சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

நீலகண்ட²ஶாஸ்த்ரிணா விரசிதம்ʼ க³ணேஶபூர்வஶதகம்

नीलकण्ठशास्त्रिणा विरचितं गणेशपूर्वशतकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
23px

श्रीगणेशपूर्वशतकम्

सत्यज्ञानानन्दं गजवदनं नौमि सिद्धिबुद्धीशम् । कुर्वे गणेशशतकं कुजुकेनाहं स्वबुद्धिशुद्धयर्थम् ॥ १॥ दिङ्मात्रेण गणपतेर्गुणगणविभवादिवर्णनारूपम् । प्रायो वैनायककृतिविदितमतपक्रियाविवृतिपूर्वम् ॥ २॥ यद्यपि मन्दमतिरहं गुणलवमवगन्तुमतितरां नालम् । प्रयते तथापि वदितुं लम्बोदर ते दयावलम्बेन ॥ ३॥ जगतः सर्गादाद्यात् प्रागप्येकस्त्वमेव भासि विभो । तस्माद्गणप भवन्तं निखिलनिदानं गदन्ति निगमान्ताः ॥ ४॥ त्वमतो मायातीतं सकलजगत्कल्पनाद्यधिष्ठानम् । अद्वैतसीमभूतं वाङ्मानसागोचरं परं ब्रह्म ॥ ५॥ सगुणब्रह्मात्मानो गणपतिशिवशक्तिकेशवार्का ये । तेषां कारणमाहुः शुद्धाद्वैतानुगा यमात्मानम् ॥ ६॥ यः सर्ववेदवेद्यस्तत्त्वमसिपदाद्यतीतरूपो यः । यो योगिवृन्दमृग्यः परमात्मानं तमाश्रये नित्यम् ॥ ७॥ यत्पूर्णयोगलभ्यं भूमात्मकमामनन्ति गाणपताः । शुद्धं स्वमहिमसंस्थं ब्रह्मास्मिन् मे मनः सदा स्मरताम् ॥ ८॥ भूमा ब्रह्मैतत् ते षष्ठं गणपं च पञ्चमं प्राहुः । तुर्यं गणेशमस्य हि कार्यान् सगुणात्मनोऽपि तान् पञ्च ॥ ९॥ तत्रोपासनकाण्डे परकाष्ठाभूतमसिपदार्थमयम् । स्वानन्दं ब्रह्मैतद्गजवदनमहं भजे जगद्वन्द्यम् ॥ १०॥ गाणपतपुङ्गवाः किल पादमयान्यस्य पञ्चमस्याहुः । शैवाद्वैतादीनां मुख्यब्रह्माणि यानि चत्वारि ॥ ११॥ अव्याकृतं तुरीयं ब्रह्म त्रिगुणात्मकं गुगणेशाख्यम् । विद्यात्मकं गणपते सततं दूरीकरोतु मम दुरितम् ॥ १२॥ यस्य हि नाभिर्ब्रह्मा वदनं विष्णुश्च लोचनं रुद्रः । शक्तिश्च वामपार्श्वं दक्षिणमर्कोऽस्मितामयस्त्वात्मा ॥ १३॥ जाग्रत्स्वप्नसुषुप्तब्रह्म त्रिगुणात्मकं च यत्प्रोक्तम् । व्याकृतमाविद्यकमपि तदपि व्यक्तं चकास्तु मे चित्ते ॥ १४॥ ब्रह्म स्वानन्दात्मकविद्याऽविद्यात्मकप्रभेदेन । भूमब्रह्म चतुष्पात् प्रकाशतां मेऽनिशं हृदाकाशे ॥ १५॥ मायासमरसयुक्तं शान्तिगतं निष्कलं परं ज्योतिः । यद्ब्रह्म पादरूपं गाणेशाद्वैतलक्ष्यभूतमसि ॥ १६॥ यो ब्रह्मपाद आद्यः संयोगायोगपादयुगयुक्तः तौ पादावप्युदितावध्यारोपापवादपरकाष्ठे । सदसत्सहजसमात्मकचतुर्विधानन्दपादरूपस्त्वं रविशक्तीशहरीणां सङ्घातस्त्वं श्रुतोऽसि गणराज ॥ १७॥ बिन्दुः सोऽहम्बोधः साङ्ख्यश्चेति प्रसिद्धभेदयुतः । विद्यापादोऽपि त्वं योगिसमाधौ गृहीतसुविशेषः ॥ १८॥ तुर्याविद्यापादस्त्वमेव सत्यानृतो जगद्रूपः । स विराट् हिरण्यगर्भावीशगुणेशाविति प्रभेदयुतः ॥ १९॥ ब्रह्मांशस्थितिभेदाः सर्वे चैते स्फुरन्तु मम चित्ते । प्रायोऽसम्प्रज्ञातसमाधिज्ञेया गणेश करुणाब्धे ॥ २०॥ सिद्धिर्बुद्धिश्चेति द्विधा हि वैनायकी महामाया । लोकैकनायिका सा तदुपाधिवशात् किलासि बहुधा त्वम् ॥ २१॥ एवं मायोपाधिकपरात्मरूपं हि पञ्चधा भिन्नम् । तददस्थागुणभेदान्नीरूपस्यापि ते समाम्नातम् ॥ २२॥ सद्ब्रह्म किल प्रथमं सकलजगद्वीजभूतरूपं त्वम् । मूर्तिं विनायक इति स्वेच्छावशतो गणेश गृह्णासि ॥ २३॥ बीजस्य भूमिरूपा केवलमायाद्वितीयमूर्तिस्ते । वर्तयति कृत्यमखिलं भुवनेशी सा शिवो पराशक्तिः ॥ २४॥ मायेशं तु तृतीयं रविमण्डलगं हिरण्मयं पुरुषम् । त्वामामनन्ति वेदा ह्यनवरतं कालचक्रनेतारम् ॥ २५॥ उपहिततुरीयमूर्तिर्मायायुक्तः परः शिवो गिरीशः । कल्पान्तकालरूपी त्वमेव सर्वं च सञ्जरीहर्षि ॥ २६॥ मायामयो हि विष्णुर्मायोपाधेश्च पञ्चमी मूर्तिः । सोऽपि त्वमेव निखिलं लोकं पालयसि लीलया सततम् ॥ २७॥ एवं मायावशतो रविशिवशक्त्यादिनामपञ्चकभाक् । दिशतु मदीप्सितमखिलं शुद्धब्रह्मात्मकं भवद्रूपम् ॥ २८॥ मायाबद्धः षष्ठः प्रथमशरीरी हिरण्यगर्भस्त्वम् । तत्तत्कर्मानुगुणं करोषि सर्गं समस्तलोकस्य ॥ २९॥ प्राक् पद्मासनरूपग्रहणाद्भवतोऽप्युपाधितो भिन्नाः । एताश्च सगुणमूर्तीरालम्ब्य मतानि पञ्च जातानि ॥ ३०॥ एते हि पञ्च देवाः स्वस्वाधारेषु सन्ति सर्वत्र । वर्णस्वधर्मविभवात्तेजोरूपास्त्रिवर्ण देहेषु ॥ ३१॥ गायत्रीग्रहणेन हि तत्ततेजो विशेषतो भाति । तत्तज्जातिगुणा अप्युत्कृष्टत्वेन तेन जायन्ते ॥ ३२॥ मूलाधारे गणपो मणिपूरे हरिरनाहते शम्भुः । राजति रविर्विशुद्धौ ब्रह्मसुरन्ध्र शिवा परा शक्तिः ॥ ३३॥ अपि च षडाधारेषु प्राप्यैवं ध्यानयोगचित्तलयौ । मुक्ता भवन्ति तस्मात् पञ्चायतनार्चनेऽतिहर्षस्ते ॥ ३४॥ गणपतिपञ्चायतनं पञ्चायतनं रवीश्वरादीनाम् । यद्वा तद्वा कृतमपि पूजाविषयेऽतिमात्रतृप्तिस्ते ॥ ३५॥ प्रासादशुद्धपूजा अत एव विहाय पञ्चदेवानाम् । पञ्चायतनसपर्यां सगुणसमष्टयर्चनां वदन्ति बुधाः ॥ ३६॥ हर्यादिगणेशान्ताः पञ्चैता ब्रह्ममूर्तयो मुनिभिः । अत एव प्रणवस्य च गायत्र्याश्चापि देवताः प्रोक्ताः ॥ ३७॥ व्याचक्षते हि ऋषयो गायत्र्याः पञ्चदेवतापराम् । प्रणवस्यापि तथैव प्रपञ्चयन्ति स्म पञ्चधाप्यर्थान् ॥ ३८॥ अत एषां पञ्चानां ब्रह्मत्वनिरूपणे निष्णाताः । उत्तरमीमांसाः षट् शुद्धाद्वैतेन तेनिरे मुनयः ॥ ३१॥ प्रतिपादयन्ति चैते यद्यप्यापाततो विभिन्नान् वै । सर्वेषां हि ऋषीणां प्रायस्त्वय्येव परमतात्पर्यम् ॥ ४०॥ एते पञ्च मतस्था भवतः सर्वेषु पूर्वपूज्यत्वम् । विग्नाधिपत्यमङ्गीकुर्वन्ति यतो गणाधिपत्यं च ॥ ४१॥ भूगतबीजादि यथा पादपरूपेण जायते जगति । ब्रह्मैव बीजभूतं प्रकृतिः पृथिवी तया हि संयोगात् ॥ ४२॥ कारणसूक्ष्मस्थूलप्रपञ्चरूपेण जायते क्रमशः । मूलं गणपतिरूपं प्रपश्चरूपस्य पादपस्यैवम् ॥ ४३॥ बुद्धिः सिद्धिश्च फले मूलं गणपोऽस्य विश्वरूपतरोः । शाखाः केशाः कन्दं त्वर्कोऽखिलमूलमुच्यसेऽतस्त्वम् ॥ ४४॥ सूले जलसेकात् किल तरुपत्रफलादयोऽपि वर्धन्ते । तव पूजया गणपते रविशिवशक्त्यादयोऽपि तृप्यन्ति ॥ ४५॥ एवं सगुणब्रह्मव्यपदेशवतां च पञ्च देवानाम् । पूर्णकलांशांशांशावताररूपाश्च मूर्तयोऽनन्ताः ॥ ४६॥ भवतः कतिपयमूर्तीराविर्भावावतारतारमुखाः । वैनायकमतविदितप्रक्रिययैव ब्रवीमि हेरम्ब ॥ ४७॥ सत्यं ज्ञानमनन्तं ज्योतीरूपं च निर्गुणं ब्रह्म । एतन्निर्व्यापारं गजपदवाच्यं लयादिहेतुत्वात् ॥ ४८॥ योगीन्द्रा गच्छन्ति हि समाधिनात्रेति गः स्मृतो मुनिभिः । प्रणवात्मकजगदस्माज्जायत इति जः स्मृतिप्रतीतार्थः ॥ ४९॥ गश्वासौ जश्चेति व्युत्पादयति स्मृतिर्हि गजशब्दम् । एष प्रतिपदायति प्रभवाप्ययकारणं परं ब्रह्म ॥ ५०॥ मूलप्रकृतिस्त्रिगुणा शुक्तौ रजतं यथा ततो जाता । तद्गतचित्प्रतिबिम्बं सगुणब्रह्मेति कीर्तितं मुनिभिः ॥ ५१॥ ओङ्कारब्रह्मेति च नर इति नाम्नी प्रकीर्तिते तस्य । सकलज्योतीरूपं सगुणस्योक्तं हि तत्त्वविद्वद्भिः ॥ ५२॥ मूलाविद्यागतनरमद्वैतब्रह्मरूपमपि बिभ्रत् । निर्गुणसगुणज्योतीरूमुभयथा तृतीयमप्युक्तम् ॥ ५३॥ अद्वैत इति सदात्मेत्याम्नायन्ते तथा महावाक्याः । इत्युक्तानि क्रमतो नामान्येषां स्मृतीतिहासादौ ॥ ५४॥ नरवाच्यसकलरूपो गजवाच्यो निष्कलस्वरूपस्त्वम् । विग्नेश सकलनिष्कलरूपमहावाक्यमूर्तिधारी त्वम् ॥ ५५॥ ओं तत्सदिति हि भेदाद्ब्रह्म प्रोक्तं त्रिधा सुधीभिरपि । प्रथितं मूर्तमर्म्तं मूर्तामूर्तं त्रिधा तदेवमपि ॥ ५६॥ नामान्तराणि सर्वाण्येतान्युदितानि वेदशीर्षेषु । कमलावल्लभ भवतः पूर्वोक्तत्रिविधरूपधारयितुः ॥ ५७॥ अपि चान्यानि गणपते नामानि सहस्रशः प्रसिद्धानि । कर्मज्ञानोपासनकाण्डेषु पृथग्विनायकादीनि ॥ ५८॥ निर्गुणरूपध्यानं न साधकाला प्रसिध्यति क्षिप्रम् । तदनुग्रहाय धरसे (धत्से)धीपरिपाकानुरूपरूपाणि ॥ ५९॥ मन्दाधिकारिणामपि यथा रुचिः स्यात्तदानुगुण्येन । विग्रहवरा गृहीताः सर्वे ते मां सदानुगृह्णन्तु ॥ ६०॥ कैलासे वैकुण्ठे हिरण्मयपुरे च या मणिद्वीपे । पूज्यन्तेऽनयस्मिन् वा सर्वा मूर्तीश्च तास्तवोपासे ॥ ६१॥ अष्टोत्तरं शतं वा सहस्रमत्यष्ट मधिका श्च मूर्तयो वा ते । मुख्यत्वेन ख्याताः खेलन्त्वखिलाः सदा मम स्वान्ते ॥ ६२॥ काश्चन पत्नीहीना बहुशक्तियुताश्च मूर्तयः काश्वित् । पान्त्वेकदन्त भवतोऽप्येकत्यष्टादिशक्तयः सर्वाः ॥ ६३॥ बहुफलपुष्पमही रुहनिकरारामं निघाटितकवाटम् । आरामेशसमीपे निष्ठन् कृत्वाह्यारामेशितृसविधे यथोपवनपालः (?) ॥ ६४॥ नोद्धाटयति कवाटं स्वाम्यादेशं विना प्रवेशाय । तद्वन्नोद्घाटयति स्वाधिष्ठानादि निजकवाटानि ॥ ६५॥ सर्वशरीरिशरीरे मूलाधारस्थिता हि कुण्डलिनी । (मूलाधारस्थकुण्डलिनीशक्तिः) आवृत्य षडाधारान् मृद्भाण्डमिवास्ति मूलवह्नेर्या ॥ ६६॥ यद्वच्छमीद्रुमेऽग्निस्तद्वन्मूलानले भवान गणेशो स्ति । तत्रत्यसिद्धिबुद्धथाद्धि युतभवदाज्ञां गणपाज्ञां विना कदाचिदपि ॥ ६७॥ यदि तव पूजा क्रियते विनायकोद्घाटिताः षडाधाराः । अत एव पूर्वपूज्यः सर्वा कर्मा स्म्भेत्वमेव देवाद्यैः ॥ ६८॥ शुक्लाम्बरेतिमन्त्रं प्रोच्चार्य चतुर्मुखादयोऽपि त्वाम् । श्वेतविनायकमूर्तिं ध्यात्वा कुर्वन्ति कुट्टनं मुष्टया ॥ ६९॥ सर्वशरीरिशिरस्था मूर्धनि करकुट्टनात् सुधा गलिता । पतति सुषुम्नानाडिद्वारा मूलादुपर्युपोद्गतया ॥ ७०॥ सिद्धथा बुद्धथा च युते मूलाधारस्थगणपतौ भवति । तेन प्रसीदति भवान् करोति कर्मार्हमन्तरात्मानम् ॥ ७१॥ तादृशकुट्टनतुष्टं श्वेतविनायकमनारतं कलये । पीयूषमथनसमये पुरुहूतमुखैश्च पूजितो योऽभूत् ॥ ७२॥ भवतस्तेजोरूपं नरामराद्यैर्न शक्यते द्रष्टुम् । अत एव नयनविषयं गृह्णासि त्वं गजाननशरीरम् ॥ ७३॥ नृगजात्मकरूपत्वान्निर्गुणसगुणस्वरूपवत्त्वाच्च । हेलम्बोदर स्यादेकदन्त भवतो गजाननाख्या सुविश्रुताम्नाये ॥ ७४॥ गजपदवाच्यं हि मुखं प्रथमं कार्यं हि यस्य देवस्य । अत एव वा स कथितो गजमुखनामेति मन्वते मुनयः ॥ ७५॥ त्यक्त्वा मायावदनं गजवदनं निर्गुणं दधौ देवः । यो लीलया गणेशस्तं त्वां शरणं सदा प्रपत्येऽहम् ॥ ७६॥ विगतो नायक इति सा विनायकाख्या श्रुतौ समाम्नाता । सर्वेषां हि विशेषान्नायक इत्यप्यभिप्रयन्त्यर्थम् ॥ ७७॥ विग्नोऽभिहितो जगतां सामर्थ्यस्य हि विशेषतो हननात् । उक्तः स एव कालस्तन्नाथत्वात् त्वमेव विग्नेशः ॥ ७८॥ जीवेश्वरा हि वशगा भवन्ति कालात्मनः परेशस्य । तदधीश्वरस्य भवतो विग्नेशत्वे किमस्ति वक्तव्यम् ॥ ७९॥ सर्वब्रह्माण्डानां स्वतन्त्रदेवो विनायको राजा । राजप्रतिनिधिरर्कः सहायभूता शिवा महाराज्ञी ॥ ८०॥ सृष्टिस्थितिसंहारान् कर्तारो धातृहरिगिरीशाश्च । राज्याधिकारसचिवाः सन्ति भवानी दिवाकराद्याश्च ॥ ८१॥ यद्राज्यरक्षणायैतत्सेनापतितां गुहो महासेनः । तज्ज्येष्टराजनामा गजाननोऽभूदितीरितं मुनिभिः ॥ ८२॥ यस्य ज्येष्ठाभावाज्येष्ठत्वादपि च राजभाववताम् । तज्ज्येष्ठराजनाम प्रोक्तं स सदा विराजतां चित्ते ॥ ८३॥ यस्योदरमवलम्बश्वराचराणां हि सर्वजन्तूनाम् । मातापितरावपि प्रलये स्थित्यादावपि जन्मादावपि यः सदैव लम्बोदरं तमवलम्बे ॥ ८४॥ शूर्पस्तुषमिव कलुषं निरस्यतीत्यस्य । (शूर्पकर्णाख्या कर्णादस्यति हि शूर्पकर्णोऽतः) विगलितरजस्तमोमलमतिपूतं मां करोतु स गणेशः ॥ ८५॥ ब्रह्मात्ममस्तकत्वात् कण्ठाधो मायिकस्वरूपत्वात् । वक्रं देहविलक्षणमस्य तु तुण्डं स वक्रतुण्डोऽतः ॥ ८६॥ मायावाचक एकः दन्तः सत्तात्मवाचकश्च तयोः । योगो गणेश इत्यत उक्तोऽसावेकदन्ताम्नापि ॥ ८७॥ ब्रह्मात्मनां पतित्वान्मायागौरीमहेश्वरादीनाम । अन्नप्राणप्रभृतिप्रणवान्तब्रह्मणां पतित्वाच्च ॥ ८८॥ यं ब्रह्मणम्पतिरिति प्राहुर्वेदाधिपत्यतोऽप्येवम् । तमहं सर्वाधीशं सततं परिशीलयामि विघ्नेशम् ॥ ८९॥ ब्रह्मादिस्तम्बान्तप्राणिगणानामधीश्वरो यतः । सगुणब्रह्मगणानामपि तस्मात् त्वं गणेश इत्युक्तः ॥ ९०॥ यन्नामरूपभोगान् मायागूढोऽन्तरेव मुष्णाति । तन्मूषकः स्ववाहो यस्य स गणपो विहरतु मम मनसि ॥ ९१॥ मूलप्रकृतिः पत्नी जहाति चैनां तु भुक्तभोगां यः । पत्नीहीनोऽभिहितस्ततो गजास्योऽनिशं स मां पातु ॥ ९२॥ ब्रह्मणि वेदे चरतीत्यर्थमभिप्रेत्य वेदगम्यत्वात् । तं ब्रह्मचारिशब्दं कुञ्जरवदने प्रयुञ्जते कवयः ॥ ९३॥ ब्रह्मात्ममस्तकत्वात्तस्य महावाक्यगणपतेश्व विभोः । तेन च सहसञ्चारादाहुर्वा ब्रह्मचारीति ॥ ९४॥ आत्मारामत्वादपि चरति ब्रह्मण्यबाह्यवृत्तिरिति । यमिहामनन्ति मुनयः पायात्स ब्रह्मचारिदेवो गणपो माम् ॥ ९५॥ सन् द्वापरे पराशरपुत्रः सिन्दूरदानवं न्यवधीत् । यद्ब्रह्मचर्यवर्ती गदितोऽतो ब्रह्मचारिशब्देन ॥ ९६॥ विमलकमण्डलुतटिनीतीरमयूरेशनगरवर्ये यः । भूस्वानन्दे सुचिरादाविर्भूतोऽद्भुतानि कृत्यानि ॥ ९७॥ लोकानुकूलभूतान् सिन्धुवधादींश्च बहुविधान् व्यदधात् । निखिलानुग्रहनिरतः सततं द्वैमातुरः स मां पायात् ॥ ९८॥ यत्कोपपावकार्चिष्यसुरौ चण्डप्रचण्डनामानौ । प्राप्तौ पतङ्गभावं पालयतु स मां सदैव विघ्नेशः ॥ ९९॥ यश्चाष्टगन्धनिर्मितचन्दनगणपो पुरा भृगोः सुतया । रमया प्रपूजितः सन् विवाहसमये पुराणपुरुषस्य ॥ १००॥ दुर्गन्धासुरमवधीन्मधुकैटभमेदसः समुद्भूतम् । योऽपि च गव्यगणपतिर्महितो गोलोकराधया पूर्वम् ॥ १०१॥ गव्यैः पयोदधिघृतैर्जघान पापासुरं दुरात्मानम् । वरिवस्याम्यनवरतं तं विघ्नेशं दयापयोराशिम् ॥ १०२॥ यं हारिद्रगणपतिं हिमवद्दुहिता महेश्वरश्चापि । स्वीये विवाहसमये ह्यपूजयेतां च दम्पती प्राञ्चौ ॥ १०३॥ यश्च हरिद्राबिम्बादाविर्भूतो गणेश्वरः सद्यः । अवधीदमङ्गलासुरमन्यमपरमारनामकं ह्यसुरम् ॥ १०४॥ गौरीहरवचनाद्यं च शुभादौ प्रपूजयन्त्यद्य । मम हारिद्रगणपतिर्हरतु स दुरितं समस्तमपि सद्यः ॥ १०५॥ कृतयुगसमये योऽसौ काश्यपपुत्रो महोत्कटो भूत्वा । देवान्तकं नरान्तकमपि नाम्ना तावहन्महादुष्टौ ॥ १०६॥ प्रापयदानन्दभुवं सशरीरं काशिराजमपि भक्तम् । अकरोच्चाद्भुतलीलामहोत्कटं त्वामहं सदार्हामि ॥ १०७॥ योऽपि वरेण्याय पुरा गणेशगीतां हितामुपदिदेश । स वरेण्यराजपुत्रो गजाननो मे तनोतु कुशलततिम् ॥ १०८॥ धूम्रविनायकमूर्तिं ग्रहीष्यसि त्वं कलेर्युगस्यान्ते । सर्वांश्च निग्रहिष्यसि विप्लुतमतकृत्यनास्तिकप्रायान् ॥ १०९॥ शिश्नोदरमात्रपरा जातिविभागादिवर्जिताः सर्वे । धूम्रविनायक (धूमध्वजेन) भवता समूलघातं हता भविष्यन्ति ॥ ११०॥ ॥ इति श्रीविद्वद्रत्नोपनामकेन वैयाकरणशिरोमणिना वैदिकषड्दर्शनीसारवेदिना नीलकण्ठशास्त्रिणा विरचितं गणेशपूर्वशतकम् ।
ஜப எண்ணிக்கை: 0/108