சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

ஶ்ரீக³ணேஶாவதாரஸ்தோத்ரம்

श्रीगणेशावतारस्तोत्रम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 1
23px
श्रीगणेशावतारस्तोत्रम् श्री गणेशाय नमः । आङ्गिरस उवाच । अनन्ता अवताराश्च गणेशस्य महात्मनः । न शक्यते कथां वक्तुं मया वर्षशतैरपि ॥ १॥ संक्षेपेण प्रवक्ष्यामि मुख्यानां मुख्यतां गतान् । अवतारांश्च तस्याष्टौ विख्यातान् ब्रह्मधारकान् ॥ २॥ वक्रतुण्डावतारश्च देहिनां ब्रह्मधारकः । मत्सरासुरहन्ता स सिंहवाहनगः स्मृतः ॥ ३॥ एकदन्तावतारो वै देहिनां ब्रह्मधारकः । मदासुरस्य हन्ता स आखुवाहनगः स्मृतः ॥ ४॥ महोदर इति ख्यातो ज्ञानब्रह्मप्रकाशकः । मोहासुरस्य शत्रुर्वै आखुवाहनगः स्मृतः ॥ ५॥ गजाननः स विज्ञेयः सांख्येभ्यः सिद्धिदायकः । लोभासुरप्रहर्ता च मूषकगः प्रकीर्तितः ॥ ६॥ लम्बोदरावतारो वै क्रोधसुरनिबर्हणः । आखुगः शक्तिब्रह्मा सन् तस्य धारक उच्यते ॥ ७॥ विकटो नाम विख्यातः कामासुरप्रदाहकः । मयूरवाहनश्चायं सौरमात्मधरः स्मृतः ॥ ८॥ विघ्नराजावतारश्च शेषवाहन उच्यते । ममासुरप्रहन्ता स विष्णुब्रह्मेति वाचकः ॥ ९॥ धूम्रवर्णावतारश्चाभिमानासुरनाशकः । आखुवाहनतां प्राप्तः शिवात्मकः स उच्यते ॥ १०॥ एतेऽष्टौ ते मया प्रोक्ता गणेशांशा विनायकाः । एषां भजनमात्रेण स्वस्वब्रह्मप्रधारकाः ॥ ११॥ स्वानन्दवासकारी स गणेशानः प्रकथ्यते । स्वानन्दे योगिभिर्दृष्टो ब्रह्मणि नात्र संशयः ॥ १२॥ तस्यावताररूपाश्चाष्टौ विघ्नहरणाः स्मृताः । स्वानन्दभजनेनैव लीलास्तत्र भवन्ति हि ॥ १३॥ माया तत्र स्वयं लीना भविष्यति सुपुत्रक । संयोगे मौनभावश्च समाधिः प्राप्यते जनैः ॥ १४॥ अयोगे गणराजस्य भजने नैव सिद्ध्यति । मायाभेदमयं ब्रह्म निवृत्तिः प्राप्यते परा ॥ १५॥ योगात्मकगणेशानो ब्रह्मणस्पतिवाचकः । तत्र शान्तिः समाख्याता योगरूपा जनैः कृता ॥ १६॥ नानाशान्तिप्रभेदश्च स्थाने स्थाने प्रकथ्यते । शान्तीनां शान्तिरूपा सा योगशान्तिः प्रकीर्तिता ॥ १७॥ योगस्य योगता दृष्टा सर्वब्रह्म सुपुत्रक । न योगात्परमं ब्रह्म ब्रह्मभूतेन लभ्यते ॥ १८॥ एतदेव परं गुह्यं कथितं वत्स तेऽलिखम् । भज त्वं सर्वभावेन गणेशं ब्रह्मनायकम् ॥ १९॥ पुत्रपौत्रादिप्रदं स्तोत्रमिदं शोकविनाशनम् । धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥ २०॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् । भक्तिदृढकरं चैव भविष्यति न संशयः ॥ २१॥ इति मुद्गलपुराणान्तर्गतं गणेशावतारस्तोत्रम्
ஜப எண்ணிக்கை: 0/108