சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

க³ணேஶாஷ்டகம்

गणेशाष्टकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px

गणेशाष्टकम्

॥ श्रीगणेशाय नमः ॥ श्रीगणेश प्रार्थना - लम्बोदराय शिवपुत्रगणेश्वराय बुद्धिप्रदाय भवदुःखविनाशकाय । त्रैलोक्यपूज्यपरमाद्भुतकारणाय विघ्नान्तकाय सुखदाय नमो नमस्ते ॥ श्रीसरस्वती प्रार्थना - वन्दे श्रीजगदम्बिकां सरस्वतीं वन्दे जगद्व्यापिनीं वन्दे पुस्तकधारिणीं च परमां वेदान्तसारांशकाम् । वन्दे ब्रह्मस्वरूपिणीं च विमलां वन्दे जगन्मातरं वन्दे दुःख विनाशिनीं भगवतीं चैतन्यरूपां पराम् ॥ अथ श्रीगणेशाष्टकम् - अजं निर्मलं निर्गुणं ज्ञानरूपं निराकारसंसारसारं परेशम् । जगन्मङ्गलं विश्ववन्द्यं पवित्रं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ १॥ प्रसन्नं सदा ब्रह्मरूपं तुरीयं सदैकाश्रयं प्राणिनामेकमात्रम् । परं नित्यमानन्दकन्दं निरीहं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ २॥ गुरुं ज्ञानिनां योगिनां तत्त्वरूपं तथा प्राणिनां विघ्ननाशं गणेशम् । सदा मङ्गलं पार्वतीपुत्रमेकं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ३॥ सदूर्वादलं कुङ्कुमं रक्तपुष्पं तथा चन्दनं सुन्दरं रक्तवस्त्रम् । सदा धारकं ज्ञानमूर्तिं ह्यखण्डं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ४॥ सुसौम्यं निजं निर्विकल्पं वरेण्यं सुज्ञानं सुखं सत्स्वरूपं सुगम्यम् । सुसिद्धं मुनीशं महेशस्य पुत्रं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ५॥ सदा ध्यायमाना गणेशञ्च देवाः तथा प्रार्थयन्तश्च वेदाः गणेशम् । गणेशाश्रये सन्ति जीवाः समस्ताः प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ६॥ प्रभुं धर्मकामार्थं मोक्षप्रदं तं पुनः पुत्रदं ज्ञानदं सर्वदं च । तथा साधकं सर्वकामप्रदञ्च प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ७॥ अहं त्वां सदा प्रार्थये भो गणेश प्रसन्नो भवन् सर्वदा बुद्धिनाथ । परं दर्शनं मां ददातु ह्यनन्त प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ८॥ प्रातःकाले शुचिर्भूत्वा ये पठन्ति नराः सदा । श्रीगणेशाष्टकं स्तोत्रं सुखदं मोक्षदं भवेत् ॥ ९॥ इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीगणेशाष्टकम् 
ஜப எண்ணிக்கை: 0/108