సనాతన స్తోత్ర నిధి
శ్రేణీ
సనాతన దేవ

.. ఏకదంతస్తుతిః మదాసురేణ ప్రోక్తా ..

॥ एकदन्तस्तुतिः मदासुरेण प्रोक्ता ॥
రచయిత: పారంపరిక వీక్షణలు: 1
23px
सूचना: अत्राधिकं अशुद्धो वाक्यः स्यात् सूचयन्तु क्षम्यतां च .
॥ श्रीगणेशाय नमः ॥
गृत्समद उवाच । मदासुरः प्रणम्यादौ परशुं यमसन्निभम् । तुष्टाव विविधैर्वाक्यैः शस्त्रं ब्रह्ममयं भयात् ॥१॥
मदासुर उवाच । नमस्ते शस्त्रराजाय नमस्ते परशो महन् । तेजःपुंजमयायैव कालकालाय ते नमः ॥२॥ एकदंतस्य यद्वीर्यं स्वधर्मस्थापनात्मकम् । त्वमेव नात्र संदेहो रक्ष मां शरणागतम् ॥३॥ कालरूपस्त्वमेवेह महाप्रलयसूचकः । कः समर्थश्च ते वेगसहने देहधारकः ॥४॥ अतस्त्वां प्रणमाम्येव ज्योतीरूपं महाद्भुतम् । रक्ष मां भयभीतं वै शरणागत-वत्सल ॥५॥ एवं स्तुवंतमत्यंतं परशुः शांतिमादधे । ययौ त्यक्त्वा पुनर्हस्ते एकदंतस्य दैत्यप ॥ ६॥ ततो मदासुरः शीघ्रं तं शरणं भयात् । एकदंतं प्रणम्याऽऽदौ पूजयामास सादरम् ॥७॥ पूजयित्वा यथान्यायं गणेशं धरणीतले । दंडवत्तं प्रणम्यैव भक्त्या तुष्टाव संयुतः ॥८॥
सदासुर उवाच । नमस्त एकदंताय मायामायिकरूपिणे । सदा ब्रह्ममयायैव गणेशाय नमो नमः ॥९॥ मूषकारूढरूपाय मूषकध्वजिने नमः । सर्वत्र संस्थितायैव बंधहीनाय ते नमः ॥१०॥ चतुर्बाहुधरायैव लंबोदर सुरूपिणे । नाभिशेषाय वै तुभ्यं हेरंबाय नमो नमः ॥ ११ ॥ चिंतामणिधरायैव चित्तस्थाय गजानन । नानाभूषण- युक्ताय गणाधिपतये नमः ॥ १२ ॥ अनंतविभवायैवानंतमायाप्रचालक । भक्तानंदप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १३ ॥ योगिनां योगदात्रे ते योगानां पतये नमः । योगाकारस्वरूपाय ह्येकदंतप्रधारिणे ॥ १४॥ मायाकारं शरीरं त एकशब्दः प्रकथ्यते । दंतः सत्तामयस्तत्र मस्तकस्ते नमो नमः ॥ १५ ॥ मायासन्त्ताविहीनस्त्वं तयोर्योगधरस्तथा । कस्त्वां स्तोतुं समर्थः स्यादतस्ते वै नमो नमः ॥ १६ ॥ शरणागतपालाय शरणागतवत्सल । पुनः पुनः सिद्धिबुद्धिपते तुभ्यं नमो नमः ॥१७॥ रक्ष मामेकदतस्त्वं शरणागतमंजसा । भक्तं भावेन संप्राप्तं संसारात्तारयस्व च ॥ १८ ॥
॥ इति मदासुरेण प्रोक्ता एकदन्तस्तुतिः ॥
జప గణన: 0/108