सनातन स्तोत्र संग्रह
श्रेणी
सनातन देव

श्रीगणेशदुर्गस्तोत्रम् 

stotra-d5870a83
रचयिता: पारंपरिक पाठ संख्या: 1
23px

श्रीगणेशदुर्गस्तोत्रम्

श्री गणेशाय नमः । प्राच्यां रक्षतु हेरम्बश्चाग्नेय्यामग्नितेजसः । याम्यां लम्बोदरो रक्षेनैरृत्यां पार्वतीसुतः ॥ १॥ प्रतीच्यां वक्रतुण्डस्तु वायव्यां वरदः प्रभुः । उदीच्यां गणपः पातु ईशान्यामीशनन्दनः ॥ २॥ ऊर्ध्वं रक्षेद्धूम्रवर्णो ह्यधस्तात्पापनाशनः । एवं दश दिशो रक्षेत्सुमुखो विघ्ननायकः । हेरम्बस्य दुर्गमिदं त्रिकालं यः पठेन्नरः । ज्वरे च सङ्कटे घोरे सङ्ग्रामे मुच्यते भयात् ॥ ३॥ इति श्रीगणेशदुर्गस्तोत्रम्
पाठ जप: 0/108