সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শত্রুসংহারকমেকদন্তস্তোত্রম্ অথবা গজবক্ত্রস্তুতিঃ

शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 2
23px
शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः श्रीगणेशाय नमः । सनत्कुमार उवाच । श‍ृणु शम्भ्वादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥ १॥ गणेशं पूजयध्वं वै यूयं सर्वे समावृताः । स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥ २॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ३॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तमम् । पूजयामो विशेषेण तं ब्रवीहि यथातथम् ॥ ४॥ एवं पृष्टो महायोगी देवैश्च मुनिभिः सह । उवाचाराधनं तेभ्यो गाणपत्यो महायशाः ॥ ५॥ एकाक्षरेण तं देवं हृदिस्थं गणनायकम् । विधिना पूजयध्वं च तुष्टस्तेन भविष्यति ॥ ६॥ ध्यानं तस्य प्रवक्ष्यामि श‍ृणुध्वं सुरसत्तमाः । यूयं तं तादृशं ध्यात्वा तोषयध्वं विधानतः ॥ ७॥ एकदन्तं चतुर्बाहुं गजवक्त्रं महोदरम् । सिद्धिबुद्धिसमायुक्तं मूषकारूढमेव च ॥ ८॥ नाभिशेषं सपाशं वै परशुं कमलं शुभम् । अभयं सन्दधन्तं च प्रसन्नवदनाम्बुजम् ॥ ९॥ भक्तेभ्यो वरदं नित्यमभक्तानां निषूदनम् । एतादृशं हृदि ध्यात्वा सेवध्वमेकदन्तकम् ॥ १०॥ सर्वेषां हृदि संस्थोऽयं बुद्धिप्रेरकभावतः । स्वयं बुद्धिपतिः साक्षादात्मा च सर्वदेहिनाम् ॥ ११॥ एकशब्दात्मिका माया देहरूपा विलासिनी । दन्तः सत्तात्मकः प्रोक्तः शब्दस्तत्र न संशयः ॥ १२॥ मायाया धारकोऽयं वै सत्तमात्रेण संस्थितः । एकदन्तो गणेशो वै कथ्यते वेदवादिभिः ॥ १३॥ सर्वसत्ताधरं पूर्णमेकदन्तं गजाननम् । सेवध्वं भक्तिभावेन भविष्यति सदा सुखम् ॥ १४॥ एवमुक्त्वा ययौ योगी स सनत्कुमार आदरात् । जय हेरम्बमन्त्रं वै समुच्चरन् मुखेन सः ॥ १५॥ ततो देवगणाः सर्वे मनुयस्तपसि स्थिताः । एकाक्षरविधानेन तोषयामासुरादरात् ॥ १६॥ पत्रभक्षा निराहारा वायुभक्षा जलाशिनः । कन्दमूलफलाहाराः केचित्केचिद्बभूविरे ॥ १७॥ संस्थिता ध्याननिष्ठा वै जपहोमपरायणाः । नानातपःप्रभावेण तोषयन् गणनायकम् ॥ १८॥ गतवर्षशतेषु वै सन्तुष्ट एकदन्तकः । आययौ तान्वरान्दातुं ध्यातस्तैर्यादृशस्तथा ॥ १९॥ जगाद स तपोयुक्तान् मुनीन्देवन्गजाननः । वरं वृणुत तुष्टोऽहं दास्यामि ब्राह्मणामराः ॥ २०॥ तस्य तद्वचनं श्रुत्वा हृष्टा देवर्षयोऽभवन् । उन्मील्य लोचने देवमपश्यन्समीपस्थितम् ॥ २१॥ दृष्ट्वा मूषकसंस्थं तं प्रणेमुस्ते गजाननम् । मुनयो देवदेवेन्द्रा पुपूजुर्भक्तिसंयुताः ॥ २२॥ पूजयित्वा यथान्यायं प्रणम्य करसम्पुटाः । तुष्टुवुरेकदन्तं तं भक्तिनम्रात्मकन्धराः ॥ २३॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गणेशाय नमो नमः । अनन्तानन्दभोक्त्रे वै ब्रह्मणे ब्रह्मरूपिणे ॥ २४॥ आदिमध्यान्तहीनाय चराचरमयाय ते । अनन्तोदरसंस्थाय नाभिशेषाय ते नमः ॥ २५॥ कर्त्रे पात्रे च संहर्त्रे त्रिगुणानामधीश्वर । सर्वसत्ताधरायैव निर्गुणाय नमो नमः ॥ २६॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रदाय च । ब्रह्मभूताय देवेश सगुणाय नमो नमः ॥ २७॥ परशुधारिणे तुभ्यं कमलहस्तशोभिने । पाशाभयधरायैव महोदराय ते नमः ॥ २८॥ मूषकारूढदेवाय मूषकध्वजिने नमः । आदिपूज्याय सर्वाय सर्वपूज्याय ते नमः ॥ २९॥ सगुणात्मककायाय निर्गुणमस्तकाय ते । तयोदभेदरूपेण चैकदन्तय ते नमः ॥ ३०॥ देवान्ताऽगोचरायैव वेदान्तलभ्यकाय ते । योगाधीशाय वै तुभ्यं ब्रह्माधीशाय ते नमः ॥ ३१॥ अपारगुणधामायानन्तमायाप्रचरिणे । नानावतारभेदाय शान्तिदाय नमो नमः ॥ ३२॥ वयं धन्या वयं धन्या यैर्दृष्टो गणनायकः । ब्रह्मभूतमयः साक्षात्प्रत्यक्षं पुरतः स्थितः ॥ ३३॥ एवं स्तुत्वा प्रहर्षेण ननृतुर्भक्तिसंयुताः । साश्रुनेत्रान्सरोमाञ्चान्दृष्ट्वा तान् ढुण्ढिरब्रवीत् ॥ ३४॥ एकदन्त उवाच । वरं वृणुत देवेशा मनुयश्च यथेप्सितम् । दास्यामि तं न सन्देहो यद्यपि दुर्लभं भवेत् ॥ ३५॥ भवत्कृतं मदीयं तत् स्तोत्रं सर्वार्थदं भवेत् । पठते श्रुण्वते देवा नानासिद्धिप्रदं द्विजाः ॥ ३६॥ शत्रुनाशकरं चैव सुखानन्दप्रदायकम् । पुत्रपौत्रादिकं सर्वं लभते पाठतो नरः ॥ ३७॥ गृत्समद उवाच । एवं तस्य वचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । ऊचुस्तमेकदन्तं ते प्रणम्य भक्तिभावतः ॥ ३८॥ सुरर्षय ऊचुः । यदि तुष्टोऽसि सर्वेश एकदन्त महाप्रभो । यदि देयो वरो नश्चेज्जहि दुष्टं मदासुरम् ॥ ३९॥ इति श्रीमुद्गलपुराणान्तर्गतं सनकादिकृतमेकदन्तस्तोत्रम् 
পাঠ জপ: 0/108