সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

দেবর্ষিভিঃ প্রোক্তা বিঘ্নরাজস্তুতিঃ

देवर्षिभिः प्रोक्ता विघ्नराजस्तुतिः
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px

विघ्नराजस्तुतिः

कश्यप उवाच - ममासुरं शान्तियुतं वीक्ष्य देवाः सुहर्षिताः । प्रणम्य मुनिसंयुक्ताः पुपूजुर्विघ्ननायकम् ॥ १॥ पूज्यं तं हृष्टरोमाणः पुनः प्रणम्य भावतः । तुष्टुवुर्विघ्नराजं ते बधाअजलय आदरात् ॥ २॥ देवर्षय ऊचुः साम्यस्वरूपं द्विविधेषु संस्थं द्वन्द्वैर्विहीनं परमार्थभूतम् । आनन्दनाथं निजभक्तपोषं तं विघ्नराजं सततं भजामः ॥ ३॥ सर्वात्मकं बिम्बं अथो विधाय तेनैव द्वन्द्वं रचितं गणेश ! । सत्यस्वरूपं च परं ह्यसत्यं तं विघ्नराजं सततं भजामः ॥ ८॥ भेदैर्विहीनं परं अप्रमेयं साक्षिमयं कृत्य विनायकत्वम् । तत्रैव नित्यं समभावसंस्थस्तं विघ्नराजं सततं भजामः ॥ ५॥ दुण्ढे! त्वया भेदयुतं द्वितीयं सृष्टं परं ब्रह्म विहारदं च । उत्थानरूपं त्वं अपि प्रसंस्थस्तं विघ्नराजं सततं भजामः ॥ ६॥ त्वन्मायया मोहयुते परेशे अन्योन्यं आदौ मिलिते प्रकाशिन्! । तत्र स्थितस्त्वं च विमोहशून्यस्तं विघ्नराजं सततं भजामः ॥ ७॥ त्वत्प्रेरितं द्वन्द्वमयं परं च सोऽहं तथा बिन्दुमयं चकार । तत्स्थः समत्वेन विहारकारिंस्तं विघ्नराजं सततं भजामः ॥ ८॥ ताभ्यां मिलित्वा रचितं गणेश! विश्वं चतुष्पादमयं पुराणम् । तत्रैव ते नाथ! प्रकाशभावस्तं विघ्नराजं सततं भजामः ॥ ९॥ एवं स्वतोत्थानबलेन कृत्वा साम्यस्वरूपेण विहारकारिण्! । तद्भावशून्योऽसि जगानन! त्वं तं विघ्नराजं सततं भजामः ॥ १०॥ एवं परेशाधिपतेन सृष्टं त्वं तादृशो नो गणराज! भासि । साङ्क्य्स्वरूपं प्रवदन्ति वेदास्तं विघ्नराजं सततं भजामः ॥ ११॥ दोषैर्विहीनं प्रवदन्ति साङ्ख्यं तस्मान्न विघ्नेश्वर ! साङ्क्युसंस्थः । उत्थानहीनो न भवेः कदापि तं विघ्नराजं सततं भजामः ॥ १२॥ स्वानन्दवासी गणनायकस्त्वं आनन्दरूपोऽसि वदन्ति वेदाः । द्वन्द्वप्रकाशश्च तदात्मशून्यः तं विघ्नराजं सततं भजामः ॥ १३॥ नित्यं मनोवाक्प्रभवैश्च हीनः साम्यात्मकेनैव सुयोगकेन । लक्ष्यः सदानन्दघनप्रकाशतं विघ्नराजं सततं भजामः ॥ १४॥ स्तोतुं न शक्ताः प्रभवन्ति वेदा हेरम्बं आद्यं प्रणमामहे त्वाम् । तेनैव तुष्टो भव देवदेव! तं विघ्नराजं सततं भजामः ॥ १५॥ सर्वात्मकं त्वां प्रवदन्ति सर्वे योगीन्द्र मुख्याः प्रभुदासभूताः । तत्रैव ते ध्यानं अपारं एवं विघ्नराजं सततं भजामः ॥ १६॥ तेषां मनोभक्तिभवं च भावं संरक्षणार्थं वपुषा प्रयुक्तः । तत्रैव भक्तिं कुरुते सुभक्तस्तं विघ्नराजं सततं भजामः ॥ १७॥ देहस्त्रसद्गह्ममयश्च तेऽयं सद्गूपतुण्डं गजवाचकं ते । योगे तयोस्त्वं च विभासि देवस्तं विघ्नराजं सततं भजामः ॥ १८॥ कर्याननं त्वां प्रवदन्ति तेन सन्तह् सदा योगमयं हृदिस्थम् । सिद्धिप्रदं बुद्धिप्रचालकं वै तं विघ्नराजं सततं भजामः ॥ १९॥ ब्रह्माऽहं एवं मदधीनकं च विश्वादिकं ब्रह्मगणा वदन्ति । त्वन्मायया मोहितचेतसस्ते तं विघ्नराजं सततं भजामः ॥ २०॥ सत्ताविहीनान् प्रकरोषि तांस्त्वं विघ्नप्रदानेन महानुभाव ! । स्वार्थैर्विहीनाः प्रभवन्ति पूर्णास्तं विघ्नराजं सततं भजामः ॥ २१॥ अङ्गिं पुनस्ते शरणाश्रितास्ते विघ्नेन हीनाः प्रभवो भवन्ति । विघ्नेशनामाऽसि ततस्त्वं एव तं विघ्नराजं सततं भजामः ॥ २२॥ एतादृशं विघ्नपतिं कथं वै स्तोतुं वयं योगमयं भवामः । वेदा न शक्ता मनसा ह्यलभ्यं तं विघ्नराजं सततं भजामः ॥ २३॥ विघ्नेश उवाच - भवत्कृतं इदं स्तोत्रं भवेत् सर्वार्थदायकम् । यः पठेच्छृणुयाद्वाऽपि स सर्वं प्राप्नुयात् परम् ॥ २६॥ विद्यामायुर्धनं धान्यं यशो धर्म तथार्थकम् । कामं मोक्षं ब्रह्मभूयं दास्यामि स्तोत्रपाठतः ॥२७॥ पुत्रपौत्रादिकं सौख्यमारोग्यादिसमन्वितम् । विजयं जयकाले च स्तोत्रपाठाल्लभेन्नरः ॥२८॥ मारणोच्चाटनायं चानेन सिद्धं भविष्यति । परकत्यप्रशमनं भवेच्च मरणादिकम् ॥२०॥ कारागृहादिजा पीडा नश्येदनेन निश्चितम् । सहस्रावर्तनाद्देवा मुनयो नाऽत्र संशयः ॥३०॥ एकविंशतिवारं चैकविंशति दिनानि च । पठेद्वा श‍ृणुयात् सोऽपि मनसीप्सितमाप्नुयात् ॥३१॥ मद्भक्तिवर्धनं चेदं भविष्यति निरन्तरम् । अपराधादिकस्याऽपि नाशकं चास्तु सर्वदा ॥३२॥ इति देवर्षिभिर्प्रोक्ता विघ्नराजस्तुतिः
পাঠ জপ: 0/108