சனாதன ஸ்தோத்திர மஞ்சரி
ஶ்ரேணீ
ஸனாதன தே³வ

க³ணேஶபுராணே க³ணேஶாஷ்டகம்

गणेशपुराणे गणेशाष्टकम्
இயற்றியவர்: பாரம்பரிக பார்த்தவர்கள்: 3
எழுத்துரு / மொழி தேர்வு: देवनागरी (संस्कृत)
14px

गणेशाष्टकम्

यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ १॥ यतश्चाविरासीज्जगत्सर्वमेत- त्तथाब्जासनो विश्वगो विश्वगोप्ता । तथेन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ २॥ यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः । यतः स्थावरा जङ्गमा वृक्षसङ्घा- स्सदा तं गणेशं नमामो भजामः ॥ ३॥ यतो दानवा किन्नरा यक्षसङ्घा यतश्चारणा वारणा श्वापदाश्च । यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥ ४॥ यतो बुद्धिरज्ञाननाशो मुमुक्षोः यतः सम्पदो भक्तसन्तोषिकाः स्युः । यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ ५॥ यतः पुत्रसम्पद्यतो वाञ्छितार्थो यतोऽभक्तविघ्नास्तथानेकरूपाः । यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ ६॥ यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ७॥ यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति । परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ ८॥ फलश्रुतिः । पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः । त्रिसन्ध्यं त्रिदिनं तस्य सर्वकार्यं भविष्यति ॥ ९॥ यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् । अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥ १०॥ यः पठेन्मासमात्रं तु दशवारं दिने दिने । स मोचयेद्बन्धगतं राजवध्यं न संशयः ॥ ११॥ विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् । वाञ्छितान् लभते सर्वानेकविंशतिवारतः ॥ १२॥ यो जपेत्परया भक्त्या गजाननपदो नरः । एवमुक्त्वा ततो देवश्चान्तर्धानं गतः प्रभुः ॥ १३॥ इति श्रीगणेशपुराणे गणेशाष्टकम्
ஜப எண்ணிக்கை: 0/108