ஸனாதன தே³வ
.. ராமத்³வாத³ஶநாமஸ்தோத்ரம் ..
॥ रामद्वादशनामस्तोत्रम् ॥
प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम्। तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम्॥१॥
पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम्। सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा॥२॥
नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम्। एकादशं च गोविन्दं द्वादशं सेतुबन्धनम्॥३॥
द्वादशैतानि नामानि यः पठेछ्रद्धयान्वितः। अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम्॥४॥
अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम्। ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम्॥५॥
सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम्। ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः। अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यति॥ ६ ॥
॥ इति श्री स्कान्दपुराणे उत्तरखण्डे श्री उमामहेश्वरसंवादे श्री रामद्वादशनामस्तोत्रं सम्पूर्णम् ॥