సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

శ్రీఏకార్ణగణేశత్రిశతీ

श्रीएकार्णगणेशत्रिशती
రచయిత: పారంపరిక వీక్షణలు: 3
23px
श्रीएकार्णगणेशत्रिशती श्रीदेव्युवाच - एकार्णस्य त्रिंशतीं ब्रूहि गणेशस्य महेश्वर ॥ श्रीशिव उवाच - ॥ विनियोगः ॥ हरिः ॐ । अस्य श्रीएकार्णगणेशत्रिशतीस्तोत्रमहामन्त्रस्य श्रीगणको ऋषिः । अनुष्टुप्छन्दः । ब्रह्मणस्पतिर्देवता । गं बीजम् । श्र्यों शक्तिः । श्रीएकार्णगणेशप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ॥ ध्यानम् ॥ ध्यायेन्नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रं एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् । शुण्डादण्डाढ्यगण्डोद्गलितमदजलोल्लोलमत्तालिमालं श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥ ॥ पञ्चपूजा ॥ ॐ लं पृथिव्यात्मने गन्धं समर्पयामि । ॐ हं आकाशात्मने पुष्पैः पूजयामि । ॐ यं वाय्वात्मने धूपमाघ्रापयामि । ॐ रं वह्न्यात्मने दीपं दर्शयामि । ॐ वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । ॐ सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥ ॥ अथ एकार्णगणेशत्रिशती ॥ गंबीजमन्त्रनिलयो गंबीजो गंस्वरूपवान् ॥ १॥ गंकारबीजसंवेद्यो गंकारो गंजपप्रियः ॥ २॥ गंकाराख्यपरंब्रह्म गंकारशक्तिनायकः । गंकारजपसन्तुष्टो गंकारध्वनिरूपकः ॥ ३॥ गंकारवर्णमध्यस्थो गंकारवृत्तिरूपवान् । गंकारपत्तनाधीशो गंवेद्यो गंप्रदायकः ॥ ४॥ गंजापकधर्मदाता गंजापीकामदायकः । गंजापीनामर्थदाता गंजापीभाग्यवर्द्धनः ॥ ५॥ गंजापकसर्वविद्यादायको गंस्थितिप्रदः । गंजापकविभवदो गंजापकजयप्रदः ॥ ६॥ गंजपेनसन्तुष्ट्य भुक्तिमुक्तिप्रदायकः । गंजापकवश्यदाता गंजापीगर्भदोषहा ॥ ७॥ गंजापकबुद्धिदाता गंजापीकीर्तिदायकः । गंजापकशोकहारी गंजापकसुखप्रदः ॥ ८॥ गंजापकदुःखहर्ता गमानन्दप्रदायकः । गंनामजपसुप्रीतो गंजापीजनसेवितः ॥ ९॥ गंकारदेहो गंकारमस्तको गंपदार्थकः । गंकारशब्दसन्तुष्टो गन्धलुभ्यन्मधुव्रतः ॥ १०॥ गंयोगैकसुसंलभ्यो गंब्रह्मतत्त्वबोधकः । गंभीरो गन्धमातङ्गो गन्धाष्टकविराजितः ॥ ११॥ गन्धानुलिप्तसर्वाङ्गो गन्धपुण्ड्रविराजितः । गर्गगीतप्रसन्नात्मा गर्गभीतिहरः सदा ॥ १२॥ गर्गारिभञ्जको नित्यं गर्गसिद्धिप्रदायकः । गजवाच्यो गजलक्ष्यो गजराट् च गजाननः ॥ १३॥ गजाकृतिर्गजाध्यक्षो गजप्राणो गजाजयः । गजेश्वरो गजेशानो गजमत्तो गजप्रभुः ॥ १४॥ गजसेव्यो गजवन्द्यो गजेन्द्रश्च गजप्रभुः । गजानन्दो गजमयो गजगञ्जकभञ्जकः ॥ १५॥ गजात्मा गजमन्त्रात्मा गजज्ञानप्रदायकः । गजाकारप्राणनाथो गजानन्दप्रदायकः ॥ १६॥ गजको गजयूथस्थो गजसायुज्यकारकः । गजदन्तो गजसेतुः गजदैत्यविनाशकः ॥ १७॥ गजकुंभो गजकेतुः गजमायो गजध्वनिः । गजमुख्यो गजवरो गजपुष्टिप्रदायकः ॥ १८॥ गजमयो गजोत्पत्तिः गजामयहरः सदा । गजहेतुर्गजत्राता गजश्रीः गजगर्जितः ॥ १९॥ गजास्यश्च गजाधीशो गजासुरजयोद्धुरः ॥ २०॥ गजब्रह्मा गजपतिः गजज्योतिर्गजश्रवाः । गुणेश्वरो गुणातीतो गुणमायामयो गुणी ॥ २१॥ गुणप्रियो गुणांभोधिः गुणत्रयविभागकृत् । गुणपूर्णो गुणमयो गुणाकृतिधरः सदा ॥ २२॥ गुणभाग्गुणमाली च गुणेशो गुणदूरगः । गुणज्येष्ठोऽथ गुणभूः गुणहीनपराङ्मुखः ॥ २३॥ गुणप्रवणसन्तुष्टो गुणश्रेष्ठो गुणैकभूः । गुणप्रविष्टो गुणराट् गुणीकृतचराचरः ॥ २४॥ गुणमुख्यो गुणस्रष्टा गुणकृद्गुणमण्डितः । गुणसृष्टिजगत्सङ्घो गुणभृद्गुणपारदृक् ॥ २५॥ गुणाऽगुणवपुर्गुणो गुणेशानो गुणप्रभुः । गुणिप्रणतपादाब्जो गुणानन्दितमानसः ॥ २६॥ गुणज्ञो गुणसंपन्नो गुणाऽगुणविवेककृत् । गुणसञ्चारचतुरो गुणप्रवणवर्द्धनः ॥ २७॥ गुणलयो गुणाधीशो गुणदुःखसुखोदयः । गुणहारी गुणकलो गुणतत्त्वविवेचकः ॥ २८॥ गुणोत्कटो गुणस्थायी गुणदायी गुणप्रभुः । गुणगोप्ता गुणप्राणो गुणधाता गुणालयः ॥ २९॥ गुणवत्प्रवणस्वान्तो गुणवद्गौरवप्रदः । गुणवत्पोषणकरो गुणवच्छत्रुसूदनः ॥ ३०॥ गुरुप्रियो गुरुगुणो गुरुमायो गुरुस्तुतः । गुरुवक्षा गुरुभुजो गुरुकीर्तिर्गुरुप्रियः ॥ ३१॥ गुरुविद्यो गुरुप्राणो गुरुयोगप्रकाशकः । गुरुदैत्यप्राणहरो गुरुबाहुबलोच्छ्रयः ॥ ३२॥ गुरुलक्षणसंपन्नो गुरुमान्यप्रदायकः । गुरुदैत्यगळच्छेत्ता गुरुधार्मिककेतनः ॥ ३३॥ गुरुजङ्घो गुरुस्कन्धो गुरुशुण्डो गुरुप्रदः । गुरुपालो गुरुगळो गुरुप्रणयलालसः ॥ ३४॥ गुरुशास्त्रविचारज्ञो गुरुधर्मधुरन्धरः । गुरुसंसारसुखदो गुरुमन्त्रफलप्रदः ॥ ३५॥ गुरुतन्त्रो गुरुप्रज्ञो गुरुदृग्गुरुविक्रमः । ग्रन्थगेयो ग्रन्थपूज्यो ग्रन्थग्रन्थनलालसः ॥ ३६॥ ग्रन्थकेतुर्ग्रन्थहेतुर्ग्रन्थाऽनुग्रहदायकः । ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥ ३७॥ ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः । ग्रन्थकेतुर्ग्रन्थसेतुर्ग्रन्थसन्देहभञ्जकः ॥ ३८॥ ग्रन्थपारायणपरो ग्रन्थसन्दर्भशोधकः । गीतकीर्तिर्गीतगुणो गीतातत्त्वार्थकोविदः ॥ ३९॥ गीतासंशयसंछेत्ता गीतासङ्गीतशासनः । गताहङ्कारसञ्चारो गतागतनिवारकः ॥ ४०॥ गतासुहृद्गताज्ञानो गतदुष्टविचेष्टितः । गतदुःखो गतत्रासो गतसंसारबन्धनः ॥ ४१॥ गतगल्पनिर्गतभवो गततत्त्वार्थसंशयः । गयानाथो गयावासो गयासुरवरप्रदः ॥ ४२॥ गयातीर्थफलाध्यक्षो गयावासीनमस्कृतः । गयामयो गयाक्षेत्रो गयायात्राफलप्रदः ॥ ४३॥ गयावासीस्तुतगुणो गयाक्षेत्रनिवासकृत् । गायकप्रणयी गाता गायकेष्टफलप्रदः ॥ ४४॥ गायको गायकेशानो गायकाऽभयदायकः । गायकप्रवणस्वान्तो गायकोत्कटविघ्नहा ॥ ४५॥ गन्धानुलिप्तसर्वाङ्गो गन्धर्वसमरक्षमः । गच्छधाता गच्छभर्ता गच्छप्रियकृतोद्यमः ॥ ४६॥ गीर्वाणगीतचरितो गृत्समाऽभीष्टदायकः । गीर्वाणसेवितपदो गीर्वाणफलदायकः ॥ ४७॥ गीर्वाणगणसंपत्तिः गीर्वाणगणपालकः । ग्रहत्राता ग्रहासाध्यो ग्रहेशानो ग्रहेश्वरः ॥ ४८॥ गदाधरार्चितपदो गदायुद्धविशारदः । गुहाग्रजो गुहाशायी गुहप्रीतिकरः सदा ॥ ४९॥ गिरिव्रजवनस्थायी गिरिराजजयप्रदः । गिरिराजसुतासूनुः गिरिराजप्रपालकः ॥ ५०॥ गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा । गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ॥ ५१॥ गणकप्रवणस्वान्तो गणकप्रणयोत्सुकः । गळलग्नमहानादो गद्यपद्यविवेचकः ॥ ५२॥ गळकुष्ठव्यधाहर्ता गळत्कुष्ठिसुखप्रदः । गर्भसन्तोषजनको गर्भामयनिवारकः ॥ ५३॥ गुरुसन्तापशमनो गुरुराज्यसुखप्रदः । ॥ फलश्रुतिः ॥ इत्थं देवी गजास्यस्य नाम्नां त्रिशतमीरितम् ॥ ५४॥ गकारादिजगीवन्द्यं गोपनीयं प्रयत्नतः । नास्तिकाय न वक्तव्यं शठाय गुरुविद्विषे ॥ ५५॥ वक्तव्यं भक्तियुक्ताय शिष्याय गुणशालिने । चतुर्थ्यां भौमवारे वा यः पठेद्भक्तिभावतः ॥ ५६॥ यं यं कामं समुद्दिश्य त्रिसन्ध्यं वा सदा पठेत् । तं तं काममवाप्नोति सत्यमेतन्न संशयः ॥ ५७॥ नारी वा पुरुषो वापि सायं प्रातर्दिने दिने । पठन्ति नियमेनैव दीक्षिता गाणपोत्तमाः ॥ ५८॥ तेभ्यो ददाति विघ्नेशः पुरुषार्थचतुष्टयम् । कन्यार्थी लभते रूपगुणयुक्तां तु कन्यकाम् ॥ ५९॥ पुत्रार्थी लभते पुत्रान् गुणिनो भक्तिमत्तरान् । वित्तार्थी लभते राजराजेन्द्र सदृशं धनम् ॥ ६०॥ विद्यार्थी लभते विद्याश्चतुर्दशमितावराः । निष्कामस्तु जपेन्नित्यं यदि भक्त्या दृढव्रतः ॥ ६१॥ स तु स्वानन्दभवनं कैवल्यं वा समाप्नुयात् ॥ ६२॥ ॥ इति श्रीविनायकतन्त्रे ईश्वरपार्वतीसंवादे श्रीएकार्णगणेशत्रिशतीस्तोत्रं सम्पूर्णम् ॥
జప గణన: 0/108