সনাতন স্তোত্র মঞ্জরী
শ্রীগণেশ
সনাতন দেব

দেবর্ষিভিঃ প্রোক্তা বিকটস্তুতিঃ

देवर्षिभिः प्रोक्ता विकटस्तुतिः
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 4
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
14px

विकटस्तुतिः

आदिशक्तिरुवाच कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्यं तुष्टुवुः करसम्पुटाः ॥ १॥ देवर्षय ऊचुः अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ २॥ अनादिमध्यान्तविवर्जितं यत्सुजीवनं जीवनधर्मधारम् । सदाऽमृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ ३॥ त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् । बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥ ४॥ तथा ह्यसद्रूपमयं च साङ्ख्यं कृतं तथा ब्रह्म सुबोधरूपम् । अनन्तभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥ ५॥ ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् । जगद्वरं बिन्दुमयं तथा वै भजामहे तं विकटं परेशम् ॥ ६॥ जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् । अजेषु सञ्जीवनदं गणेशं भजामहे तं विकटं परेशम् ॥ ७॥ ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ! । अनन्तलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥ ८॥ अजैर्विहीनोऽसि गजानन! त्वं तथाऽपि सर्वत्र विभासि भक्त्या । अतो गणेशं विकटं वदन्ति भजामहे तं विकटं परेशम् ॥ ९॥ हरिस्वरूपेण विनायक! त्वं सुरक्षसीदं रजसा विधाता । तथा तमोयुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥ १०॥ प्रसृष्टकर्माणि तदन्तरस्थोर्यमाऽसि सञ्जीवनरूपकेण । क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥ ११॥ सदात्मरूपेण च ढुण्ढिराज! स्थितोऽसि विश्वम्भर विश्वमूर्ते! । न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥ १२॥ सदाऽऽदिपूज्यं सकलैः सुवन्द्यं गणेशसिद्धिप्रदमासमन्तात् । सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥ १३॥ स्वानन्दनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् । महोदरं चैकरदं विभूपं भजामहे तं विकटं परेशम् ॥ १४॥ स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च । अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥ १५॥ नियन्तृरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो! । महाङ्कुशं ह्यङ्कुशधारमेकं भजामहे तं विकटं परेशम् ॥ १६॥ भ्रमात्मकं बन्धनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् । स्वभक्तिकृद्वन्धनहानिकारं भजामहे तं विकटं परेशम् ॥ १७॥ त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च । प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥ १८॥ निजामृतं विघ्नपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् । सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥ १९॥ असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशान्तिसंस्थम् । अतो वदन्ते विकटं जनास्त्वां भजामहे तं विकटं परेशम् ॥ २०॥ वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च । शुकादिभिः स्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥ २१॥ तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश! सुसंस्तुतोऽसि । अतः प्रतुष्टो भव दीनपाल! भजामहे तं विकटं परेशम् ॥ २२॥ विकट उवाच - इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् । भविष्यति जनायैव पठते श‍ृण्वते परम् ॥ २६॥ भक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् । धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥ २७॥ षट्कर्मसाधनकरं परकृत्यविनाशनम् । नानारोगहरं पूर्ण भविष्यति सुसेविनाम् ॥२८॥ कारागृहगतानां च बन्धमोक्षकरं भवेत् । सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥२९॥ नानापापसमूहानां दाहकं पठनात्तथा । सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥३०॥ एकविंशतिवारं यः पठिष्यति निरन्तरम् । स सर्व साधयेत् सद्यो दिनानामेकविंशतिम् ॥३१॥ इति देवर्षिभिर्प्रोक्ता विकटस्तुतिः 
পাঠ জপ: 0/108