ಸನಾತನ ಸ್ತೋತ್ರ ರತ್ನಮಾಲಾ
ಶ್ರೇಣೀ
ಸನಾತನ ದೇವ

ಮುದ್ಗಲಪುರಾಣೇ ಶ್ರೀಗಣೇಶಾಪರಾಧಕ್ಷಮಾಪಣಸ್ತೋತ್ರಂ

मुद्गलपुराणे श्रीगणेशापराधक्षमापणस्तोत्रम्
ರಚನೆಕಾರರು: ಪಾರಂಪರಿಕ ವೀಕ್ಷಣೆಗಳು: 2
23px
श्रीगणेश अपराधक्षमापणस्तोत्रम् श्रीगणेशाय नमः । सुमुखो मखभुङ्मुखार्चितः सुखवृद्ध्यै निखिलार्तिशान्तये। अखिलश्रुतिशीर्षवर्णितः सकलाद्यः स सदाऽस्तु मे हृदि ॥ १॥ प्रणवाकृतिमस्तके नयः प्रणवो वेदमुखावसानयोः। अयमेव विभाति सुस्फुटं ह्यवतारः प्रथमः परस्य सः ॥ २॥ प्रथमं गुणनायको बभौ त्रिगुणानां सुनियन्त्रणाय यः। जगदुद्भवपालनात्ययेष्वजविष्ण्वीशसुरप्रणोदकः ॥ ३॥ विधिविष्णुहरेन्द्रदेवतादिगणानां परिपालनाद्विभुः। अपि चेन्द्रियपुञ्जचालनाद्गणनाथः प्रथितोऽर्थतः स्फुटम् ॥ ४॥ अणिमामुखसिद्धिनायका भजतः साधयतीष्टकामनाः। अपवर्गमपि प्रभुर्धियो निजदासस्य तमो विहृत्य यः ॥ ५॥ जननीजनकः सुखप्रदो निखिलानिष्टहरोऽखिलेष्टदः। गणनायक एव मामवेद्रदपाशाङ्कुशमोदकान् दधत् ॥ ६॥ शरणं करुणार्णवः स मे शरणं रक्ततनुश्चतुर्भुजः। शरणं भजकान्तरायहा शरणं मङ्गलमूर्तिरस्तु मे ॥ ७॥ सततं गणनायकं भजे नवनीताधिककोमलान्तरम्। भजनाद्भवभीतिभञ्जनं स्मरणाद्विघ्ननिवारणक्षमम् ॥ ८॥ अरुणारुणवर्णराजितं तरुणादित्यसमप्रभं प्रभुम्। वरुणायुधमोदकावहं करुणामूर्तिमहं प्रणौमि तम् ॥ ९॥ क्व नु मूषकवाहनं प्रभुं मृगये त्वज्ञतमोऽवनीतले। विबुधास्तु पितामहादयस्त्रिषु लोकेष्वपि यं न लेभिरे ॥ १०॥ शरणागतपालनोत्सुकं परमानन्दमजं गणेश्वरम्। वरदानपटुं कृपानिधिं हृदयाब्जे निदधामि सर्वदा ॥ ११॥ सुमुखे विमुखे सति प्रभौ न महेन्द्रादपि रक्षणं कदा। त्वयि हस्तिमुखे प्रसन्नताऽभिमुखेनापि यमाद्भयं भवेत् ॥ १२॥ सुतरां हि जडोऽपि पण्डितः खलु मूकोऽप्यतिवाक्पतिर्भवेत्। गणराजदयार्द्रवीक्षणादपि चाज्ञः सकलज्ञातामियात् ॥ १३॥ अमृतं तु विषं विषं सुधा परमाणुस्तु नगो नगोऽप्यणुः। कुलिशं तु तृणं तृणं पविर्गणनाथाशु तवेच्छया भवेत् ॥ १४॥ गतोऽसि विभो विहाय मां ननु सर्वज्ञ न वेत्सि मां कथम्। किमु पश्यसि विश्वदृङ् न मां न दया किमपि ते दयानिधे ॥ १५॥ अयि दीनदयासरित्पते मयि नैष्ठुर्यमिदं कुतः कृतम्। निजभक्तिसुधालवोऽपि यन्न हि दत्तो जनिमृत्युमोचकः ॥ १६॥ नितरां विषयोपभोगतः क्षपितं त्वायुरमूल्यमेनसा। अहहाज्ञतमस्य साहसं सहनीयं कृपया त्वया विभो ॥ १७॥ भगवन्नहि तारकस्य ते वत मन्त्रस्य जपः कृतस्तथा। न कदैकधियापि चिन्तनं तव मूर्तेस्तु मयातिपाप्मना ॥ १८॥ भजनं न कृतं समर्चनं तव नामस्मरणं न दर्शनम्। हवनं प्रियमोदकार्पणं नवदूर्वा न समर्पिता मया ॥ १९॥ नच साधुसमागमः कृतस्तव भक्ताश्च मया न सत्कृताः। द्विजभोजनमप्यकारि नो वत दौरात्म्यमिदं क्षमस्व मे ॥ २०॥ न विधिं तव सेवनस्य वा नच जाने स्तवनं मनुं तथा। करयुग्मशिरःसुयोजनं तव भूयाद्गणनाथपूजनम् ॥ २१॥ अथ का गणनाथ मे गतिर्नहि जाने पतितस्य भाविनी। इति तप्ततनुं सदाऽव मामनुकम्पार्द्रकटाक्षवीक्षणैः ॥ २२॥ इह दण्डधरस्य सङ्गमेऽखिलधैर्यच्यवने भयङ्करे। अविता गणराज को नु मां तनुपातावसरे त्वया विना ॥ २३॥ वद कं भवतोऽन्यमिष्टदाच्छरणं यामि दयाधनादृते। अवनाय भवाग्निभर्जितो गतिहीनः सुखलेशवर्जितः ॥ २४॥ श्रुतिमृग्यपथस्य चिन्तनं किमु वाचोऽविषयस्य संस्तुतिम्। किमु पूजनमप्यनाकृतेरसमर्थो रचयामि देवते ॥ २५॥ किमु मद्विकलात्स्वसेवनं किमु रङ्कादुपचारवैभवम्। जडवाङ्मतितो निजस्तुतिं गणनाथेच्छसि वा दयानिधे ॥ २६॥ अधुनापि च किं दया न ते मम पापातिशयादितीश चेत्। हृदये नवनीतकोमले न हि काठिन्यनिवेशसम्भवः ॥ २७॥ व्यसनार्दितसेवकस्य मे प्रणतस्याशु गणेश पादयोः। अभयप्रदहस्तपङ्कजं कृपया मूर्ध्नि कुरुष्व तावकम् ॥ २८॥ जननीतनयस्य दृक्पथं मुहुरेति प्रसभं दयार्द्रधीः। मम दृग्विषयस्तथैव भो गणनाथाशु भवनुकम्पया ॥ २९॥ गजराजमुखाय ते नमो मृगराजोत्तमवाहनाय ते। द्विजराजकलाभृते नमो गणराजाय सदा नमोऽस्तु ते ॥ ३०॥ गणनाथ गणेश विघ्नराट् शिवसूनो जगदेकसद्गुरो। सुरमानुषगीतमद्यशः प्रणतं मामव संसृतेर्भयात् ॥ ३१॥ जय सिद्धिपते महामते जय बुद्धीश जडार्तसद्गते। जय योगिसमूहसद्गुरो जय सेवारत कल्पनातरो ॥ ३२॥ तनुवाग् हृदयैरसच्च सद्यदनस्थात्रितये कृतं मया। जगदीश करिष्यमाणमप्यखिलं कर्म गणेश तेऽर्पितम् ॥ ३३॥ इति कृष्णमुखोद्गतं स्तवं गणराजस्य पुरः पठेन्नरः। सकलाधिविवर्जितो भवेत्सुतदारादिसुखी स मुक्तिभाक् ॥ ३४॥ इति मुद्गलपुराणन्तर्वर्ति श्रीगणेशापराधक्षमापणस्तोत्रम्
ಜಪ ಎಣಿಕೆ: 0/108