैश्वर्यमैहिकामुष्मिकप्रदः । ऐरम्मदसमोन्मेषः ऐरावतनिभाननः ॥ ७५ ॥ ओङ्कारवाच्य ओङ्कार ओजस्वानोषधीपतिः । औदार्यनिधिरौद्धत्यधुर्य औन्नत्यनिस्वनः ॥ ७६ ॥ अङ्कुशःसुरनागानामङ्कुशःसुरविद्विषाम् । अःसमस्तविसर्गान्तपदेषुपरिकीर्तितः ॥ ७७ ॥ कमण्डलुधरः कल्पः कपर्दी कलभाननः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ७८ ॥ कदम्बगोलकाकारः कूष्माण्डगणनायकः । कारुण्यदेहः कपिलः कथकः कटिसूत्रभृत् ॥ ७९ ॥ खर्वः खड्गप्रियः खड्गखातान्तस्थः खनिर्मलः । खल्वाटशृङ्गनिलयः खट्वाङ्गी खदुरासदः ॥ ८० ॥ गुणाढ्यो गहनो गस्थो गद्यपद्यसुधार्णवः । गद्यगानप्रियो गर्जो गीतगीर्वाणपूर्वजः ॥ ८१ ॥ गुह्याचाररतो गुह्यो गुह्यागमनिरूपितः । गुहाशयो गुहाब्धिस्थो गुरुगम्यो गुरोर्गुरुः ॥ ८२ ॥ घण्टाघर्घरिकामाली घटकुम्भो घटोदरः । चण्डश्चण्डेश्वरसुहृच्चण्डीशश्चण्डविक्रमः ॥ ८३ ॥ चराचरपतिश्चिन्तामणिचर्वणलालसः । छन्दश्छन्दोवपुश्छन्दोदुर्लक्ष्यश्छन्दविग्रहः ॥ ८४ ॥ जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः । जपो जपपरो जप्यो जिह्वासिंहासनप्रभुः ॥ ८५ ॥ झलज्झलोल्लसद्दानझङ्कारिभ्रमराकुलः । टङ्कारस्फारसंरावष्टङ्कारिमणिनूपुरः ॥ ८६ ॥ ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदः । डिण्डिमुण्डो डाकिनीशो डामरो डिण्डिमप्रियः ॥ ८७ ॥ ढक्कानिनादमुदितो ढौको ढुण्ढिविनायकः । तत्त्वानां परमं तत्त्वं तत्त्वं पदनिरूपितः ॥ ८८ ॥ तारकान्तरसंस्थानस्तारकस्तारकान्तकः । स्थाणुः स्थाणुप्रियः स्थाता स्थावरं जङ्गमं जगत् ॥ ८९ ॥ दक्षयज्ञप्रमथनो दाता दानवमोहनः । दयावान् दिव्यविभवो दण्डभृद्दण्डनायकः ॥ ९० ॥ दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः । दंष्ट्रालग्नद्विपघटो देवार्थनृगजाकृतिः ॥ ९१ ॥ धनधान्यपतिर्धन्यो धनदो धरणीधरः । ध्यानैकप्रकटो ध्येयो ध्यानम् ध्यानपरायणः ॥ ९२ ॥ नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः । निष्कलो निर्मलो नित्यो नित्यानित्यो निरामयः ॥ ९३ ॥ परं व्योम परं धाम परमात्मा परं पदम् । परात्परः पशुपतिः पशुपाशविमोचकः ॥ ९४ ॥ पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः । पद्मप्रसन्ननयनः प्रणताऽज्ञानमोचनः ॥ ९५ ॥ प्रमाणप्रत्ययातीतः प्रणतार्तिनिवारणः । फलहस्तः फणिपतिः फेत्कारः फाणितप्रियः ॥ ९६ ॥ बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ९७ ॥ बृहत्तमो ब्रह्मपरो ब्रह्मण्यो ब्रह्मवित्प्रियः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ९८ ॥ भ्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः । भगवान् भक्तिसुलभो भूतिदो भूतिभूषणः ॥ ९९ ॥ भव्यो भूतालयो भोगदाता भ्रूमध्यगोचरः । मन्त्रो मन्त्रपतिर्मन्त्री मदमत्तमनोरमः ॥ १०० ॥ मेखलावान् मन्दगतिर्मतिमत्कमलेक्षणः । महाबलो महावीर्यो महाप्राणो महामनाः ॥ १०१ ॥ यज्ञो यज्ञपतिर्यज्ञगोप्ता यज्ञफलप्रदः । यशस्करो योगगम्यो याज्ञिको याजकप्रियः ॥ १०२ ॥ रसो रसप्रियो रस्यो रञ्जको रावणार्चितः । रक्षोरक्षाकरो रत्नगर्भो राज्यसुखप्रदः ॥ १०३ ॥ लक्ष्यं लक्षप्रदो लक्ष्यो लयस्थो लड्डुकप्रियः । लानप्रियो लास्यपरो लाभकृल्लोकविश्रुतः ॥ १०४ ॥ वरेण्यो वह्निवदनो वन्द्यो वेदान्तगोचरः । विकर्ता विश्वतश्चक्षुर्विधाता विश्वतोमुखः ॥ १०५ ॥ वामदेवो विश्वनेता वज्रिवज्रनिवारणः । विश्वबन्धनविष्कम्भाधारो विश्वेश्वरप्रभुः ॥ १०६ ॥ शब्दब्रह्म शमप्राप्यः शम्भुशक्तिगणेश्वरः । शास्ता शिखाग्रनिलयः शरण्यः शिखरीश्वरः ॥ १०७ ॥ षडृतुकुसुमस्रग्वी षडाधारः षडक्षरः । संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् ॥ १०८ ॥ सृष्टिस्थितिलयक्रीडः सुरकुञ्जरभेदनः । सिन्दूरितमहाकुम्भः सदसद्व्यक्तिदायकः ॥ १०९ ॥ साक्षी समुद्रमथनः स्वसंवेद्यः स्वदक्षिणः । स्वतन्त्रः सत्यसङ्कल्पः सामगानरतः सुखी ॥ ११० ॥ हंसो हस्तिपिशाचीशो हवनं हव्यकव्यभुक् । हव्यो हुतप्रियो हर्षो हृल्लेखामन्त्रमध्यगः ॥ १११ ॥ क्षेत्राधिपः क्षमाभर्ता क्षमापरपरायणः । क्षिप्रक्षेमकरः क्षेमानन्दः क्षोणीसुरद्रुमः ॥ ११२ ॥ धर्मप्रदोऽर्थदः कामदाता सौभाग्यवर्धनः । विद्याप्रदो विभवदो भुक्तिमुक्तिफलप्रदः ॥ ११३ ॥ आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः । सर्ववश्यकरो गर्भदोषहा पुत्रपौत्रदः ॥ ११४ ॥ मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ ११५ ॥ पराभिचारशमनो दुःखभञ्जनकाराकः । लवस्त्रुटिः कला काष्ठा निमेषस्तत्परः क्षणः ॥ ११६ ॥ घटी मुहूर्तं प्रहरो दिवानक्तमहर्निशम् । पक्षो मासोऽयनं वर्षं युगं कल्पो महालयः ॥ ११७ ॥ राशिस्तारा तिथिर्योगो वारः करणमंशकम् । लग्नं होरा कालचक्रं मेरुः सप्तर्षयो ध्रुवः ॥ ११८ ॥ राहुर्मन्दः कविर्जीवो बुधो भौमः शशी रविः । कालः सृष्टिः स्थितिर्विश्वं स्थावरं जङ्गमं च यत् ॥ ११९ ॥ भूरापोऽग्निर्मरुद्व्योमाहङ्कृतिः प्रकृतिः पुमान् । ब्रह्मा विष्णुः शिवो रुद्रः ईशः शक्तिः सदाशिवः ॥ १२० ॥ त्रिदशाः पितरः सिद्धा यक्षा रक्षांसि किन्नराः । साध्या विद्याधरा भूता मनुष्याः पशवः खगाः ॥ १२१ ॥ समुद्राः सरितः शैलाः भूतं भव्यं भवोद्भवः । साङ्ख्यं पातञ्जलं योगः पुराणानि श्रुतिः स्मृतिः ॥ १२२ ॥ वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः । आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् ॥ १२३ ॥ वैखानसं भागवतं सात्वतं पाञ्चरात्रकम् । शैवं पाशुपतं कालामुखं भैरवशासनम् ॥ १२४ ॥ शाक्तं वैनायकं सौरं जैनमार्हतसंहिता । सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् ॥ १२५ ॥ बन्धो मोक्षः सुखं भोगोऽयोगः सत्यमणुर्महान् । स्वस्ति हुं फट् स्वधा स्वाहा श्रौषड्वौषड्वषण्णमः ॥ १२६ ॥ ज्ञानं विज्ञानमानन्दो बोधः संविच्छमो यमः । एक एकाक्षराधारः एकाक्षरपरायणः ॥ १२७ ॥ एकाग्रधीरेकवीरः एकानेकस्वरूपधृक् । द्विरूपो द्विभुजो द्व्यक्षो द्विरदो द्वीपरक्षकः ॥ १२८ ॥ द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः । त्रिधामा त्रिकरस्त्रेता त्रिवर्गफलदायकः ॥ १२९ ॥ त्रिगुणात्मा त्रिलोकादिस्त्रिशक्तीशस्त्रिलोचनः । चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्मुखः ॥ १३० ॥ चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः । चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकः ॥ १३१ ॥ चतुर्थीपूजनप्रीतश्चतुर्थीतिथिसम्भवः । पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्यकृत् ॥ १३२ ॥ पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः । पञ्चतालः पञ्चकरः पञ्चप्रणवभावितः ॥ १३३ ॥ पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः । पञ्चभक्ष्यप्रियः पञ्चबाणः पञ्चशिवात्मकः ॥ १३४ ॥ षट्कोणपीठः षट्चक्रधामा षड्ग्रन्थिभेदकः । षडध्वध्वान्तविध्वंसी षडङ्गुलमहाह्रदः ॥ १३५ ॥ षण्मुखः षण्मुखभ्राता षट्छक्तिपरिवारितः । षड्वैरिवर्गविध्वंसी षडूर्मिभयभञ्जनः ॥ १३६ ॥ षट्तर्कदूरः षट्कर्मनिरतः षड्रसाश्रयः । सप्तपातालचरणः सप्तद्वीपोरुमण्डलः ॥ १३७ ॥ सप्तस्वर्लोकमुकुटः सप्तसप्तिवरप्रदः । सप्ताङ्गराज्यसुखदः सप्तर्षिगणमण्डितः ॥ १३८ ॥ सप्तच्छन्दोनिधिः सप्तहोता सप्तस्वराश्रयः । सप्ताब्धिकेलिकासारः सप्तमातृनिषेवितः ॥ १३९ ॥ सप्तच्छन्दोमोदमदः सप्तच्छन्दोमखप्रभुः । अष्टमूर्तिध्येयमूर्तिरष्टप्रकृतिकारणम् ॥ १४० ॥ अष्टाङ्गयोगफलभूरष्टपत्राम्बुजासनः । अष्टशक्तिसमृद्धश्रीरष्टैश्वर्यप्रदायकः ॥ १४१ ॥ अष्टपीठोपपीठश्रीरष्टमातृसमावृतः । अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृत् ॥ १४२ ॥ अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यहविःप्रियः । नवनागासनाध्यासी नवनिध्यनुशासिता ॥ १४३ ॥ नवद्वारपुराधारो नवाधारनिकेतनः । नवनारायणस्तुत्यो नवदुर्गानिषेवितः ॥ १४४ ॥ नवनाथमहानाथो नवनागविभूषणः । नवरत्नविचित्राङ्गो नवशक्तिशिरोधृतः ॥ १४५ ॥ दशात्मको दशभुजो दशदिक्पतिवन्दितः । दशाध्यायो दशप्राणो दशेन्द्रियनियामकः ॥ १४६ ॥ दशाक्षरमहामन्त्रो दशाशाव्यापिविग्रहः । एकादशादिभीरुद्रैःस्तुत एकादशाक्षरः ॥ १४७ ॥ द्वादशोद्दण्डदोर्दण्डो द्वादशान्तनिकेतनः । त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवतम् ॥ १४८ ॥ चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः । चतुर्दशादिविद्याढ्यश्चतुर्दशजगत्प्रभुः ॥ १४९ ॥ सामपञ्चदशः पञ्चदशीशीतांशुनिर्मलः । षोडशाधारनिलयः षोडशस्वरमातृकः ॥ १५० ॥ षोडशान्तपदावासः षोडशेन्दुकलात्मकः । कलासप्तदशी सप्तदशः सप्तदशाक्षरः ॥ १५१ ॥ अष्टादशद्वीपपतिरष्टादशपुराणकृत् । अष्टादशौषधीसृष्टिरष्टादशविधिस्मृतः ॥ १५२ ॥ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः । एकविंशःपुमानेकविंशत्यङ्गुलिपल्लवः ॥ १५३ ॥ चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः । सप्तविंशतितारेशः सप्तविंशतियोगकृत् ॥ १५४ ॥ द्वात्रिंशद्भैरवाधीशश्चतुस्त्रिंशन्महाह्रदः । षट्त्रिंशत्तत्त्वसम्भूतिरष्टत्रिंशत्कलातनुः ॥ १५५ ॥ नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः । पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः ॥ १५६ ॥ पञ्चाशद्विष्णुशक्तीशः पञ्चाशन्मातृकालयः । द्विपञ्चाशद्वपुःश्रेणी त्रिषष्ट्यक्षरसंश्रयः ॥ १५७ ॥ चतुःषष्ट्यर्णनिर्णेता चतुःषष्टिकलानिधिः । चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दितः ॥ १५८ ॥ अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनः । चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः ॥ १५९ ॥ शतानन्दः शतधृतिः शतपत्रायतेक्षणः । शतानीकः शतमखः शतधारावरायुधः ॥ १६० ॥ सहस्रपत्रनिलयः सहस्रफणभूषणः । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १६१ ॥ सहस्रनामसंस्तुत्यः सहस्राक्षबलापहः । दशसाहस्रफणभृत्फणिराजकृतासनः ॥ १६२ ॥ अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रितः । लक्षाधीशप्रियाधारो लक्षाधारमनोमयः ॥ १६३ ॥ चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशितः । चतुरशीतिलक्षाणां जीवानां देहसंस्थितः ॥ १६४ ॥ कोटिसूर्यप्रतीकाशः कोटिचन्द्रांशुनिर्मलः । शिवाभवाध्युष्टकोटिविनायकधुरन्धरः ॥ १६५ ॥ सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः । त्रयस्त्रिंशत्कोटिसुरश्रेणीप्रणतपादुकः ॥ १६६ ॥ अनन्तनामाऽनन्तश्रीरनन्ताऽनन्तसौख्यदः । इति वैनायकं नाम्नां सहस्रमिदमीरितम् ॥ १६७ ॥ इदं ब्राह्मे मुहूर्ते वै यः पठेत्प्रत्यहं नरः । करस्थं तस्य सकलमैहिकामुष्मिकं सुखम् ॥ १६८ ॥ आयुरारोग्यमैश्वर्यं धैर्यं शौर्यं बलं यशः । मेधा प्रज्ञा धृतिः कान्तिः सौभाग्यमतिरूपता ॥ १६९ ॥ सत्यं दया क्षमा शान्तिर्दाक्षिण्यं धर्मशीलता । जगत्सम्यमनं विश्वसंवादो वादपाटवम् ॥ १७० ॥ सभापाण्डित्यमौदार्यं गाम्भीर्यं ब्रह्मवर्चसम् । औन्नत्यं च कुलं शीलं प्रतापो वीर्यमार्यता ॥ १७१ ॥ ज्ञानं विज्ञानमास्तिक्यं स्थैर्यं विश्वातिशायिता । धनधान्याभिवृद्धिश्च सकृदस्य जपाद्भवेत् ॥ १७२ ॥ वश्यं चतुर्विधं नृणां जपादस्य प्रजायते । राज्ञो राजकलत्रस्य राजपुत्रस्य मन्त्रिणः ॥ १७३ ॥ जप्यते यस्य वश्यार्थं स दासस्तस्य जायते । धर्मार्थकाममोक्षाणामनायासेन साधनम् ॥ १७४ ॥ शाकिनीडाकिनीरक्षोयक्षोरगभयापहम् । साम्राज्यसुखदं चैव समस्तरिपुमर्दनम् ॥ १७५ ॥ समस्तकलहध्वंसि दग्धबीजप्ररोहणम् । दुःखप्रशमनं क्रुद्धस्वामिचित्तप्रसादनम् ॥ १७६ ॥ षट्कर्माष्टमहासिद्धित्रिकालज्ञानसाधनम् । परकृत्योपशमनं परचक्रविमर्दनम् ॥ १७७ ॥ सङ्ग्रामरङ्गे सर्वेषामिदमेकं जयावहम् । सर्ववन्ध्यात्वदोषघ्नं गर्भरक्षैककारणम् ॥ १७८ ॥ पठ्यते प्रत्यहं यत्र स्तोत्रं गणपतेरिदम् । देशे तत्र न दुर्भिक्षमीतयो दुरितानि च ॥ १७९ ॥ न तद्गृहं जहाति श्रीर्यत्रायं पठ्यते स्तवः । क्षयकुष्ठप्रमेहार्शोभगन्दरविषूचिकाः ॥ १८० ॥ गुल्मं प्लीहानमश्मानमतिसारं महोदरम् । कासं श्वासमुदावर्तं शूलशोकादिसम्भवम् ॥ १८१ ॥ शिरोरोगं वमिं हिक्कां गण्डमालामरोचकम् । वातपित्तकफद्वन्द्वत्रिदोषजनितज्वरम् ॥ १८२ ॥ आगन्तुं विषमं शीतमुष्णं चैकाहिकादिकम् । इत्याद्युक्तमनुक्तं वा रोगं दोषादिसम्भवम् ॥ १८३ ॥ सर्वं प्रशमयत्याशु स्तोत्रस्यास्य सकृज्जपात् । सकृत्पाठेन संसिद्धिः स्त्रीशूद्रपतितैरपि ॥ १८४ ॥ सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये । महागणपतेः स्तोत्रं सकामः प्रजपन्निदम् ॥ १८५ ॥ इच्छितान्सकलान् भोगानुपभुज्येह पार्थिवान् । मनोरथफलैर्दिव्यैर्व्योमयानैर्मनोरमैः ॥ १८६ ॥ चन्द्रेन्द्रभास्करोपेन्द्रब्रह्मशर्वादिसद्मसु । कामरूपः कामगतिः कामतो विचरन्निह ॥ १८७ ॥ भुक्त्वा यथेप्सितान्भोगानभीष्टान् सह बन्धुभिः । गणेशानुचरो भूत्वा महागणपतेः प्रियः ॥ १८८ ॥ नन्दीश्वरादिसानन्दीनन्दितः सकलैर्गणैः । शिवाभ्यां कृपया पुत्रनिर्विशेषं च लालितः ॥ १८९ ॥ शिवभक्तः पूर्णकामो गणेश्वरवरात्पुनः । जातिस्मरो धर्मपरः सार्वभौमोऽभिजायते ॥ १९० ॥ निष्कामस्तु जपन्नित्यं भक्त्या विघ्नेशतत्परः । योगसिद्धिं परां प्राप्य ज्ञानवैराग्यसंस्थितः ॥ १९१ ॥ निरन्तरोदितानन्दे परमानन्दसंविदि । विश्वोत्तीर्णे परे पारे पुनरावृत्तिवर्जिते ॥ १९२ ॥ लीनो वैनायके धाम्नि रमते नित्यनिर्वृतः । यो नामभिर्हुनेदेतैरर्चयेत्पूजयेन्नरः ॥ १९३ ॥ राजानो वश्यतां यान्ति रिपवो यान्ति दासताम् । मन्त्राः सिद्ध्यन्ति सर्वेऽपि सुलभास्तस्यसिद्धयः ॥ १९४ ॥ मूलमन्त्रादपि स्तोत्रमिदं प्रियतरं मम । नभस्ये मासि शुक्लायां चतुर्थ्यां मम जन्मनि ॥ १९५ ॥ दूर्वाभिर्नामभिः पूजां तर्पणं विधिवच्चरेत् । अष्टद्रव्यैर्विशेषेण जुहुयाद्भक्तिसम्युतः ॥ १९६ ॥ तस्येप्सितानि सर्वाणि सिद्ध्यन्त्यत्र न संशयः । इदं प्रजप्तं पठितं पाठितं श्रावितं श्रुतम् ॥ १९७ ॥ व्याकृतं चर्चितं ध्यातं विमृष्टमभिनन्दितम् । इहामुत्र च सर्वेषां विश्वैश्वर्यप्रदायकम् ॥ १९८ ॥ स्वच्छन्दचारिणाप्येष येनायं धार्यते स्तवः । स रक्ष्यते शिवोद्भूतैर्गणैरध्युष्टकोटिभिः ॥ १९९ ॥ पुस्तके लिखितं यत्र गृहे स्तोत्रं प्रपूजयेत् । तत्र सर्वोत्तमा लक्ष्मीः सन्निधत्ते निरन्तरम् ॥ २०० ॥ दानैरशेषैरखिलैर्व्रतैश्च तीर्थैरशेषैरखिलैर्मखैश्च । न तत्फलं विन्दति यद्गणेश- सहस्रनाम्नां स्मरणेन सद्यः ॥ २०१ ॥ एतन्नाम्नां सहस्रं पठति दिनमणौ प्रत्यहं प्रोज्जिहाने सायं मध्यन्दिने वा त्रिषवणमथवा सन्ततं वा जनो यः । स स्यादैश्वर्यधुर्यः प्रभवति वचसां कीर्तिमुच्चैस्तनोति प्रत्यूहं हन्ति विश्वं वशयति सुचिरं वर्धते पुत्रपौत्रैः ॥ २०२ ॥ अकिञ्चनोऽपि मत्प्राप्तिचिन्तको नियताशनः । जपेत्तु चतुरो मासान्गणेशार्चनतत्परः ॥ २०३ ॥ दरिद्रतां समुन्मूल्य सप्तजन्मानुगामपि । लभते महतीं लक्ष्मीमित्याज्ञा पारमेश्वरी ॥ २०४ ॥ आयुष्यं वीतरोगं कुलमतिविमलं सम्पदश्चार्तदानाः कीर्तिर्नित्यावदाता भणितिरभिनवा कान्तिरव्याधिभव्या । पुत्राः सन्तः कलत्रं गुणवदभिमतं यद्यदेतच्च सत्यं नित्यं यः स्तोत्रमेतत्पठति गणपतेस्तस्य हस्ते समस्तम् ॥ २०५ ॥ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः । महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ॥ २०६ ॥ अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः । सुमङ्गलो बीजमाशापूरको वरदः शिवः ॥ २०७ ॥ काश्यपो नन्दनो वाचासिद्धो ढुण्ढिविनायकः । मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान् ॥ २०८ ॥ यः स्तौति मद्गतमना ममाराधनतत्परः । स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥ २०९ ॥ नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलपदैकसिद्धये नमो नमः करिकलभाननाय ते ॥ २१० ॥ किङ्किणीगणरणितस्तवचरणः प्रकटितगुरुमतिचरितविशेषः । मदजललहरीकलितकपोलः शमयतु दुरितं गणपतिदेवः ॥ २११ ॥ इति श्रीगणेशपुराणे उपासनाखण्डे महागणपतिप्रोक्तं श्रीमहागणपति सहस्रनामस्तोत्रं सम्पूर्णम् ।
पाठ जप: 0/108