ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಶ್ರೀಗಣೇಶಹೃದಯಂ ಸ್ತೋತ್ರಂ

श्रीगणेशहृदयं स्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 1
23px
श्रीगणेश हृदयं स्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ शौनक उवाच । प्रकृतं वद सूत त्वं संवादं शङ्करस्य च । सनकादेर्विशेषेण सर्वसिद्धिकरं परम् ॥ १॥ नानावतारसंयुक्तं धूम्रवर्णचरित्रकम् । श्रुत्वा सनकमुख्यास्तं किमूचुर्योगसिद्धये ॥ २॥ सूत उवाच । धूम्रवर्णावतारस्य श्रुत्वाऽहं वधसंश्रितम् । चरितं हृष्टरोमाणः पप्रच्छुः शङ्करं द्विजाः ॥ ३॥ सनकाद्या ऊचुः । नानावतारसंयुक्तं श्रुत्वामाहात्म्यमुत्तमम् । धूम्रवर्णावतारस्य सन्तुष्टाः स्म सदाशिव ॥ ४॥ अधुना शाधि सर्वेश योगप्राप्त्यर्थमुत्तमम् । विधिं सुखकरं शीघ्रं सुगमं योगिनायक ॥ ५॥ शिव उवाच । गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् । साधकाय महाभागाः शीघ्रेण शान्तिदं परम् ॥ ६॥ (शीघ्रं वै) पुराऽहं गणनाथस्य ध्यानयुक्तोऽभवं द्विजाः । तत्र मां सरितां श्रेष्ठा जगाद वाक्यमुत्तमम् ॥ ७॥ गङ्गोवाच । वद शङ्कर कस्य त्वं ध्यानं करोषि नित्यदा । इच्छामि तमहं ज्ञातु त्वत्तः किं परमं मतम् ॥ ८॥ शिव उवाच । गणेशं देवदेवेशं ब्रह्मब्रह्मेशमादरात् । ध्यायामि सर्वभावज्ञे कुलदेवं सनातनम् ॥ ९॥ तस्य यद् हृदयं देवि गुप्तं सर्वप्रदायकम् । कथयिष्यामि सर्वज्ञे येन ज्ञास्यसि तं विभुम् ॥ १०॥ पुराऽज्ञानावृतोऽहं तु तपसि संस्थितोऽभवम् । तत्र तपः प्रभावेण हृद्यपश्यं गजाननम् ॥ ११॥ तस्य दर्शनमात्रेण स्फूर्तिः प्राप्ता मया प्रिये । तया गणेश्वरं ज्ञात्वा योगिवन्द्योऽभवं मुदा ॥ १२॥ तत्तेऽहं श‍ृणु वक्ष्यामि गणेशहृदयं परम् । येन गाणेशयोगे त्वं निपुणा सम्भविष्यसि ॥ १३॥ ॐ अस्य श्रीगणेशहृदयस्तोत्रमन्त्रस्य शम्भुरृषिः । नानाविधानि छन्दांसि । श्री गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् । श्रीगणपतिप्रीत्यर्थमभीष्टसिद्धयर्थं जपे विनियोगः । अथ करन्यासः । ॐ गां अङ्गुष्ठाभ्यां नमः । ॐ गीं तर्जनीभ्यां नमः । ॐ गूं मध्यमाभ्यां नमः । ॐ गैं अनामिकाभ्यां नमः । ॐ गौं कनिष्ठिकाभ्यां नमः । ॐ गः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ अथ हृदयाद्यङ्गन्यासः । ॐ गां हृदयाय नमः । ॐ गीं शिरसे स्वाहा । ॐ गूं शिखायै वषट् । ॐ गैं कवचाय हुम् । ॐ गौं नेत्रत्रयाय वौषट् । ॐ गः अस्त्राय फट् । इति हृदयाद्यङ्गन्यासः ॥ अथ ध्यानम् । सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं पाशं चैवाङ्कुशं वै रदनमभयदं पाणिभिः सन्दधानम् ॥ सिद्ध्या बुद्ध्या प्रश्लिष्टं (प्रशिष्टं) गजवदनमहं चिन्तये ह्येकदन्तं नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ १४॥ इति ध्यानम् । एवं ध्यात्वा मानसोपचारैः पूजयेत् । किञ्चिन्मूलमन्त्रं जप्त्वा हृदयं पठेत् ॥ ॐ गणेशमेकदन्तं च चिन्तामणिं विनायकम् । दुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १५॥ हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् । आशापूरं तु वरदं विकटं धरणीधरम् ॥ १६॥ सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसंज्ञितम् । माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ १७॥ एकविंशति नामानि गणेशस्य महात्मनः । अर्थेन संयूतान्येव हृदयं परिकीर्तितम् ॥ १८॥ गङ्गो वाच । एकविंशतिनाम्नां त्वमर्थं ब्रूहि सदाशिव । गणेशहृदयं येन जानामि करुणानिधे ॥ १९॥ शिव उवाच । गकाररूपं विविधं चराचरं णकारगं ब्रह्म तथा परात्परम् । तयोः स्थितास्तस्य गणाः प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥ २०॥ मायास्वरूपं तु सदैकवाचकं दन्तः परो मायिकरूपधारकः । योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥ २१॥ चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् । भोगैर्विहीनं त्वथ भोगकारकं चिन्तामणिं तं प्रणमामि नित्यम् ॥ २२॥ विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् । निरङ्कुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥ २३॥ वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वरदेवमानवाः । नागासुरा ब्रह्मगणाश्च जन्तवो ढुण्ढन्ति वन्दे त्वथ दुण्ढिराजकम् ॥ २४॥ मायार्थवाच्यो हि मयुरभावो नानाभ्रमार्थं प्रकरोति (प्रकरोमि) तेन् । तस्मान् मयूरेशमथो वदन्ति नमामि मायापतिमासमन्तात् ॥ २५॥ यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्वज्जठरे स्थितानि । अनन्तरूपं जठरं हि यस्य लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ २६॥ जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् । तयोश्च योगे प्रवदन्ति सर्वे गजाननं तं प्रणमामि नित्यम् ॥ २७॥ दीनार्थवाच्यस्त्वथ हेर्जगच्च ब्रह्मार्थवाच्यो निगमेषु रम्बः । तत्पालकत्वाच्च तयोः प्रयोगे हेरम्बमेकं प्रणमामि नित्यम् ॥ २८॥ विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्त्रं परमात्मरूपम् । तुण्डं तदेवं हि तयोः प्रयोगे तं वक्रतुण्डं प्रणमामि नित्यम् ॥ २९॥ मातापिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न । श्रेष्ठं वदन्ते निगमाः परेश तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ ३०॥ नानाचतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् । पूर्यस्य सा पूर्णसमाधिरूपा स्वानन्दनाथं प्रणमामि चातः ॥ ३१॥ मनोरथान् पूरयतीह गङ्गे चराचराणां जगतां परेषाम् । अतो गणेशं प्रवदन्ति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥ ३२॥ वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च । अतः परं विप्रमुखा वदन्ति वरप्रदं तं वरदं नतोऽस्मि ॥ ३३॥ मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च । तस्मात्परं ब्रह्म वदन्ति सत्यमेनं परेशं विकटं नमामि ॥ ३४॥ चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गङ्गे । तासां सदा धारक एक एव वन्दे च धरणीधरमादिभूतम् ॥ ३५॥ विश्वात्मिका ब्रह्ममयी हि बुद्धिः तस्या विमोहप्रदिका च सिद्धिः । ताभ्यां सदा खेलति योगनाथः तं सिद्धिबुद्धीशमथो नमामि ॥ ३६॥ असत्यसत् साम्यतुरीयनैज्यगन्निवृत्ति रूपाणि (ब्रह्माणि) विरच्य खेलकः । सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ ३७॥ अमङ्गलं विश्वमिदं सहात्मभिः अयोगसंयोगयुतं प्रणश्वरम् । ततः परं मङ्गलरूपधधारकं नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ ३८॥ सर्वत्रमान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् । पूज्यं न तस्मान्निगमादिसम्मतं तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ ३९॥ भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो निजविघ्नहा च । भक्त्या विहीनाय ददाति विघ्नान् तं विघ्नराजं प्रणमामि नित्यम् ॥ ४०॥ नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् । सप्तत्रिनाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ ४१॥ गङ्गोवाच । नाम्नां यथृदयं प्रोक्तं त्वया ब्रह्मपदं परम् । न तत्रानुभवो मे तु तदर्थं वद शङ्कर ॥ ४२॥ शिव उवाच । मन्त्रं गृह्य गणेशस्य पुरश्चरणमार्गतः । भज त्वं तेन तं ज्ञानं भविष्यति न संशयः ॥ ४३॥ हृदयं मन्त्रराजस्य कथयामि समासतः । मन्त्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥ ४४॥ गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः । बिन्दुः शिवस्तथा भानुः सानुनासिक संज्ञितः ॥ ४५॥ तेषां सन्धिर्महाशक्तिरेभिः स मन्त्र उच्यते । देवता गणनाथस्तु तेषां संयोगकारकः ॥ ४६॥ तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा । अतस्तारयुतो मन्त्रो गणेशैकाक्षराकृतिः ॥ ४७॥ तारः स षड् विधः प्रोक्तस्तन्निबोध सरिद्वरे । अकारोकारकौः प्रोक्तौः मकारो नादबिन्दुके ॥ ४८॥ शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहीस्वरूपं तु बिन्दुर्देह इति स्मृतः ॥ ४९॥ ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदधारकम् । एतादृशं बिजानीहि मन्त्रराजं गजाननम् ॥ ५०॥ आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥ ५१॥ तद्दशांशेन होमं वै कुर्यादागममार्गतः । तद्दशांशमितं प्रोक्तं तर्पणं गणपस्य च ॥ ५२॥ तद्दशांशमितं देवि मार्जनं तद्दशांशतः । विप्राणां भोजनं प्रोक्तमेवं पञ्चाङ्गमुच्चते ॥ ५३॥ यथाविधिकृतं चैतत्सद्यो हि फलदं भवेत् । अतस्त्वं मन्त्रराजस्य पञ्चकं तत्समाचर ॥ ५४॥ एवमुक्त्वाददे तस्यै मन्त्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोऽर्थतः ॥ ५५॥ मयूरेशं समासाद्य चकार तप उत्तमम् । गङ्गा तत्रैव विप्रेशा मन्त्रध्यानपरायणा ॥ ५६॥ पुरश्चरणमेकं सा चकार सरितां वरा । ततः प्रसन्नता यातो गणेशो भक्तवत्सलः ॥ ५७॥ तस्यैव कृपया तस्या हृदि ज्ञानं बभूव ह । तेनैकविंशतेर्नाम्नामर्थज्ञा तत्क्षणादभूत् ॥ ५८॥ ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥ ५९॥ सनकाद्या ऊचुः । ब्रह्मभूता सरित्श्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥ ६०॥ शिव उवाच । ब्रह्मभूतो नरो योगी गणेशमभजत्सदा । नवधा भक्तिभावेन तत्परश्च महर्षयः ॥ ६१॥ पुत्रः कलत्रं जनकौ सुहृदगणो द्रव्यं सखावृत्तिजविद्यया युतम् । स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥ ६२॥ सांसर्गिकं कायिकवाचिकं परं कर्माचरन्मानसजं त्रिदेहतः । ज्ञानं हृदिस्थं च मया परात्परं विध्नेश्वरायेति समर्पितं किल ॥ ६३॥ योगाकारेण विघ्नेश एकानेकादिसंश्रितः । भुङ्क्ते स विविधान्भोगान् शुभाऽशुभसमाश्रितान् ॥ ६४॥ नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः । स्वामिसेवकभावेन ब्रह्मणि शोभते रतः ॥ ६५॥ अनेन विधिना विप्रा भजन्ते गणनायकम् । योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥ ६६॥ एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया । हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥ ६७॥ यथा देहेन्द्रियाद्येषु मुख्यं स्वहृदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥ ६८॥ तथा गणपतेरेतद् हृदयं परिकीर्तितम् । अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥ ६९॥ अनेन गणनाथं तु यस्तोष्यति नरोत्तमः । स भुक्त्वा सकलान्भोगानन्ते योगमयो भवेत् ॥ ७०॥ एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् । प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥ ७१॥ एकाक्षरमन्त्रस्य पञ्चकं सेव्य योगिनः । गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥ ७२॥ ततो नित्यं गणेशस्य हृदयं ते महर्षयः । जपन्ति भक्तिसंयुक्ता भ्रमन्ति स्वेच्छयेरिताः ॥ ७३॥ अतस्त्वमपि भावेन गणेशहृदयं परम् । सेवस्व गाणपत्येषु मुख्यस्तथा भविष्यसि ॥ ७४॥ मुद्गल उवाच । एवमुक्त्वा महानागं शेषाय प्रददौ शिवः । मन्त्रमेकाक्षर साङ्गं स ययौ तं प्रणम्य च ॥ ७५॥ साधयित्वा यथान्यायं हृदयज्ञो बभूव ह । नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥ ७६॥ गणेशहृदयं पुण्यं श‍ृणुयाच्छ्रावयेन्नरः । ईप्सितं प्राप्नुयाच्चान्ते ब्रह्मभूतो भवेदिह ॥ ७७॥ नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः । स गणेशो न सन्देहो दर्शनात्सिद्धिदो भवेत् ॥ ७८॥ पुत्रपौत्रकलत्रादि लभते पाठतो नरः । धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥ ७९॥ एकविंशतिवारं यो दिवसानेकविंशतिम् । पठेत् गणपतिं चिन्त्यं स लभेदीप्सितं फलम् ॥ ८०॥ असाध्यं साधयेन्मर्त्यौ गणेशहृदयेन यत् । राजबद्धं त्रिकालेषु मोचयेत्पाठ तो विधे ॥ ८१॥ मारणोच्चाटनादीनि वश्यमोहादिकानि तु । अनेन साधयेन्मर्त्यः परं कृत्यं विनाशयेत् (प्रणाशयेत्)॥ ८२॥ सङ्ग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किञ्चिद् दुर्लभं भवेत् ॥ ८३॥ विद्यामायुर्यशः प्रज्ञामङ्ग हीनोङ्गमाप्नुयात् । यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥ ८४॥ नानेन सदृशं किञ्चिद् शीघ्रसिद्धिकरं भवेत् । साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥ ८५॥ गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य हृदयं वै कदाचन ॥ ८६॥ गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥ ८७॥ महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । हृदयं कि पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥ ८८॥ ॥ इति श्रीमुद्गलपुराणोक्त गणेशहृदयं स्तोत्रं सम्पूर्णम् ॥
ಜಪ ಎಣಿಕೆ: 0/108