સનાતન સ્તોત્ર સંગ્રહ
શ્રેણી
સનાતન દેવ

દેવર્ષિભિઃ પ્રોક્તા ધૂમ્રવર્ણસ્તુતિઃ

देवर्षिभिः प्रोक्ता धूम्रवर्णस्तुतिः
રચયિતા: पारंपरिक વાચન સંખ્યા: 5
લિપિ પસંદ કરો: देवनागरी (संस्कृत)
14px

धूम्रवर्ण-गणेशस्तुतिः देवर्षिभिः प्रोक्ता

शिव उवाच - शान्तिरूपधरं पूर्णं गाणेशाहङ्कृतिस्थितम् । अहं दृष्ट्वा सुरा विप्रा विस्मिता अभवन् द्विजाः । १ ततस्ते धूम्रवर्णं वै पुपूजुर्भक्तिसंयुताः । पुनः प्रणम्य तं सर्वे तूष्टुवुः करसम्पुटाः ॥ २॥ देवर्षय ऊचुः अजायाथ सर्वादिपूज्याय नित्यं निरालम्बनेति स्वरूपाय ढुण्ढे ! । सदाऽव्यक्तरूपाय सर्वान्तगाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ३॥ सदा मोहहीनाय मोहप्रदाय जनेभ्यः प्रभो! मोहहन्त्रे निजानाम् । महानन्दत्रैविध्यभावैः परेश! नमो धूम्रवर्णाय सर्वेश्वराय ॥ ४॥ नमः सिद्विबुद्धिप्रदात्रे गणेश! पुरे वासकारिन्! स्वसंवेद्यनाम्नि । अनाथाय नाथाय सर्वेश्वराणां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ५॥ सदा स्वेच्छया खेलकाराय तुभ्यं सगौणाय नैर्गुण्यभावाय ब्रह्मन्! । महाऽऽखुध्वजायाऽथ हेरम्बकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ ६॥ गजाकारतुण्डाय लम्बोदराय त्रिनेत्राय शूर्पश्रुतिक्षोभकारिन्! । मदासक्तयोगीन्द्र! भृङ्गात्मकानां नमो धूम्रवर्णाय सर्वेश्वराय ॥ ७॥ चतुर्बाहवे चैकदन्ताय तुभ्यं विचित्रैरनर्घैस्तु सम्भूषिताय । अलङ्कारकैर्देवदेवेश! पात्रे नमो धूम्रवर्णाय सर्वेश्वराय ॥ ८॥ त्वया सृष्टमाद्यं समं सर्वभावयुतं मोहदं मायिनां नन्दनाद्वै । तदाकाररूपेण तत्स्थाय भूम्ने नमो धूम्रवर्णाय सर्वेश्वराय ॥ ९॥ त्वया प्रेरितेनाथ तेनाऽपि सृष्टं सदात्मस्वरूपं परं जीवनं यत् । अभेदात्मकं तत्र संस्थाय तुभ्यं नमो धूम्रवर्णाय सर्वेश्वराय ॥ १०॥ तत्स्तेन सृष्टं सदा भेदकानां निजं दैवतं ब्रह्मभावेन तत्स्थम् । तदाकाररूपेण तत्स्थाय ब्रह्मन्! नमो धूम्रवर्णाय सर्वेश्वराय ॥ ११॥ असद्भावयुक्तेन सृष्टं विदेहं परं ब्रह्म साङ्ख्यात्मकं मूलबीजम् । त्वया प्रेरितेनात्र वासप्रदायिन्नमो धूम्रवर्णाय सर्वेश्वराय ॥ १२॥ स्वतोत्थानरूपं विदेहेन सृष्टं त्वदीयप्रबोधेन विघ्नेश्वराय । तदाकाररूपाय तत्रस्थकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १३॥ ततस्तेन ते सत्तया सृष्टमाद्यं सदैकस्वरूपं परं सोऽहमेवम् । तथा त्वं च तत्रैव संस्थः परात्मन्! नमो धूम्रवर्णाय सर्वेश्वराय ॥ १४॥ त्वया प्रेरितेनाथ तेनैव सृष्टं चतुर्णां प्रमूलं महद्बिन्दुरूपम् । सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ १५॥ ततो नादरूपं समं यत्सुषुप्तं परं सूक्ष्मरूपं ततः स्थूलभावम् । सदा साहजेनैव योगेन तत्स्थो नमो धूम्रवर्णाय सर्वेश्वराय ॥ १६॥ नमो विश्वरूपाय सर्वाकराय ह्यनन्ताननाद्यैः सुचिह्नाय तुभ्यम् । चरैः स्थावरैर्भोगभोगिन्! नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ १७॥ चरायाऽथ ते स्थावरायैव तुभ्यं नमो सृष्टिकर्त्रे सुपात्रे हराय । प्रकाशाय सूर्याय देवीमयाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १८॥ नमो देवपक्षाय साध्याय तुभ्यं नरायाऽथ देवेद्र! देवात्मकाय । दिगीशाय वृक्षादिबीजात्मकाय नमो धूम्रवर्णाय सर्वेश्वराय ॥ १९॥ नमः सर्परूपाय दैत्यात्मकाय समुद्रादिनानाप्रभेदस्थमूर्ते! । अनन्तैः स्वरूपैः सदा क्रीडसि त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २०॥ तथाऽपि त्वमेवं तदाकारहीनः सदा साहजेनैव योगेन योगिन्! । स्वसत्तात्मकायैव तुभ्यं नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २१॥ अतो वेदवादा विशेषेण धूम्रा भवन्ति ह्यहो वर्णितुं ते स्वरूपम् । बुधैः कथ्यसे धूम्रवर्णस्ततस्त्वं नमो धूम्रवर्णाय सर्वेश्वराय ॥ २२॥ सुशान्तिं गता वेदयोगीन्द्रमुख्यास्त्वयि ब्रह्मनाथे सदा धूम्रवर्णम् । वयं किं स्तुवीमोऽल्पबोधा नमस्ते नमो धूम्रवर्णाय सर्वेश्वराय ॥ २३॥ धूम्रवर्ण उवाच - स्तोत्रं भवत्कृतं मे तु भविष्यति सुसिद्धिदम् । ब्रह्मभूयकरं विप्रा भविष्यति न संशयः ॥ २६॥ पुत्रपौत्रकलत्रादि सौखदं धनधान्यदम् । आयुरारोग्यकैश्वर्यदायकं प्रभविष्यति ॥ २७॥ पठते श‍ृण्वते देवा नानाभावप्रपूरकम् । धर्मार्थकाममोक्षाणां दायकं भजतामिदम् ॥ २८॥ मारणोच्चाटनादीनि ह्येकविंशतिपाठतः । एकविंशतिभिर्नित्यं दिवसैः प्रभवन्ति हि ॥ २९॥ परकृत्यादिकं सर्वं नाशमेति न संशयः । अनेन स्तोत्रमुख्येन स्तुवतः सर्वदा द्विजाः ॥ ३०॥ यं यं चिन्तयेत् कामं तं तं दास्यामि सर्वदा । स्तुतोऽनेन महादेवाः स्तोत्रेण तुष्टिमागतः ॥ ३१॥ इति देवर्षिभिःप्रोक्ता धूम्रवर्णस्तुतिः समाप्ता । ८.८
પાઠ જપ: 0/108