சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

க³ணேஶப்ரார்த²னா

गणेशप्रार्थना
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 5
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

श्री गणेश प्रार्थना

श्रीविनायको विजयतेराम् । आनन्दरूप करुणाकर विश्वबन्धो सन्तापचन्द्र भववारिधिभद्रसेतो । हे विघ्नमृत्युदलनामृतसौख्यसिन्धो श्रीमन्विनायक तवाङ्घ्रियुगं नतास्स्मः ॥ १॥ यस्मिन्न जीवजगदादिकमोहजालं यस्मिन्न जन्ममरणादिभयं समग्रम् । यस्मिन्सुखैकधनभूम्नि न दुःखमीषत् तद्ब्रह्म मङ्गलपदं पव संश्रयाम्ः ॥ २॥ विद्यावतार तव कोशशुभोदयो यः भास्वत्सुखोदयवदेव तमोनुदस्स्यात् । आनन्दमात्रनिजरूपपदं वितन्वन् राराजतां भुवि सदैव सुखैकधामन् ॥ ३॥ हे भक्तवत्सल तवैव कृपाब्धिजातः त्वक्कोशकल्पतरुरत्र शुभं तनोतु । त्वत्प्रीतिभाक् तव कुपापरिपोषितोऽयं त्वत्पादकञजयुगले सुसमर्पितोऽस्तु ॥ ४॥ नित्यं समाधिकुसुमार्चितपादपद्म आम्नायदीपपरिशोभितदिव्यगात्र । सन्मङगलानि विदधत्परमोक्षदो यः नित्यं चकास्तु भुवि वैदिकविश्वधर्मः ॥ ५॥ इति श्री श्रीधरस्वामीविरचिता गणेशप्रार्थना
ஜப எண்ணிக்கை: 0/108