સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીદીપદુર્ગાકવચમ્

श्रीदीपदुर्गाकवचम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 2
23px

श्रीदीपदुर्गा कवचम्

श्रीभैरव उवाच श‍ृणु देवि जगन्मातर्ज्वालादुर्गां ब्रवीम्यहम् । कवचं मन्त्रगर्भं च त्रैलोक्यविजयाभिधम् ॥ १॥ अप्रकाश्यं परं गुह्यं न कस्य कथितं मया । विनामुना न सिद्धिः स्यात्कवचेन महेश्वरि ॥ २॥ अवक्तव्यमदातव्यं दुष्टाया साधकाय च । निन्दकायान्यशिष्याय न वक्तव्यं कदाचन ॥ ३॥ श्री देव्युवाच त्रैलोक्यनाथ वद मे बहुधा कथितं मया । स्वयं त्वया प्रसादोऽयं कृतः स्नेहेन मे प्रभो ॥ ४॥ श्री भैरव उवाच । प्रभाते चैव मध्याह्ने सायङ्कालेऽर्धरात्रके । कवचं मन्त्रगर्भं च पठनीयं परात्परम् ॥ ५॥ मधुना मत्स्यमांसादिमोदकेन समर्चयेत् । देवतां परया भक्त्या पठेत्कवचमुत्तमम् ॥ ६॥ ॐ ह्रीं मे पातु मूर्धानं ज्वाला द्व्यक्षरमातृका । ॐ ह्रीं श्रीं मेऽवतात्फालं त्र्यक्षरी विश्वमातृका ॥ ७॥ ॐ ऐं क्लीं सौः ममाव्यात्सा देवी माया भ्रुवौ मम । ॐ अं आं इं ईं सौः पायान्नेत्रा मे विश्वसुन्दरी ॥ ८॥ ॐ ह्रीं ह्रीं सौः पुत्र नासां उं ऊं कर्णौ च मोहिनी । ऋं ॠं लृं लॄं सौः मे बाला पायाद्गण्डौ च चक्षुषी ॥ ९॥ ॐ ऐं ओं औं सदाऽव्यान्मे मुखं श्री भगरूपिणी । अं अः ॐ ह्रीं क्लीं सौः पायद्गलं मे भगधारिणी ॥ १०॥ कं खं गं घं (ओं ह्रीं) सौः स्कन्धौ मे त्रिपुरेश्वरी । ङं चं छं जं (ह्रीं) सौः वक्षः पायाच्च बैन्दवेश्वरी ॥ ११॥ झं ञं टं ठं सौः ऐं क्लीं हूं ममाव्यात्सा भुजान्तरम् । डं ढं णं तं स्तनौ पायाद्भेरुण्डा मम सर्वदा ॥ १२॥ थं दं धं नं कुक्षिं पायान्मम ह्रीं श्रीं परा जया । पं फं बं श्रीं ह्रीं सौः पार्श्वं मृडानी पातु मे सदा ॥ १३॥ भं मं यं रं श्रीं सौः लं वं नाभिं मे पान्तु कन्यकाः । शं षं सं हं सदा पातु गुह्यं मे गुह्यकेश्वरी ॥ १४॥ वृक्षः पातु सदा लिङ्गं ह्रीं श्रीं लिङ्गनिवासिनी । ऐं क्लीं सौः पातु मे मेढ्रं पृष्ठं मे पातु वारुणी ॥ १५॥ ॐ श्रीं ह्रीं क्लीं हुं हूं पातु ऊरू मे पात्वमासदा । ॐ ऐं क्लीं सौः यां वात्याली जङ्घे पायात्सदा मम ॥ १६॥ ॐ श्रीं सौः क्लीं सदा पायाज्जानुनी कुलसुन्दरी । ॐ श्रीं ह्रीं हूं कूवली च गुल्फौ ऐं श्रीं ममाऽवतु ॥ १७॥ ॐ श्रीं ह्रीं क्लीं ऐं सौः पायात्कुण्ठी क्लीं ह्रीं ह्रौः मे तलम् । ॐ ह्रीं श्रीं पादौ सौः पायद् ह्रीं श्रीं क्लीं कुत्सिता मम ॥ १८॥ ॐ ह्रीं श्रीं कुटिला ह्रीं क्लीं पादपृष्ठं च मेऽवतु । ॐ श्रीं ह्रीं श्रीं च मे पातु पादस्था अङ्गुलीः सदा ॥ १९॥ ॐ ह्रीं सौः ऐं कुहूः मज्जां ॐ श्रीं कुन्ती ममाऽवतु । रक्तं कुम्भेश्वरी ऐं क्लीं शुक्लं पायाच्च कूचरी ॥ २०॥ पातु मेऽङ्गानि सर्वाणि ॐ ह्रीं श्रीं क्लीं ऐं सौः सदा । पादादिमूर्धपर्यन्तं ह्रीं क्लीं श्रीं कारुणी सदा ॥ २१॥ मूर्धादिपादपर्यन्तं पातु क्लीं श्रीं कृतिर्मम । ऊर्ध्वं मे पातु ब्रां ब्राह्मीं अधः श्रीं शाम्भवी मम ॥ २२॥ दुं दुर्गा पातु मे पूर्वे वां वाराही शिवालये । ह्रीं क्लीं हूं श्रीं च मां पातु उत्तरे कुलकामिनी ॥ २३॥ नारसिंही सौः ऐं (ह्रीं) क्लीं वायाव्ये पातु मां सदा । ॐ श्रीं क्लीं ऐं च कौमारी पश्चिमे पातु मां सदा ॥ २४॥ ॐ ह्रीं श्रीं निरृतौ पातु मातङ्गी मां शुभङ्करी । ॐ श्रीं ह्रीं क्लीं सदा पातु दक्षिणे भद्रकालिका ॥ २५॥ ॐ श्रीं ऐं क्लीं सदाऽग्नेय्यामुग्रतारा तदाऽवतु । ॐ वं दशदिशो रक्षेन्मां ह्रीं दक्षिणकालिका ॥ २६॥ सर्वकालं सदा पातु ऐं सौः त्रिपुरसुन्दरी । मारीभये च दुर्भिक्षे पीडायां योगिनीभये ॥ २७॥ ॐ ह्रीं श्रीं त्र्यक्षरी पातु देवी ज्वालामुखी मम । इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ २८॥ त्रैलोक्यविजयं नाम मन्त्रगर्भं महेश्वरी । अस्य प्रसादादीशोऽहं भैरवाणां जगत्त्रये ॥ २९॥ सृष्टिकर्तापहर्ता च पठनादस्य पार्वती । कुङ्कुमेन लिखेद्भूर्जे आसवेनस्वरेतसा ॥ ३०॥ स्तम्भयेदखिलान् देवान् मोहयेदखिलाः प्रजाः । मारयेदखिलान् शत्रून् वशयेदपि देवताः ॥ ३१॥ बाहौ धृत्वा चरेद्युद्धे शत्रून् जित्वा गृहं व्रजेत् । प्रोते रणे विवादे च कारायां रोगपीडने ॥ ३२॥ ग्रहपीडादि कालेषु पठेत्सर्वं शमं व्रजेत् । इतीदं कवचं देवि मन्त्रगर्भं सुरार्चितम् ॥ ३३॥ यस्य कस्य न दातव्यं विना शिष्याय पार्वति । मासेनैकेन भवेत्सिद्धिर्देवानां या च दुर्लाभा । पठेन्मासत्रयं मर्त्यो देवीदर्शनमाप्नुयात् ॥ ३४॥ इति श्रीरुद्रयामलतन्त्रे श्रीभैरवदेवि संवादे श्रीदीपदुर्गा कवचस्तोत्रम् 
પાઠ જપ: 0/108