সনাতন স্তোত্র মঞ্জরী
শ্রেণী
সনাতন দেব

শ্রীবিনায়কতন্ত্রে শারদেশকবচম্

श्रीविनायकतन्त्रे शारदेशकवचम्
রচয়িতা: পারম্পরিক পাঠ সংখ্যা: 5
লিপি নির্বাচন করুন: देवनागरी (संस्कृत)
14px
श्रीशारदेशकवच श्रीगणेशाय नमः । देव्युवाच । कवचं शारदेशस्य कृपया ब्रूहि शङ्कर । शिव उवाच । कवचस्यास्य गणको ढुण्ढिसमुद्भवः । गँ बीजं प्रणवश्शक्तिस्स्वाहावै कीलकं स्मृतम् । न्यासध्यानादयस्सर्वे मन्त्रवत्परिकीर्तिताः । रमेशः पूर्वतः पातु वह्निकोणे रमावतु ॥ १॥ दक्षिणे पातु मां शम्भुः नैरृत्यां गिरिनन्दिनी । पश्चिमे पातु मां माये वायव्यां रतिसुन्दरी ॥ २। उत्तरे पातु मां ब्रह्मा रौद्रायां तु सरस्वती । आकाशे पुष्टिविघ्नेशः पातु मां पुष्टिसंयुतः ॥ ३॥ पाताले मूषकः पातु चतुर्ब्रह्मस्वरूपवान् । एवं दशदिशो रक्षेत् पञ्चैकाकृतिधारकः ॥ ४॥ शिखायां गुणपः पातु गुणाधारस्वरूपवान् । मूर्धानं पातु मे श्वेतः सुधामूर्तिर्निरन्तरम् ॥ ५॥ विद्येश्वरः भालदेशं भ्रूमध्यं ज्ञानदायकः । श्रवणौ मणिकर्णीशो महानन्दः कपोलयोः ॥ ६॥ दन्तान्मे स्थूलदन्तोऽव्यात् जिह्वां वागीश्वरीपतिः । ओष्ठौ मे पातु पीयूषदायको विष्णुपूजितः ॥ ७॥ चिबुकं प्रतिवादिमुखस्तम्भकरोऽवतु । कण्ठं विषनाशकोऽव्यात् वक्षो मे शूर्पकर्णकः ॥ ८॥ पञ्चप्राणान्सदा पातु मृतसञ्जीविनीपतिः । दौर्भाग्यनाशकस्स्कन्धौ बाहू मे यक्षिणीपतिः ॥९॥ ऊरू उदारगणपो लिङ्गं मे सृष्टिलिङ्गकः । अण्डं बीजगणेशोऽव्याद्गुदं विघ्नविनाशकः ॥ १०॥ पृष्ठं मेरुधनुष्पाणिः जानुनी मे जयप्रदः । जङ्घायुग्मं र्हस्वजङ्घो पादौ मृत्युविनाशकः ॥ ११॥ सर्वाङ्गाणि शारदेशः पातुमां विघ्ननाशकः । दिवाव्यान्नवनीतेशो रात्रावाज्ञागणेश्वरः ॥ १२॥ अटव्यां पर्वताग्रेवा गमनागमनादिषु । दशबाहुधरः पातु भार्यान्मे शारदेश्वरः ॥ १३॥ पुत्रान्पुत्रीर्गुरून्भृत्यान् पातुमां मुद्गरायुधः । धियं विद्यां धनं गेहं पातु पीयूषविग्रहः ॥ १४॥ सर्वदा मां सदा पातु ज्ञानमण्डपसंस्थितः । भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेन्नरः ॥ १५॥ न भयं जायते तस्य ग्रहरोगपिशाचतः । य इदं कवचं पुण्यं महारोगनिवारकम् ॥ १६॥ अपमृत्युहरं सौख्यदायकं भक्तिपूर्वकम् । प्रातःकाले च मध्याह्ने सायङ्कालेऽथवा ॥ १७॥ उषःकाले च सङ्ग्रामकाले शयनकालके । प्रवासे च पठेद्भक्त्या ध्यात्वा च शारदापतिम् ॥ १८॥ सर्वत्र सुखमाप्नोति गुणेशेन सुरक्षितः । मृत्युरोगहरं चैतत् पठनीयं विशेषतः ॥ १९॥ राजानो वश्यतां यान्ति रिपुनो यान्ति दास्यताम् । मन्त्रास्सिध्यन्ति गाणेशाः पठनादस्य वर्मणः ॥ २०॥ इदं कवचमज्ञात्वा यो भजेच्छारदापतिम् । नच सिद्धिमवाप्नोति मूडो वर्षसहस्रकैः ॥ २१॥ शारदागणनाथस्य भक्तेन भावपूर्वकम् । नित्यं जप्यमिदं श्रेष्ठं कवचं सर्वसिद्धिदम् ॥ २२॥ नित्यं जपपरो भक्तो धर्मार्थकाममोक्षकान् । विद्यां मेधां श्रियं बुद्धिं यशः कीर्तिमवाप्यच ॥ २३॥ इह भुक्ताखिलान्भोगानन्ते स्वानन्दमाप्नुयात् । ॥ इति श्रीविनायकतन्त्रे शारदेशकवचम् ॥
পাঠ জপ: 0/108