॥ রুক্মিণী সন্দেশঃ ॥
॥ रुक्मिणी सन्देशः ॥
श्रीरुक्मिण्युवाच
श्रुत्वा गुणान्भुवनसुन्दर शृण्वतां ते निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम्। रूपं दृशां दृशिमतामखिलार्थलाभं त्वय्यच्युताविशति चित्तमपत्रपं मे॥ का त्वा मुकुन्द महती कुलशीलरूप विद्यावयोद्रविणधामभिरात्मतुल्यम्। धीरा पतिं कुलवती न वृणीत कन्या काले नृसिंह नरलोकमनोऽभिरामम्॥ तन्मे भवान्खलु वृतः पतिरङ्ग जायाम् आत्मार्पितश्च भवतोऽत्र विभो विधेहि। मा वीरभागमभिमर्शतु चैद्य आराद् गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष॥ पूर्तेष्टदत्तनियमव्रतदेवविप्र गुर्वर्चनादिभिरलं भगवान्परेशः। आराधितो यदि गदाग्रज एत्य पाणिं गृह्णातु मे न दमघोषसुतादयोऽन्ये॥ श्वो भाविनि त्वमजितोद्वहने विदर्भान् गुप्तः समेत्य पृतनापतिभिः परीतः। निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य मां राक्षसेन विधिनोद्वह वीर्यशुल्काम्॥ अन्तःपुरान्तरचरीमनिहत्य बन्धून् त्वामुद्वहे कथमिति प्रवदाम्युपायम्। पूर्वेद्युरस्ति महती कुलदेवयात्रा यस्यां बहिर्नववधूर्गिरिजामुपेयात्॥ यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो वाञ्छन्त्युमापतिरिवात्मतमोऽपहत्यै। यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादं जह्यामसून्व्रतकृशान्शतजन्मभिः स्यात्॥ ब्राह्मण उवाच इत्येते गुह्यसन्देशा यदुदेव मयाहृताः विमृश्य कर्तुं यच्चात्र क्रियतां तदनन्तरम्॥
॥ इति श्रीमद्भागवते महापुराणे श्री रुक्मिणीसन्देशः ॥