સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીદાક્ષાયણીસ્તોત્રમ્

श्रीदाक्षायणीस्तोत्रम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 11
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px

श्रीदाक्षायणीस्तोत्रम्

गम्भीरावर्तनाभिर्मृगमदतिलका वामबिम्बाधरोष्ठी श्रीकान्ता काञ्चिदाम्ना परिवृतजघना कोकिलालापवाणी । कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटिप्राणकान्ता रम्भोरूः सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १॥ दद्यात् कल्मषहारिणी शिवतनुः पाशाङ्कुशालङ्कृता शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला । कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी लोलाक्षी भवबन्धमोक्षणकरी निश्रेयसं सन्ततम् ॥ २॥ मध्येसुधाब्धि मणिमण्टपरत्नवेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविचित्रगात्रीं देवीं भजामि दृढबुद्धतलेडजिह्वां ॥ ३॥ सन्नद्धां विविधायुधैः परिवृतामालीकुमारीगणैः ध्यायेदीप्सितदायिनीं त्रिनयनां सिंहाधिरूढां सिताम् । शङ्खं चक्रधनूंषि चारु दधतीं बिभ्रायुधां तर्जनीं वामे शक्तिमसिं महेषुभितरे श्रीशक्तिशूलं भजे ॥ ४॥ किंशुकच्छदविशाललोचनीं किञ्च नागरसवल्लिसंयुताम् । अङ्गचम्पकसमानवर्णिनीं शङ्करप्रियसतीं नमाम्यहम् ॥ ५॥ आरुह्य सिंहमसिचर्मरथाङ्गशङ्ख- शक्तित्रिशूलशरचापधरा पुरास्तात् । गच्छ त्वमम्ब दुरिते पथि दुष्टसत्त्वात् संरक्षणाय सततं मम देवि दुर्गे ॥ ६॥ दिनकरशशिनेत्रे दिव्यते रुद्रगात्रे घनसमुचितगात्रे कल्पवल्लीसवित्रि । अनवरतपवित्रे ह्यम्बिके कालरात्रे मुनिविनुतचरित्रे मोहने शैलपुत्रि ॥ ७॥ जलरुहसमपाणे सत्कलाबाणतूणे सुललितमुखवीणे सर्वविद्याप्रवीणे । अलघुनुतपुराणे ह्यर्थभाषाधुरीणे- प्यलिसमुदयवेणि ग्रावजे शम्भुराज्ञि ॥ ८॥ विविधगुणकराली विश्वतत्त्वावराली शिवहृदयसमेली स्वयभवामथाली । नवमणिमयमौली नागरक्षोविभाली धवलभसितधूलीधारिणी भद्रकाली ॥ ९॥ जननमरणहारी सर्वलोकोपकारी जननजतविहारी चारुवक्षोरुहारी । कनकगिरिविहारी कालगर्वोपहारी घनफणधरहारी कालि कौमारि गौरि ॥ १०॥ मलहरुनिमतङ्गी मन्त्रयन्त्रप्रसङ्गी वलयितसुभुजङ्गी वाङ्मयी मौनसङ्गी । विलयभयविहङ्गी विश्वतो रक्षपाङ्गी कलितजयतुरङ्गी खण्डचन्द्रोत्तमाङ्गी ॥ ११॥ अम्ब त्वदाराधनतत्पराणां मुखारविन्दे सरसं कवित्वम् । करारविन्दे वरकल्पवल्ली पदारविन्दे नृपमौलिराजिः ॥ १२॥ पुरवैरिधात्रि मुरवैरिपूजिते जलदालिवेणि फलदायिके शिवे । सदयं ससम्पदुदयं कुरुष्व मे जगदम्ब शाम्भवि कदम्बवासिनि ॥ १३॥ विजयविभवदात्री विश्वकल्याणगात्री मधुकरशुभवेणी मङ्गलापासवाणी । शतमखविधिगीता शाम्भवी लोकमाता कलिरिपुजयघोटी कामकोटिः सहाया ॥ १४॥ मधुपमहितमौर्वी मल्लिकामञ्जुलोर्वी- धरपतिवरकन्या धर्मभूतेषु धन्या । मणिमयघनवीणा मञ्जरीदिव्यबाणा कलिरिपुजयघोटी कामकोटिः सहाया ॥ १५॥ अम्ब त्वदंशोरणुरंशुमाली तवैव मन्दस्मितबिन्दुरिन्दुः । यादृच्छिकं संल्लपितं त्रयी ते पुम्भावलीला पुरुषत्र यान्ति ॥ १६॥ दर्वेदनानभवनैः परिदयमाना निर्वेदमेति नितरां कलना मदीया । पर्वेन्दुसुन्दरमुखि प्रणतानुकम्पे सर्वेश्वरि त्रिपुरसुन्दरि मे प्रसीद ॥ १७॥ यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते । पाशपाणि सणिपाणि भावये चापपाणि शरपाणि दैवतम् ॥ १८॥ ऐश्वर्यमष्टविधमष्टदिगीश्वरत्व- मष्टात्मता च फलमाश्रयिणामितीव । मुद्रां वहन् घनधियो वटमूलवासी मोदं तनोतु मम मुग्धशशाङ्कचूडः ॥ १९॥ गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति द्वेषी मित्रति पातकं सकतति क्षमावल्लभो दासति । मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसेवनात् त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रिये ॥ २०॥ पातय वा पाताले स्थापय वा सकललोकसाम्राज्ये । मातस्तव पदयुगलं नाहं मुञ्चामि नैव मुञ्चामि ॥ २१॥ आपदि किं करणीयं स्मरणीयं चरणयुगलमम्बायाः । तत्स्मरणं किं कुरुते ब्रह्मादीनपि च किङ्करीकुरुते ॥ २२॥ मातर्मे मधुकैटभन्नि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि । निश्शेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि संहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २३॥ रक्ताभामरुणांशुकाम्बरधरामानन्दपूर्णाननां मुक्ताहारविभूषितां कुचभरक्लान्तां सकाञ्चीगुणाम् । देवीं दिव्यरसान्नपात्रकरकामम्भोजदर्वीकरां ध्याये शङ्करवल्लभां त्रिणयनामन्बां सदानप्रदाम् ॥ २४॥ उद्यद्भानुनिभां दुकूलवसनां क्षीरोदमध्ये शुभे मूले कल्पतरोः स्फुरन्मणिमये सिंहासने संस्थिताम् । बिभ्राणां करयोः सुवर्णचषकं बीजं च शाल्युद्भवं भक्ताभीष्टवराभयाञ्जलिपुटां ध्यायेऽन्नपूर्णेश्वरीम् ॥ २५॥ वामे पायसपूर्णहेमकलशं पाणौ वहन्ती मुदा चान्ये पाणितले सुवर्णरचितां दर्वी च भूषोज्ज्वलाम् । अम्बा शुद्धदुकूलचित्रवसना कारुण्यपूर्णेक्षणा श्यामा काचन शङ्करप्रियतमा शातोदरी दृश्यते ॥ २६॥ करेण चञ्चन्मणिकङ्कणेन दर्वी दधानां धवलान्नपूर्णाम् । कदावलोके करुणालवालां काशीपुरीकल्पलतां भवानीम् ॥ २७॥ या माणिक्यमनोज्ञहारविभुना (सहिता) सिन्दूरभासान्विता तारानायकशेखरा त्रिनयना पीनस्तनोद्भासिता । बन्धूकप्रसवारुणाम्बरधरा मार्ताण्डकोट्युज्ज्वला सा दद्याद्भुवनेश्वरी भगवती श्रेयांसि भूयांसि नः ॥ २८॥ माणिक्यनूपुरविभूषितपादपद्मां हस्तारविन्दकरुणारसपूर्णदर्वीम् । सन्ध्यारुणांशुकधरां नवचन्द्रचूडां मन्दस्मितां गिरिसुते भवतीं भजामि ॥ २९॥ इति श्रीदाक्षायणीस्तोत्रम् ।
પાઠ જપ: 0/108