সনাতন স্তোত্র মঞ্জরী
Ashtakam
সনাতন দেব

॥ দামোদরাষ্টকম্ ॥

॥ दामोदराष्टकम् ॥
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 4
23px

॥ दामोदराष्टकम् ॥

नमामीश्वरं सच्चिदानन्दरूपं लसत्कुण्डलं गोकुले भ्राजमानम्। यशोदाभियोलूखलाद्-धावमानं परामृष्टमत्यन्ततो द्रुत्य गोप्या॥ १॥

रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं कराम्भोजयुग्मेन सातङ्कनेत्रम्। मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठ- स्थितग्रैव-दामोदरं भक्तिबद्धम्॥ २॥

इतीदृक् स्वलीलाभिरानन्दकुण्डे स्वघोषं निमज्जन्तमाख्यापयन्तम्। तदीयेषिताज्ञेषु भक्तैर्जितत्वं पुनः प्रेमतस्तं शतावृत्ति वन्दे॥ ३॥

वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेषादपीह। इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यैः॥ ४॥

इदं ते मुखाम्भोजमत्यन्तनीलै- र्वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या। मुहुश्चुम्बितं बिम्बरक्ताधरं मे मनस्याविरास्तामलं लक्षलाभैः॥ ५॥

नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम्। कृपादृष्टिवृष्ट्यातिदीनं बतानु गृहाणेश माम् अज्ञमेध्यक्षिदृश्यः॥ ६॥

कुवेरात्मजौ बद्धमूर्त्यैव यद्वत् त्वया मोचितौ भक्तिभाजौ कृतौ च। तथा प्रेमभक्तिं स्वकं मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह॥ ७ ॥

नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने। नमो राधिकायै त्वदीयप्रियायै नमोऽनन्तलीलाय देवाय तुभ्यम्॥८॥

॥ इति श्रीमद्पद्मपुराणे श्रीदामोदराष्टकं सम्पूर्णम् ॥

পাঠ জপ: 0/108