सनातन स्तोत्र एवं ग्रन्थ संग्रह
श्री सुर्य
महालक्ष्मी

श्रीगणेशद्वादशनामस्तोत्रम्

Shreeganeshadvaadashanaamastotram
रचयिता: पारंपरिक पाठ संख्या: 20
23px
अथ श्रीगणेशद्वादशनामस्तोत्रम् 

॥ श्रीगणेशाय नमः ॥

शुक्लाम्बरधरं विश्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ॥ १॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ २॥

गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ।
प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ ३॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ ४॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ॥ ५॥

विद्यार्थी लभते विद्यां धनार्थि विपुलं धनम् ।
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥ ६॥

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ७॥

इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रम् 

पाठ जप: 0/108
प्रतिलिपि (Copy) भयो!