சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீக³ணேஶாஷ்டகம்

श्रीगणेशाष्टकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 8
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

श्रीगणेशाष्टकम्

गिरिस्वामिकन्यावराङ्गे वसन्तं सुरस्वामिनं केलिरूपं हसन्तम् । लघुस्थूलविघ्नं विनिनन्तमाओं सदानन्दरूपं गणेशं भजेऽहम् ॥ १॥ अजं तुन्दिलं व्योमधर्मोपमेयं भृशं दन्तपाणिं सुजातैकदन्तम् । गले हास्तिकं नागयज्ञोपवीतं सदानन्दरूपं गणेशं भजेऽहम् ॥ २॥ विभुं निर्मलं शर्वपुत्रं सुरेशं (गौरिपुत्रं) शिवं शूलिवत्रा गणेशानमीशम् । कणत्किङ्किणीनालपादौ वहन्तं सदानन्दरूपं गणेशं भजेऽहम् ॥ ३॥ दौर्वेष्टितं विघ्नविध्वंसुवर्गैः सुरैर्मण्डितैर्यज्ञयज्ञोत्तमाङ्गम् । गुणातीतमव्यक्तमेकं तुरीयं सदानन्दरूपं गणेशं भजेऽहम ॥ ४॥ नरं सिन्धुरं पञ्चवक्त्रं विचित्रं वयोयोगिनं भोगनाथं महेशम् । करं कारिणं कामिनं नागरूपं सदानन्दरूपं गणेशं भजेऽहम् ॥ ५॥ मुदा हायनं लोककर्तारमाद्यं (लोकस्रष्टारमाद्यं) लसत्केतुना बद्धहस्तैकपोतम् । सदोमालिनं देवलोकैकपूतं सदानन्दरूपं गणेशं भजेऽहम् ॥ ६॥ जगत्कारणं तर्कवेदान्तवेद्यं मुदा योगगम्यं विशुद्धाट्टहासम् । शरण्यं वरेण्यं विशुद्धं तमाचं सदानन्दरूपं गणेशं भजेऽहम् ॥ ७॥ प्रियासिद्धिभाजे धिया वामभागे लसन्माद्विकावामदेवं त्रिणेत्रम् । अमोघं सुरेशं महेशानमीशं सदानन्दरूपं गणेशं भजेऽहम् ॥ ८॥ ॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥
ஜப எண்ணிக்கை: 0/108