सनातन देव
॥ श्री वेङ्कटेशद्वादशनामस्तोत्रम् ॥
stotra-99b9caaf
॥ श्री वेङ्कटेशद्वादशनामस्तोत्रम् ॥
वेङ्कटेशो वासुदेवो वारिजासनवन्दितः। स्वामिपुष्करिणीवासः शङ्खचक्रगदाधरः॥१॥
पीताम्बरधरो देवो गरुडारूढशोभितः। विश्वात्मा विश्वलोकेशो विजयो वेङ्कटेश्वरः॥२॥
एतद्द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः। सर्वपापविनिर्मुक्तो विष्णोः सायुज्यमाप्नुयात्॥३॥
॥ इति श्री वेङ्कटेशद्वादशनामस्तोत्रं सम्पूर्णम् ॥