સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

શ્રીપઞ્ચશ્લોકિગણેશપુરાણમ્

श्रीपञ्चश्लोकिगणेशपुराणम्
રચયિતા: પારંપરિક વાચન સંખ્યા: 4
23px

पंचश्लोकिगणेशपुराणम्

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा । संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना व्यासेन बुद्ध्याप्तये ॥ १॥ सङ्कष्ट्याश्च विनायकस्य च मनोः स्थानस्य तीर्थस्य वै दूर्वाणां महिमेति भक्तिचरितं तत्पार्थिवस्यार्चनम् । तेभ्यो यैर्यदभीप्सितं गणपतिस्तत्तत्प्रतुष्टो ददौ ताः सर्वा न समर्थ एव कथितुं ब्रह्मा कुतो मानवः ॥ २॥ क्रीडाकाण्डमथो वदे कृतयुगे श्वेतच्छविः काश्यपः सिंहाङ्कः स विनायको दशभुजो भूत्वाथ काशीं ययौ । हत्वा तत्र नरान्तकं तदनुजं देवान्तकं दानवं त्रेतायां शिवनन्दनो रसभुजो जातो मयूरध्वजः ॥ ३॥ हत्वा तं कमलासुरं च सगणं सिन्धुं महादैत्यपं पश्चात् सिद्धिमती सुते कमलजस्तस्मै च ज्ञानं ददौ । द्वापारे तु गजाननो युगभुजो गौरीसुतः सिन्दुरं सम्मर्द्य स्वकरेण तं निजमुखे चाखुध्वजो लिप्तवान् ॥ ४॥ गीताया उपदेश एव हि कृतो राज्ञे वरेण्याय वै तुष्टायाथ च धूम्रकेतुरभिधो विप्रः सधर्मर्धिकः । अश्वाङ्को द्विभुजो सितो गणपतिर्म्लेच्छान्तकः स्वर्णदः क्रीडाकाण्डमिदं गणस्य हरिणा प्रोक्तं विधात्रे पुरा ॥ ५॥ एतच्छ्लोकसुपञ्चकं प्रतिदिनं भक्त्या पठेद्यः पुमान् । निर्वाणं परमं व्रजेत् स सकलान् भुक्त्वा सुभोगानपि ॥ ॥ इति श्रीपंचश्लोकिगणेशपुराणम् ॥
પાઠ જપ: 0/108